सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

द्वितीयां विभूतिमाह—

११० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-

द्वितीयां विभूतिमाह—

घ्राणेन सृष्टावन्तरिक्षं च वायुश्चान्तरिक्षं वा अनु
चरन्त्यन्तरिक्षमनु शृण्वन्ति वायुरस्मै पुण्यं गन्ध-
मावहत्येवमेतौ घ्राणं पितरं परिचरतोऽन्तरिक्षं
च वायुश्च यावदन्वन्तरिक्षं यावदनु वायुस्तावा-
नस्य लोको भवति नास्य तावल्लोको जीर्यते
यावदेतयोर्न जीर्यन्तेऽन्तरिक्षस्य च वायोश्च
य एवमेतां प्राणस्य विभूतिं वेद, इति ।

नासिकायामवस्थितो घ्राणेन्द्रियरूपो यः प्राणस्तेनान्तरिक्षवायू सृष्टाविति ध्यायेत् । सर्वे प्राणिनोऽन्तरिक्षमेवानुसृत्य संचारं कुर्वन्ति । दूरदेशे प्रोक्तां वार्तामपि शृण्वन्ति । न हि मूर्तेन कुड्यापर्वतादिनाऽवरुद्धे देशे संचारो वार्ताश्रवणं वा संभवति । सोऽयमन्तरिक्षकृत उपकारः । वायुश्च चम्पककेतक्यादिगतं पुण्यगन्धमानयति । दुर्गन्धानयनं^१ तु न वायुस्वभावकृतं नापि तदभिज्ञानमिन्द्रियस्वभावकृतं किं त्वासुरपापवेधकृतमिति च्छन्दोग(च्छान्दोग्य)बृहदारण्यकयोः प्रपञ्चितम् । तदिदं पुण्यगन्धानयनं वायुकृत उपकारः । अन्यत्पूर्ववद्व्याख्येयम् ।

तृतीयां विभूतिमाह—

चक्षुषा सृष्टौ द्यौश्चाऽऽदित्यश्च द्यौर्हास्मै वृष्टिम-
न्नाद्यं संप्रयच्छत्यादित्योऽस्य ज्योतिः प्रकाशं
करोत्येवमेतौ चक्षुः पितरं परिचरतो द्यौश्चाऽऽ-
दित्यश्च यावदनु द्यौर्यावदन्वादित्यस्तावा-
नस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेत-
योर्न जीर्यते दिवश्चाऽऽदित्यस्य च य
एवमेतां चक्षुषो विभूतिं वेद, इति ।

द्युलोको हि मेघं संपाद्य वृष्टिद्वारेण व्रीह्याद्यन्नं प्रयच्छति । आदित्यस्तु स्वकीयं ज्योतिः प्रसार्य वस्तूनां प्रकाशमभिव्यक्तिं करोति । अन्यत्पूर्ववत् ।

चतुर्थीं विभूतिमाह—

श्रोत्रेण सृष्टा दिशश्च चन्द्रमाश्च दिग्भ्यो हैनमा-
यतीँ३ दिग्भ्यो विशृणोति चन्द्रमा अस्मै पूर्व-
पक्षापरपक्षान्विचिनोति पुण्याय कर्मण एवमेते


^१ घ. ङ. 'तं वदति किं' ।

अध्या० १ । ख० ७] ऐतरेयारण्यकम् । १११

श्रोत्रं पितरं परिचरन्ति दिशश्च चन्द्रमाश्च
यावदनु दिशां यावदनु चन्द्रपास्तावत्तस्य
लोको भवति नास्य तावल्लोको जीर्यते
यावदेतेषां न जीर्यते दिशां च चन्द्रमसश्च
य एवमेतां श्रोत्रस्य विभूतिं वेद, इति ।

एनमुपासकं पुरुषं प्रति दिग्भ्यः सकाशात्सेवकाः पुरुषा भोग्यवस्तूनि चाऽऽग-
च्छन्ति । तथा मूर्तद्रव्यव्यवधानाभावे सति दिग्भ्यः सकाशाद्दूरे प्रोक्तमपि वचनं विशे-
षेण शृणोति । चन्द्रमास्तस्य पुरुषस्य दर्शपूर्णमासादिपुण्यकर्मार्थं शुक्लकृष्णपक्षान्व-
हुविधमासंगतान्विशेषेण संपादयति ।

पञ्चमीं विभूतिमाह—

मनसा सृष्टा आपश्च वरुणश्चाऽऽपो हास्मै श्रद्धां संन-
मन्ते पुण्याय कर्मणे वरुणोऽस्य प्रजां धर्मेण दाधारै-
वमेते मनः पितरं परिचरन्त्यापश्च वरुणश्च यावद-
न्वापो यावदनु वरुणस्तावत्तस्य लोको भवति नास्य
तावल्लोको जीर्यते यावदेतेषां न जीर्यतेऽपां च
वरुणस्य च य एवमेतां मनसो विभूतिं वेद, इति ।

इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये
सप्तमः खण्डः ॥ ७ ॥

तँटाकपुण्यनद्यादिषु वर्तमाना आपः स्नानाचमनमार्जनद्वारेणास्योपासकस्य श्रौत-
स्मार्तपुण्यकर्मानुष्ठानाय श्रद्धामास्तिक्यमुत्पादयन्ति । वरुणस्त्वस्य पुत्रादिरूपां
प्रजां पापप्रवृत्तिंनिवार्य धर्मे प्रवर्तयति । अन्यत्पूर्ववत् । ननु “हृदयान्मनो मनसश्च-
न्द्रमाः” [ऐ० आ० २ अ० ४ ख० १] इत्येवमुपरिष्टाच्चन्द्रमसो मनःकार्यत्वं
वक्ष्यति । अत्र तु श्रोत्रेण सृष्टा दिशश्च चन्द्रमाश्चेति श्रोत्रकार्यत्वं कथमुच्यत इति,
नायं दोषः । अस्याः सृष्टेरुपासनार्थत्वात् । न खलु यथावस्त्वेवोपासितव्यमिति कश्चि-
न्नियमोऽस्ति किं तु यथावचनमेवोपासितव्यमित्येतावानेव नियमः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये द्वितीयारण्यके प्रथमाध्याये सप्तमः खण्डः ॥ ७ ॥


१ घ. ङ. °शाद्दूरतः प्रो° । २ ग. 'मासग' । घ. ङ. °मागं° । ३ क. तडाक° । ४ घ. ङ. °नदीषु ।

११२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२द्वितीयारण्यके-

अथाष्टमः खण्डः ।

प्राणदेवताया नानाविधविभूतिरूपान्ध्येयगुणानुक्त्वा समस्तकार्यकारणरूपजगदात्मकत्वलक्षणं गुणं ध्येयं विधत्ते—

आपा३ इत्याप इति तदिदमाप एवेदं वै मूलमद-
स्तूलमयं पितैते पुत्रा यत्र ह क्व च पुत्रस्य तत्पितु-
र्यत्र वा पितुस्तद्वा पुत्रस्येत्येतत्तदुक्तं भवति, इति।

पूर्वत्र—“तस्य वाचा सृष्टौ” [ऐ० आ० २ अ० १ ख० ७] इत्यादिना पुरुषस्य सृष्टिहेतुत्वं यदुक्तं तदेतन्निमित्तकारणत्वाभिप्रायम् । पुरुषो हि पूर्वस्मिञ्जन्मनि ज्ञानकर्मणी अनुष्ठायेदानींतनसृष्टेर्निमित्तं भवति । अत्र तु जगत उपादानकारणं विचार्य निर्णयते । मृतिर्विचारार्था । अप्शब्देन पञ्च भूतान्युपलक्ष्यन्ते । स्थावरजङ्गमदेहरूपस्य जगतः किं पञ्च भूतान्युपादानमाहोस्विदन्यत्किंचिदिति संशये सत्यप्शब्दोपलक्षितानि पञ्च भूतान्येवोपादानमिति निर्णायोच्यते । कार्यभूतेषु देहेषु पञ्चभूतानुगतेर्दृश्यमानत्वात्। सा चानुगतिर्गर्भोपनिषद्याम्नाता—“अस्मिन्पञ्चात्मके शरीरे यत्कठिनं सा पृथिवी यद्द्रवं तदापो यदुष्णं तत्तेजो यत्संचरति स वायुर्यत्सुषिरं तदाकाशमित्युच्यते” [गर्भो० १।] इति। तत्तस्मात्कारणादिदं कृत्स्नदेहरूपं जगदप्शब्दोपलक्षितानि पञ्च भूतान्येव कार्यकारणयोर्मृद्घटयोरत्यन्तभेदादर्शनात् । इदं वै यथोक्तमप्शब्दोपलक्षितभूतपञ्चकमेव मूलमुपादानं कारणमदः स्थावरजङ्गमदेहरूपं जगत्तूलं कार्यम् । अतः परस्परैक्यं युक्तम् । तथा निमित्तकारणभूतोऽयं पुरुषः पिता । एते पृथिव्यग्न्यादिदेवतादेहाः पुत्राः । तयोश्च परस्परं नात्यन्तं भेदः । कथं भेदाभाव इति चेत्तदुच्यते—लोके पुत्रस्य वस्तु यत्र ह क्वच यस्मिन्कस्मिन्नपि ग्रामान्तरे विद्यमानं तत्सर्वं पितुः स्वं भवति । पिता हि तदानीयानुभवति । अथवा पितुः संबन्धि यद्वस्तु ग्रामान्तरे विद्यते तद्वा तदपि पुत्रस्य स्वं भवत्येव । पुत्रोऽपि तदानीयानुभवति । परस्परद्रव्यानुभवेन यदैक्यमस्येतत्तदैक्यं तेत्तेनायं पितैते पुत्रा इति वाक्येनोक्तं भवति । भूतपञ्चकस्य पृथिव्यादिदेवतादेहानां च कार्यकारणरूपेण यदैक्यमुपासकपुरुषस्य पितृरूपस्य पुत्ररूपाणां देवतात्मनां च यदैक्यं तदुभयं प्राणगुणत्वेन ध्येयमित्यर्थः ।

उक्तार्थदार्ढ्याय महर्षिवाक्यं दर्शयति—

एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेय
आऽहं मां देवेभ्यो वेद ओ मदेवान्वे-
देतःप्रदाना ह्येत इतःसंभृता इति, इति।


१ ख. ग. ॰र्यकरं । २ घ. ङ. तदेतदुभयं पिं ।

अध्या० १ ख० ८] ऐतरेयारण्यकम्। ११३

इतराख्यायाः कस्याश्चित्स्त्रिया अपत्यमैतरेयः स च नाम्ना महिदासस्तादृशो महर्षिस्तदेतत्पूर्वकं कार्यकारणद्रव्यैक्यं पितृपुत्रैक्यं चोपासनया प्राणात्मकत्वं प्राप्तस्य स्वस्य गुणत्वेन विद्वाञ्छिष्याणामग्रे तत्प्रकटनार्थमिदं वाक्यमुक्तवान् । मामहमादेवेभ्यो वेद । आकारो निपातोऽभिविधौ वर्तते । देवैः सहितं तदभिन्नं मत्स्वरूपमहं वेदोपासे । ओ^१ मदित्यत्राऽऽकार उकारश्चेति पदद्वयम् । देवानु देवानपि सर्व्वान् मद्भेद मया सहितानेकत्वेनोपासे । न च पुरुषस्य मम देवसाहित्यमयुक्तमिति शङ्कनीयम् । एते देवा इतःप्रदाना हि । इतोऽस्माल्लोकात्पुरोडाशादि प्रदानं येषां ते इतःप्रदानाः । तस्मादेव कारणादितः संभृता एतल्लोकप्रत्ताद्धविर्भिः सम्यक्पोषिताः । तेनोपासकस्य देवैः साहित्यं युक्तमित्येवं महर्षिरुवाच ।

गुणान्तरं विधत्ते—

स एष गिरिश्चक्षुः श्रोत्रं मनो वाक्प्राणस्तं ब्रह्मगिरिरित्याचक्षते, इति ।

योऽयं चक्षुरादीन्द्रियसमूहः स एष प्राणदेवताया गिरणाद्गिरिरित्युच्यते । यथा निगीर्णमन्नादिकं बहिर्नोपलभ्यते तथेयं प्राणदेवता चक्षुरादीन्द्रियैर्निगीर्णेव तिरोहिता सती लौकिकैर्नोपलभ्यते । यस्मादेवं तस्मात्तं चक्षुरादीन्द्रियसंघातं ब्रह्मगिरिरित्येवमभिज्ञा आचक्षते । प्राणरूपस्य ब्रह्मणो निगरैणतिरोधानाद्ब्रह्मगिरित्वम् । चक्षुरादिरूपेण तिरोहितं प्राणरूपं ब्रह्मेति ध्यायेत् ।

ब्रह्मगिरि[त्व]गुणध्यानस्य फलमाह—

गिरति ह वै द्विषन्तं पाप्मानं भ्रातृव्यं पराऽस्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद, इति ।

पापरूपः शत्रुरनुष्ठानविघ्नरूपं द्वेषं करोति तं गिरति विनाशयति । स च पाप्मा पराभूतः सर्वात्मना विनष्टो भवति ।

तामेतामुपास्यां प्राणदेवतां प्रशंसति । यद्वा गुणान्तराणि विधत्ते—

स एषोऽसुः स एष प्राणः स एष भूतिश्चाभूतिश्च, इति ।

योऽयमुपास्यो देवः स एष देहेन्द्रियादिसंघातमस्यति क्षिपति प्रेरयतीत्यसुः । प्रकर्षेणानिति स्वयं चेष्टत इति प्राणः । एतस्या देवतायाः शरीरेष्ववस्थाने सति जीवात्माऽपि तत्र भवत्यवतिष्ठते तस्माज्जीवात्मसद्भावहेतुत्वाद्भूतिरित्युच्यते । प्राणदेवताया निर्गमने सत्यत्र जीवात्मा न भवति नावतिष्ठते तस्मादभूतिरित्युच्यते । गुणचतुष्टयं ध्येयमित्यर्थः ।


१ क. ख. ओमित्य० । २ क. ख. घ. ङ. ०रणाति० ।

१५

११४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-

तत्र भूतिगुणं प्रशंसति—
तं भूतिरिति देवा उपासांचक्रिरे ते बभूवुस्तस्मा-
द्धाप्येतर्हि सुप्तो भूर्भूरित्येव प्रश्वसिति, इति ।

तं प्राणदेवं जीवात्मसद्भावहेतुत्वेन भूतिगुणयुक्तोऽयमित्युपास्य वागाद्यभिमानिनो देवा बभूवुर्भूतिमैश्वर्यं प्रापुः । यस्माद्भूतिगुणयुक्तोऽयं प्राणस्तस्मादेव कारणादिदानीमपि सुप्तः पुमान्भूतिगुणद्योतकं भूशब्दस्यानुकरणरूपं ध्वनिं पुनः पुनः कुर्वन्प्रकर्षेण श्वासं करोति ।

अभूतिगुणं निन्दति—
अभूतिरित्यसुरास्ते पराबभूवुः, इति ।

प्राणनिर्गमनेन जीवस्यात्र योऽयमभावः सोऽयमभूतिशब्देनोच्यते । तद्गुणं प्राणमुपास्यासुराः पराभूता विनष्टाः । अत एव च श्रुत्यन्तरं पठ्यते—"तं यथा यथोपायते तदेव भवति" इति ।

भूत्यभूतिगुणद्वयध्यानस्य फलं दर्शयति—
भवत्यात्मना पराऽस्य द्विषन्पाप्मा
भ्रातृव्यो भवति य एवं वेद, इति ।

अयं प्राणदेवः स्वस्य सद्भावहेतुर्वैरिणामभावहेतुरित्येवं यः पुमानुपास्ते स पुमानात्मना भवति स्वयं चिरजीवी भवति । शत्रुश्च पराभवति । नन्वभूतिगुणः पूर्वं निन्दितः कथमङ्गी क्रियत इति चेत्प्रकारभेदादिति ब्रूमः । त(स्व)स्यैवाभावहेतुरित्येवमसुराणां यदुपासनं तन्निन्दितं वैरिणामभावहेतुरित्युपासनं त्वङ्गी क्रियते ।

गुणान्तरं विधत्ते—
स एष मृत्युश्चैवामृतं च, इति ।

स्वनिर्गमनेन देहमरणात्प्राणस्य मृत्युत्वम् । स्वावस्थानेन देहमरणाभावादमृतत्वम् । एतद्गुणद्वयं ध्यायेत् ।

यथोक्तगुणोपेतं प्राणं प्रशंसितुं मन्त्रमुदाहरति—
तदुक्तमृषिणा, इति ।

स च मन्त्रः संहितायामेवमाम्नातः—
"अपाङ्प्राङेति स्वधया गृभीतोऽमर्त्यो मर्त्येना सयोनिः ।
ता शश्वन्ता विषूचीना वियन्ता न्य१न्यं चिक्युर्न निचिक्युरन्यम्" इति ।
[ ऋ० सं० म० १ सू० १६४ ऋ० ३८ ] तस्यायमर्थः—अयं प्राणवायुर्देहमध्ये स्वधया गृभीतः । स्वधाशब्दोऽन्नवाची । भुक्तेनान्नेन परिगृहीतोऽवस्थापितः सन्नध ऊर्ध्वं च संचरति । मलमूत्रापनयनार्थमधोभागेऽञ्चति गच्छतीत्यपाङ् । श्वासार्थ

अध्या० १। ख० ८] ऐतरेयारण्यकम् । ११५

प्रकृष्टे मुखेऽञ्चति गच्छतीत्यपाङ् । एवंविधः सन्नेति गच्छति सर्वदा संचरति । स च प्राणः स्वयममर्त्यो मरणरहितः सन्मर्त्येन मरणोपेतेन शरीरेण सह (स)योनिः समानस्थान एकत्रावस्थितः । जतुकाष्ठवद्देहप्राणयोरत्यन्तं संश्लेष एकत्रावस्थानम् । प्राणस्य निर्गमे देहस्य मरणान्मर्त्यत्वम् । प्राणस्य तु मरणशब्दवाच्यप्राणवियोगासंभवादमर्त्यत्वम् । ता शश्वन्ता तौ देहप्राणौ शाश्वतिकौ । प्राणस्य विनाशाभावेन तत्सहचारिणो देहस्यापि च्छत्रिणो गच्छन्तीतिवच्छाश्वतिकत्वमुपचर्यते । कीदृशौ तौ—विषूचीना विष्वक्सर्वततोऽञ्चतस्तो विषूचीनौ, विविधव्यापारयुक्तौ । प्राणो देहेन्द्रियादींश्चालयति, देहस्तु प्राणेन्द्रियाणामाधारत्वेनावतिष्ठते । पुनरपि कीदृशौ— वियन्ता परस्परविरोधेन गच्छन्तौ । देहो मृतः सन्भूमौ गच्छति, तद्वैपरीत्येन प्राण ऊर्ध्वं लोकान्तरे गच्छति । तयोरुभयोर्मध्येऽन्यतरं देहं निचिक्युः । अन्नपानाभ्यां मनुष्यादयो निचयं वृद्धिं प्रापितवन्तः । अन्यं तु प्राणं न निचिक्युः, न ह्यन्नपानाभ्यां प्राणो वर्धत इति ।

तस्य मन्त्रस्य प्रथमं पादं व्याचष्टे—

अपाङ्प्राङेति स्वधया गृभीत इत्यपानेन
ह्ययं यतः प्राणो न पराङ्भवति, इति ।

यतो यस्मात्कारणादयं प्राणोऽपानेनाधोवृत्तिनाऽपरेणान्तराकृष्टः सन्पराङ्बहिर्गतो न भवति । यद्यपानवृत्त्या नाऽऽकृष्येत तर्हि श्वासरूपेण बहिर्निर्गत्य तथैव गच्छेत् । न पुनर्देहे प्रत्यागच्छेत् । अस्यार्थस्यानुभवप्रसिद्धयर्थो हिशब्दः ।

द्वितीयपादं व्याचष्टे—

अमर्त्यो मर्त्येना सयोनिरित्येतेन हीदं सर्वं सयोनि
मर्त्यानि हीमानि शरीराणी ३ँ अमृतेषा देवता, इति ।

एतेन प्राणेन सहेदं सर्वं शरीरजातं समानस्थानकमित्येतत्प्रसिद्धम् । शरीराणि मर्त्यानीत्येतदत्यन्तं प्रसिद्धमिति द्योतयितुं हिशब्दः श्रुतिश्च । प्राणदेवता त्वमृता ।

उत्तरार्धं व्याचष्टे—

ता शश्वन्ता विषूचीना वियन्ता न्य१न्यं


अपाङ्प्राङेति०—ऋ० सं० म० १ सू० १६४ ऋ० ३८ । अमर्त्यो मर्त्येना०—ऋ० सं० म० १ सू० १६४ ऋ० ३८ । ता शश्वन्ता०—ऋ० सं० म० १ सू० १६४ ऋ० ३८ ।


१ क. ग. ॰ष्वगञ्चनौ, विवि॰ । २ क. ख. ग. एतस्य । ३ ख. ग. ॰पारान्तरे॰ । ४ क. ख. ग. ॰सिद्धार्थो । ५ क. ख. ग. ॰सिद्धौ । श॰ ।

११६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-

चिक्युर्न निचिक्युरन्यमिति निचिन्वन्ति हैवे-
मानि शरीराणी३ँ मृतैवैषा देवता, इति ।

शरीराणामन्नादिना वृद्धिरत्यन्तप्रसिद्धा । प्राणदेवता त्वमृतैव न तु जन्मवृद्ध्यादि-
विकारस्तस्या अस्ति ।

अमृतत्वगुणध्यानेफलमाह—

अमृतो ह वा अमुष्मिँल्लोके संभवत्यमृतः सर्वेभ्यो
भूतेभ्यो ददृशे य एवं वेद य एवं वेद, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके प्रथमा-
ध्यायेऽष्टमः खण्डः ॥ ८ ॥

इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके
प्रथमोऽध्यायः ॥ १ ॥

उपासकः स्वर्गलोके हिरण्यगर्भत्वं प्राप्य मरणरहितो भवति । ततः सर्वप्राण्युपका-
रार्थमादित्यमण्डले सर्वैर्दृश्यमानो भवति । अभ्यासोऽध्यायसमाप्त्यर्थः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये द्वितीयारण्यके प्रथमाध्यायेऽष्टमः खण्डः ॥ ८ ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणा-
रण्यकभाष्ये द्वितीयारण्यके प्रथमोऽध्यायः समाप्तः ॥ १ ॥


अथ द्वितीयारण्यके द्वितीयोऽध्यायः ।

तत्र प्रथमः खण्डः । (नवमः )

उक्थे ध्यातव्यस्य प्राणस्य परस्परविलक्षणा बहव उपास्यगुणाः प्रथमेऽध्याये
दर्शिताः । द्वितीये तु प्रथममण्डलद्रष्टृमुनिरूपत्वादयो बहवो गुणा वक्तव्याः ।
तत्रैकं गुणं विधत्ते—

एष इमं लोकमभ्यार्चत्पुरुषरूपेण य एष
तपति प्राणो वाव तदभ्यार्चत्प्राणो ह्येष य
एष तपति तं शतं वर्षाण्यभ्यार्चत्तस्मा-
च्छतं वर्षाणि पुरुषायुषो भवन्ति तं


१ क. ॰नस्य फ॰ ।