सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 592, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 592

५३६ याज्ञवल्क्यस्मृतिः

इति विकल्पस्तस्माद् द्वयोरपि सामान्यविषयत्वमेव । यद्वा क्षत्रियस्यापि न
निषेधः ; मनुना—‘सुवर्णस्तेयकृद्विप्र' ( ११।९९ ) इत्यभिधाय—‘गृहीत्वा
मुसलं राजा सकृद्धन्यात्तु तं स्वयम् ।' ( ११।१०० ) इति सर्वनाम्ना प्रकृ-
तब्राह्मणपरामर्शेनैव हननविधानात्—‘न जातु ब्राह्मणं हन्यात्' इत्यस्य प्राय-
श्चित्तव्यतिरिक्तदण्डरूपहननविषयत्वेनाप्युपपत्तेः ।—एतच्च मरणान्तिकं मति-
पूर्वसुवर्णस्तेयविषयम् । ‘मरणान्तिकं हि यत्प्रोक्तं प्रायश्चित्तं मनीषिभिः ।
यत्तु कामकृते पापे विज्ञेयं नात्र संशयः ॥' इति मध्यमाङ्गिरःस्मरणात् । अत्र
च ‘सुवर्ण'शब्दः परिमाणविशिष्टहेमद्रव्यवचनो न जातिमात्रवचनः । 'जाल-
सूर्यमरीचिस्थं त्रसरेणु रजः स्मृतम् । तेऽष्टौ लिक्षा तु तास्तिस्रो राजसर्षप
उच्यते ॥ गौरस्तु ते त्रयः षड्भिर्यवो माषस्तु ते त्रयः । कृष्णलः पञ्च ते माषस्ते
सुवर्णस्तु षोडश ॥' इति षोडशमाषपरिमिते हेमनि ‘सुवर्ण'शब्दस्य परिभा-
षितत्वात् । अतो ‘ब्राह्मणसुवर्णापहरणं महापातकम्' इत्यादिप्रयोगेषु कृतपरि-
माणस्यैव सुवर्णस्य ग्रहणं युक्तम् ; परिमाणकरणस्य दृष्टार्थत्वात् । न ह्यदृ-
ष्टार्थंपरिमाणस्मरणम् । नापि लोकव्यवहारार्थम् ; अतत्परत्वात्स्मृतिकार-
प्रवृत्तेः । अत एवोक्तं न्यायविद्भिः—‘कार्यकाले संज्ञापरिभाषयो रुपस्थानम्'
इति । तथा नामानि गुणफलोपबन्धेनार्थवदित्युकतं 'पञ्चदशान्येउक्थ्यानि' इत्यत्र ।
नच दण्डमात्रोपयोगिपरिमाणस्मरणमित्युक्तमिति युक्तम् ; तावन्मात्रार्थत्वे
प्रमाणाभावात् । अतोऽविशेषात्सर्वशेषत्वमेव युक्तम् । किंच, दण्डस्य दमना-
र्थत्वादमनस्य च परिमाणविशेषमन्तरेणापि सिद्धेर्नातीव परिमाणस्मरणमु-
पयुज्यते । शब्दैकसमधिगम्ये तु महापातकितादावेकान्ततः स्मरणमुपयु-
ज्यते । अतः षोडशमाषात्मकसुवर्णपरिमितहेमहरण एव महापातकित्वं तन्नि-
मित्तं मरणान्तिकादिप्रायश्चित्तविधानं च । द्वित्रादिमाषात्मकहेमहरणं तु क्षत्रि-
यादिहेमहरणवदुपपातकमेवेति युक्तम् । किंच, सुवर्णान्न्यूनपरिमाणहेमहरणे
प्रायश्चित्तान्तरोपदेशात्तत्परिमाणस्यैव हेम्नो हरणे मरणान्तिकादिप्रायश्चित्तमिति
युक्तम् । तथा चोक्तं षट्त्रिंशन्मते—'वालाग्रमात्रेऽपहृते प्राणायामं समाचरेत् ।
लिक्षामात्रेऽपि च तथा प्राणायामत्रयं बुधः ॥ राजसर्षपमात्रे तु प्राणायामचतुष्ट-
यम् । गायत्र्यष्टसहस्रं च जपेत्पापविशुद्धये ॥ गौरसर्षपमात्रे च सावित्रीं वै दिनं
जपेत् । यवमात्रे सुवर्णस्य प्रायश्चित्तं दिनद्वयम् ॥ सुवर्णकृष्णलं ह्येकमपहृत्य
द्विजोत्तमः । कुर्यात्सान्तपनं कृच्छ्रं तत्पापस्यापनुत्तये ॥ अपहृत्य सुवर्णस्य माष-
मात्रं १द्विजोत्तमः । गोमूत्रयावकाहारस्त्रिभिर्मासैर्विशुध्यति ॥ सुवर्णस्यापहरणे
वत्सरं यावकी भवेत् । ऊर्ध्वं प्राणान्तिकं ज्ञेयमथवा ब्रह्महव्रतम् ॥' इदं च
वत्सरं यावकान्नं किंचिन्न्यूनसुवर्णापहारविषयम् ; सुवर्णापहारे मन्वादिमहा-

१. द्विजाधमः ।