सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 591, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 591

मुसलमादाय राजानमुपतिष्ठेत् 'इदं मया पापं कृतमनेन मुसलेन मां घातयस्व'
इति स राज्ञा शिष्टः सन्पूतो भवति' इति । हननं चावृत्तिविधानाभावात्सकृदेव
कार्यम् । अत एव मनुनोक्तम् ( ११।१०० ) — 'ततो मुसलमादाय सकृद्ध-
न्यात्तु तं स्वयम्' इति । एवं सकृत्ताडनेन राज्ञा हतो मृतः शुद्धयेत् , मुक्तो
वा मरणाजीवन्नपि विशुद्ध्येदिति यावत् । तथा च संवर्तेनोक्तम्—'ततो मुसल-
मादाय सकृद्धन्यात्तु तं स्वयम् । यदि जीवति स स्तेनस्ततः स्तेयाद्विशुद्ध्यति ॥'
इति ॥ यथोक्तं ब्राह्मणवधे — 'मृतकल्पः प्रहारार्तो जीवन्नपि विशुद्ध्यति' इति ।
नन्वताडित एव राज्ञा मुक्तः स्तेनः शुद्धयेदित्ययमर्थः कस्मान्नोच्यते ? उच्यते,—
'अनघ्नन्नेनस्वी राजा' इति गौतमीये ताडनमकुर्वतो राज्ञो दोषाभिधानात् ।
भवतु राज्ञो दोषस्तथाप्यतिक्रान्तनिषेधेन राज्ञा स्नेहादिना मुक्तः स्तेनः कथं
न शुद्धयेदिति चेत् ,—उच्यते — एवं च सति अकारणिका शुद्धिरापतेत् । अथो-
च्यते—मोक्षोत्तरकालं द्वादशवार्षिकाद्यनुष्ठानेन शुद्धयङ्गीकरणान्नाकारणिकेति,—
तदप्यसुन्दरम् ; मुक्तः 'शुचिः' इति मोक्षस्यैव शुद्धिहेतुत्वाभिधानात् । अतः
प्राच्येव व्याख्या ज्यायसी । मुक्तो वा मरणाजीवन्नपि विशुद्ध्येदिति यावत् ।
इदं च मरणान्तिकं सार्ववर्णिकस्यापहर्तुर्न तु ब्राह्मणस्यैव । ब्राह्मणस्वर्णहारीति
नैमित्तिकवाक्ये विशेषाद्यनुपादानात् क्षत्रियादीनां च महापात कित्वाविशेषात्प्राय-
श्चित्तान्तरस्यानाम्नानाच्च । यत्पुनर्मानवे ( ११।९९ ) — 'सुवर्णस्तेयकृद्विप्रः'
इति 'विप्र'ग्रहणं तन्नरमात्रोपलक्षणम् । 'प्रायश्चित्तीयते नर' इति तस्यैव प्रकृ-
तत्वात् , 'ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः' ( मनुः ११।५४ ) इति
निमित्तवाक्ये विशेषाद्यनुपादानाच्च । तत्सापेक्षनैमित्तिकवाक्ये 'सुवर्णस्तेयकृ-
द्विप्रः' ( ११।९९ ) इत्यत्र श्रूयमाणमप्युपलक्षणमेव युक्तम् । यथा 'अभ्युदिते-
ष्ट्यां यस्य हविः'इति वाक्ये 'तन्दुल'ग्रहणं हविर्मात्रस्य । इदं च राज्ञा हननं
ब्राह्मणव्यतिरिक्तस्य ; 'न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम्' ( ८ ३८० )
इति मानवे ब्राह्मणवधस्य निषिद्धत्वात् । यदि कथंचिदतिक्रान्तनिषेधे राज्ञा
हन्यते तथाऽपि शुद्धो भवति; 'वधेन शुद्ध्यति स्तेनो ब्राह्मणस्तपसैव वा' (मनुः
११।१०० ) इति ब्राह्मणस्यापि वधेन शुद्ध्यभिधानात् । नच 'तपसैव वा'
इत्येवकारेण वधनिषेधः; तस्य केवलतपसाऽपि शुद्ध्यभिधानपरत्वात् । यदि
वधो निषिद्धस्तर्हि 'तपसैव वा' इति विकल्पाभिधानमनुपपन्नम् । नच दण्डा-
भिप्रायं विकल्पाभिधानम् ; तस्यानिर्दिष्टत्वात् । किंच 'एकार्थास्तु विकल्पेरन्'
इति न्यायेनैकार्थानामेव विकल्पो व्रीहियवयोरिव । नच दण्डतपसोरेकार्थत्वम् ;
दण्डस्य दमनार्थत्वात्तपसश्च पापक्षयहेतुत्वात् । नच 'वधेन शुद्ध्यति स्तेन'
इति सामान्याविषयेण वधेन ब्राह्मणस्तपसैव वेति विशिष्टविषयस्य तपसो
विकल्पोपपत्तिः । नहि भवति 'ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्याय च'