याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 739, कुल 782 में से
संदर्भ में पढ़ेंटिप्पणी (नोट्स) ३८३
अमुतास्तु पितुः पत्न्यः समानांशाः प्रकीर्त्तिताः ।
पितामह्यश्च सर्वास्ता मातृतुल्याः प्रकीर्त्तिताः ॥
श्लो० १२६-द्रव्यं समैरंशैः-यह ऋण का भी उपलक्षण है । अत एव
मनु का कथन है :-
ऋणे धने च सर्वस्मिन् प्रविभक्ते यथाविधि ।
पश्चाद् दृश्येत यत् किञ्चित् तत्सर्वं समतां नयेत् ॥
श्लो० १३०-पौनर्भवः-इसका लक्षण कात्यायन ने बतलाया है :-
क्लीबं विहाय पतितं या पुनर्लभते पतिम् ।
तस्यां पौनर्भवो जातो व्यक्तमुत्पादकस्य सः ॥
श्लो० १३१-गर्भे विन्नः सहोढजः-
इसका स्पष्ट लक्षण मनुस्मृति में किया गया है :-
या गर्भिणी संस्क्रियते ज्ञाताऽज्ञाताऽपि वा सती ।
वोढुः स गर्भो भवति सहोढ इति चोच्यते ॥
श्लो० १३२-पुत्र-प्रतिनिधीनां मध्ये दत्तक एव कलियुगे ग्राह्यः । अत
एव कलौ निवर्त्तन्ते इत्यनुवृत्तौ शौनकेनोक्तम्-
दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः । ( अपरार्कः )
श्लो० १३५-पितरौ-यद्यपि विग्रह-वाक्य में ( माता च पिता च =
पितरौ ) मातृ का प्रथम प्रयोग होता है; अतः पत्नी के बाद दुहिता तथा
दुहिता के बाद माता, पिता इत्यादि क्रम प्रतीत होता है और विज्ञानेश्वर ने
यही माना भी है तथापि यहाँ विग्रहगत पौर्वापर्य विवक्षित नहीं है । एवञ्च
पत्नी, दुहिता, पिता, माता इत्यादि क्रम समझना चाहिए । अतएव विष्णु का
वचन है :-
अपुत्रधनं पत्न्यभिगामि, तदभावे दुहितृगामि, तदभावे दौहित्रगामि,
तदभावे पितृगामि, तदभावे मातृगामि, तदभावे भ्रातृगामि, तदभावे भ्रातृपुत्र-
गामि, तदभावे सकुल्यगामि ।
अत एव कात्यायन का भी मत है :-
अपुत्रस्याप्यकुलजा पत्नी दुहितरोऽपि वा ।
तदभावे पिता माता भ्राता पुत्राः प्रकीर्त्तिताः ।
पुत्राः = भ्रातृपुत्राः । किन्तु शूलपाणि ने अपुत्रधनं पत्न्यभिगामि, तद-
भावे दुहितृगामि, तदभावे मातृगामि, तदभावे पितृगामि......ऐसा ही उपर्युक्त
विष्णु-वचन का स्वरूप माना है ।