सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

द्वितीयपादं व्याचष्टे—

अध्या० ३ ख० ४ (१२)] ऐतरेयारण्यकम् । ४५

अत्र क्रतुशब्दः प्राणिना(नां) मनसा(सां) चोपलक्षणेण(णेन) व्याख्यातः ।
द्वितीयपादं व्याचष्टे—
द्विर्यदेते त्रिर्भवन्त्युमा इति द्वौ वै सन्तौ
मिथुनौ प्रजायेते प्रजात्यै , इति ।
वेदनं प्रशंसति—
प्रजायते प्रजया पशुभिर्य एवं वेद, इति ।
तृतीयपादं व्याचष्टे—
स्वादोः स्वादीयः स्वादुना सृजा समिति मिथुनं वै
स्वादु प्रजा स्वादु मिथुनेनैव तत्प्रजां संसृजति, इति ।
चतुर्थपादं व्याचष्टे—
अदः सुमधु मधुनाऽभियोधीरिति मिथुनं वै मधु
प्रजा मधु मिथुनेनैव तत्प्रजामभियुध्यति, इति ।
इत्थं सूत्रोक्तं स्तोत्रीयं तृचं व्याख्याय तदीयेऽर्थे संवादाय शाखान्तरीयमृक्पाद-
मुदाहृत्य व्याचष्टे—
तदुक्तमृषिणा स्वां यत्तन्नूं तन्वामैरयतेत्यस्यां
शारीर्यामिमां छन्दोमयीमित्येव तदाह, इति ।
“स्वादोः स्वादीयः ” [ ऋ० सं० म० १० सू० १२० ऋ० ३ ] इत्यादिना
पादद्वयेन मातापितृजन्यं शरीरं प्रकृतशस्त्रोपयुक्तं प्रतिपादितं यदस्ति तदेवमृषिणा
स्वां यदिंत्यादिना मन्त्रभागेन(ण) प्रकटीकृतम् । यद्वा “तद्दिदास ” [ ऋ० सं०
म० १० सू० १२० ऋ० १ ] इत्यादिकस्य कृत्स्नस्य शस्त्रस्य तात्पर्यं यदस्ति
तत्सर्वमृषिणा मन्त्रपादेन संगृह्योक्तम् । स तु पाद एवं योजनीयः । यद्यस्मात्कार-
णात्पूर्वोक्ततृचप्रतिपाद्य आदित्योपाधिक ईश्वरः स ❊स्वां तनूं यजमानरूपं शरीरं
तदीयमातापितृरूपशरीर ऐरयत प्रेरितवांस्तस्मात्स्वादोः स्वादीय इत्यादिकमुपपन्नम् ।
अथवा तन्वां यजमानशरीरे स्वां तनूं स्वकीयां तदतिशयेत्यादिकानन्दरूपां तनूं


द्विर्यदेते त्रिर्भव०—ऋ० सं० म० १० सू० १२० ऋ० ३ । स्वादोः स्वादीयः
स्वादुना०—ऋ० सं० म० १० सू० १२० ऋ० ३ । अदः सुमधु मधुना०—
ऋ० सं० म० १० सू० १२० ऋ० ३ ।


* अत्र स्वां यत्तमूमित्येव पाठः सकलादर्शपुस्तकेषु ।


१ ग. घ. सूत्रान्तं । २ ख. ग. घ. ˚र्वोक्तं तृचं प्र˚ ।

४६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

यजमानसंस्कारकत्वेन यस्मात्संपादितवांस्तस्मादिदं निष्केवल्यशस्त्रं प्रशस्तम् । तदेतद्द्वितीयं व्याख्यानमस्यामित्यादिना ब्राह्मणेन स्पष्टी क्रियते । अस्यां दृश्यमानायां शारीर्या यजमानशरीरसंबन्धिन्यामावृतामिमां तदिदासेत्यादिकां छन्दोमयीं वेदरूपां तनूं संस्कारकत्वेन संपादितवानित्येतन्मन्त्रवाक्यं ब्रूते १। तेन( तस्य? ) २ शस्त्रस्य शिरःपक्षादिकल्पनाया वक्ष्यमाणत्वात् [ऐ० आ० १ अ० ४ ख० २ ]छन्दोमयशरीरत्वं युक्तम् ।

पुनरपि शस्त्रस्तुत्यर्थमन्यमन्त्रपादं शब्दतो व्याचष्टे—

तनूरेव तन्वो अस्तु भेषजमित्यस्यै
शारीर्या इयं छन्दोमयीत्येव तदाह, इति ।

शारीर्याशब्दः पूर्वोदाहरणेन समुच्चयार्थः । न केवलमृषिणा पूर्वेणैव तदुक्तं किं तु तनूरेवेत्यादिनाऽप्यृषिणा तदुक्तम् । मन्त्रपादश्चैवं योजनीयः । तनूः ३ “तदिदास” (ऋ० सं० म० १० सू० १२० ऋ० १) इत्यादिका छन्दोमयी तन्वौ ४ यजमानशरीरस्य भेषजं पापव्याधिनिवर्तकमौषधमस्तु । मन्त्रे तनू[स्तन्व]रि(इ)त्यनयोः षष्ठ्यन्तप्रथमान्तयोरर्थो ब्राह्मणेन स्पष्टीकृतः ।

इत्थं मन्त्रद्वयोदाहरणेन शस्त्रं प्रशस्य बहुविधच्छन्दोन्तर्भावेनापि शस्त्रं प्रशंसति—

तस्यै यान्यष्टावक्षराणि सा गायत्री यान्येकादश
सा त्रिष्टुब्यानि द्वादश सा जगत्यथ यानि दश
सा विराड्दशिन्येषु त्रिषु च्छन्दःसु प्रतिष्ठिता, इति ।

“तदिदास भुवनेषु” (ऋ० सं० म० १० सू० १२० ऋ० १) इत्यादिका [या ऋक्,] तस्या ऋचः प्रथमपादो दशाक्षरः । तस्यै तस्या ऋचः संबन्धीनि यान्यष्टौ प्रथमपादाक्षराणि सन्ति सेयमष्टाक्षररूपा गायत्री संपद्यते । यानि तृतीयपाद एकादशाक्षराण्याम्नातानि सेयमेकादशाक्षरा त्रिष्टुप्संपद्यते । प्रथमपादे यदवशिष्टमक्षरद्वयं तद्द्वितीये (* चतुर्थे वा) दशाक्षरयुक्ते पादे योजनीयम् । तथा सति यानि द्वादशाक्षराणि सा जगती संपद्यते । अथ प्रथमे द्वितीये तृतीये चतुर्थे वा पादे यान्याम्नातानि दशाक्षराणि सा विराक्छन्दोरूपा । एवमेषा दशिनी दशाक्षरोपेता स्वतः सिद्धा विराट् । एवमुक्तरीत्या संपादितेषु गायत्रीत्रिष्टुब्जगतीरूपेषु त्रिषु छन्दःसु विरात्प्रतिष्ठिता पर्यवस्थिता ।


* अत्र किंचित्रुटितमिति भाति । अधिकं वैतत् “चतुर्थे वा” इति ।


१ ग. ॰तेति शं । २ ख. घ. ते शं । ३ ख. तन्वस्तदिं । ग. घ. तन्यस्तदिं । ४ ख. ग. घ. ॰न्वो न यं । ५ ख. ग. घ. ॰सु त्रिष्टुप्प्रति॑ ।

अध्या०३ख०५(१३)] ऐतरेयारण्यकम्। ४७

अथैतस्यां प्रथमायां^१मुच्यक्षरत्रयप्रक्षेपं विधत्ते—
पुरुष इति त्र्यक्षरं स उ विराजि, इति ।
यदेतत्त्र्यरूपं पदं तदेतस्यामृचि प्रक्षेपणीयमित्यध्याहारैः^३। स यः सोऽप्यक्षरः(?) ।
[*पूर्वोक्तच्छन्दश्चतुष्टयस्य सकलच्छन्दोरूपत्वकथनपुरःसरं तद्वेदनफलं दर्शयति—]
एतानि वाव सर्वाणि च्छन्दांसि यान्येतानि
विराट् चतुर्थान्येवमु हैवं विदुष एतदहः
सर्वैश्छन्दोभिः प्रतिपन्नं भवति, इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके द्वितीयाध्याये
चतुर्थः खण्डः ॥ ४ ॥ ( १२ )

विराट्छन्दश्चतुःसंख्यापूरकं येषां गायत्र्यैत्रिष्टुब्जगतीनां तानि विराट्सचतुर्थानी-दृशानि यान्येतानि चत्वारि सन्ति तान्येतानीति निर्द्वन्यववा(^४न्येव सकलान्यव )शिष्टश्छ(च्छ)न्दोरूपाणि । गायत्र्यादीनां स्तवननिष्पादकत्वेन मुख्यत्वात्सर्वच्छन्दोरूपत्वोपचारः। एवमु हैव यथोक्तेन प्रकारेण विराजि गायत्र्यादीनां त्रयाणामन्तर्भावो विराट्-सहितानां चतुर्णां सर्वच्छन्दोरूपत्वोपचार इत्येवं विदुषो यजमानस्यैतन्महाव्रतमहः सर्वैश्छन्दोभिः संपादितं भवति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयारण्यकभाष्ये
प्रथमारण्यके तृतीयाध्याये चतुर्थः खण्डः ॥ ४ ॥ ( १२ )


अथ पञ्चमः खण्डः । ( त्रयोदशः )


अथ शस्त्रस्य विहरणं^५ विधत्ते—
ता नदेन विहरति पुरुषो वै नदस्तस्मा-
त्पुरुषो वदन्सर्वः संनदतीव, इति ।
ताः शस्त्रगताः “ तदिदास ” [ ऋ० सं० म० १० सू० १२० ऋ० १ ] इत्यादिका ऋचो नदेन नदलिङ्गकेन मन्त्रेण विहरति व्यतिषजति मिश्रयेदित्यर्थः । नदशब्दः पुरुषस्वरूप एव यस्मात्तस्माल्लोके सर्वः पुरुषो भाषमाणः सम्यग्ध्वनिं करोतीव दृश्यते । गम्भीरो हि पुरुषस्य ध्वनिः । नदलिङ्गकश्च मन्त्रः संहितायामेवमाम्नातः—
“ नदं व ओदतीनां नदं योयुवतीनाम् ।
पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ” इति ।
[ ऋ० सं० म० ८ सू० ६९ ऋ० २ ]


* एतच्चिह्नान्तर्गतो ग्रन्थः प्रकल्प्यात्र निवेशित इति बोध्यम् ।
^१ ग. घ. 'मायां दिश्यक्षं'। ^२ ख. 'यामक्ष'। ^३ क. °रः । ए° । ^४ क. 'ति च्छन्दो'।
^५ क. विवरणं । ख. विहरणां ।

४८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

एतन्मिश्रप्रकरणं पञ्चमे स्पष्टमभिधास्यते—‘‘ नदं व ओदतीनामित्येतयैतानि
व्यतिषजति पादैः पादान्नृहतकारम् ’’ ( ऐ० आ० ५ अ० १ ख० ६ ) इति ।
तत्तथा तत्रैवोदाहृत्यापीति प्रदर्शितम्—‘‘ तदिदास भुवनेषु ज्येष्ठं पु नदं व ओद-
तीनां यतो जज्ञ उग्रस्त्वेष नृम्णोरु नदं योयुवतीनां सद्यो जज्ञानो निरिणाति शत्रू-
न्पतिं वो अघ्न्यानामनु यं विश्वे मदन्त्यूमाः षो धेनूनामिषुध्यसोम् ’’ [ ऐ० आ० ५
अ० १ ख० ६ इति । नदलिङ्गकस्य मन्त्रस्यायमर्थः—ओदतीनां तृतीयसवन ऋजी-
षमुन्दतीनामहन्तव्यानां वो युष्माकं पतिं पालकं यजमानं रक्षत । हे इन्द्र त्वं
धेनूनां धेनुवत्प्रीणयितॄणामपामिषुध्यसि, ईश्वरोऽसि । ‘‘ इषुध ऐश्वर्ये ’’ [ क० ग०
प० ] इति धातुः ।

अस्या ऋचः प्रथमपादं व्याचष्टे—

नदं व ओदतीनामिती३ँ आपो वा ओदत्यो
या दिव्यास्ता हीदं सर्वमुन्दन्त्यापो वा ओदत्यो
या मुख्यास्ता हीदं सर्वमन्नाद्यमुन्दन्ति, इति ।

अस्मिन्पादे ओदतीशब्देनाऽऽप एव विवक्षिताः । यस्माद्या आपो दिव्यभवन्वृ-
ष्टिद्वारेणाऽऽगतास्ता आपः सर्वमिदं भूत[जात]मुन्दन्ति क्लेदयन्ति, तथा मुखे भवा
आस्योदकरूपा या आपस्ताः सर्वमन्नाद्यं शुष्कमपि पृथगिव शष्कुल्यादिकं सर्वं खाद्यं
द्रवी कुर्वन्ति, तस्मादोदत्य इत्युच्यन्ते । इति शब्दस्योपरि योऽयं सानुनासिकः
प्लुतः सोऽयं पादप्रतिग्रहणेऽन्यतमादरार्थः ।

[*द्वितीयपादं व्याचष्टे—

नदं योयुवतीनामिती३ँ आपो वाव योयुवत्यो या
अन्तरिक्ष्यास्ता हि पोप्लूयन्त इवाऽऽपो वाव योयु-
वत्यो याः स्वेदते ता हि सरीसृप्यन्त इव, इति ।]

तृतीयपादं व्याचष्टे—

पतिं वो अघ्न्यानामिती३ँ आपो वा अघ्न्या या अग्नेर्धूमा-


नदं व ओदतीनामि०—ऋ० सं० म० ८ सू० ६९ ऋ० २ । नदं योयुवतीना०—ऋ० सं० म० ८ सू० ६९ ऋ० २ । पतिं वो अघ्न्यानाम्—ऋ० सं० म० ८ सू० ६९ ऋ० २ ।


* एतच्चिह्नान्तर्गतो मूलातिरिक्तो ग्रन्थत्रुटितत्वात्प्रकल्प्य निवेशितः । मूलं तु मूलपुस्तकेभ्य उद्धृत्य निवेशितम् ।
१ क. ख. घ. ॰च्यते । इ° ।