याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 590, कुल 782 में से
संदर्भ में पढ़ें५३४ याज्ञवल्क्यस्मृतिः
द्विजातिभार्यायां प्रत्याह—
पतिलोकं न सा याति ब्राह्मणी या सुरां पिबेत् ।
इहैव सा शुनी गृध्री सूकरी चोपजायते ॥ २५६ ॥
या द्विजातिभार्या सुरां पिबति सा कृतपुण्याऽपि सती पतिलोकं न याति
किंत्विहैव लोके श्वगृध्रसूकरलचितां तिर्यग्योनिं क्रमेण प्राप्नोति । 'ब्राह्मणी' ग्रहणं
चात्र 'तिस्रो वर्णानुपूर्व्येण' ( आ० ५७ ) इति न्यायेन यस्य द्विजातेर्यास्त्य्रो
भार्यास्तासामुपलक्षणम् । अत एव मनुः—'पतत्यर्धं शरीरस्य यस्य भार्या सुरां
पिबेत् । पतिताधंशरीरस्य निष्कृतिर्न विधीयते ॥' इति । धर्मार्थकामेषु सहाधि-
काराद्दम्पत्योरेकशरीरत्वमेव, अतो यस्य द्विजातेर्भार्या सुरां पिबति तस्य भार्या-
रूपमर्धं शरीरं पतति । पतितस्य च भार्यारूपस्यार्धशरीरस्य निष्कृतिर्न विधी-
यते । तस्माद् द्विजातिभार्याया ब्राह्मण्याद्यया न सुरा पेया । 'तस्माद् ब्राह्मणराजन्यौ
वैश्यश्च न सुरां पिबेत्' इति निषेधविधौ लिङ्गस्याविवक्षितत्वेन वर्णत्रयभार्याणा-
मपि प्रतिषेधे सिद्धे पुनर्वचनं द्विजातिभार्यायाः शूद्राया अपि सुराप्रतिषेध-
प्राध्यर्थम् । अतो द्विजातिभार्याभिः सुरापाने प्रायश्चित्तस्यार्धं कार्यम् ; शूद्र-
भार्यायास्तु शूद्रायाः शूद्रवदेव न प्रतिषेधः । सुरापानसमेषु तु निषिद्धभक्षणादिषु
सुरापानप्रायश्चित्तार्धमित्युक्तं प्राक् ॥ २५६ ॥
भाषा—जो ब्राह्मणी स्त्री सुरापान करती है वह पतिलोक नहीं प्राप्त करती
है; वह इसी लोक में कुतिया, गिद्धनी और सूकरी होकर जन्म लेती है ॥२५६॥
इति सुरापानप्रायश्चित्तप्रकरणम् ।
क्रमप्राप्तं सुवर्णस्तेयप्रायश्चित्तमाह—
ब्राह्मणस्वर्णहारी तु राज्ञे मुसलमर्पयेत् ।
स्वकर्म ख्यापयंस्तेन हतो मुक्तोऽपि वा शुचिः ॥ २५७ ॥
ब्राह्मणस्वामिकं सुवर्णं योऽपहरत्यसौ सुवर्णस्तेयं मया कृतमित्येवं स्वकर्म
ख्यापयन् राज्ञे मुसलं समर्पयेत् । मुसलसमर्पणस्य दृष्टार्थत्वात्तेन मुसलेन राजा
तं हन्यात् । तेन राज्ञा हतो मुक्तो वा शुद्धो भवति । 'अपहरण'शब्देन च
समक्षं परोक्षं वा बलाच्चौर्येण वा क्रयादिस्वत्वहेतुं विना ग्रहणमुच्यते । 'मुसलं
समर्पयेत्'इति यद्यपि सामान्येनोक्तं तथापि तस्य हननार्थत्वात् तत्समर्थस्या-
योमयादेर्ग्रह्णम् । अत एव मनुनोक्तम् (८।३१५)—स्कन्धेनादाय मुसलं लकुटं
वापि खादिरम् । अंसि चोभयतस्तीक्ष्णमायसं दण्डमेव वा ॥' इति । शङ्खेना-
प्यत्र विशेष उक्तः ( ११।१०० )—'सुवर्णस्तेनः प्रकीर्णकेश आईवासा आयसं
१. शक्ति चोभयतस्तीक्ष्णामा ।