सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 482, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 482

कृतक्रियः ॥' इति । अयमर्थः—'कृतक्रियः' इति प्रत्येकमभिसंबध्यते । विप्रोऽनु-
भूताशौचकालः कृतक्रियः कृतस्नानो हस्तेनापः स्पृष्ट्वा शुद्ध्यति । स्पृष्ट्वेति
स्पर्शनक्रियैवोच्यते, न स्नानमाचमनं वा; वाहनादिषु तस्यैवानुषङ्गात् । अथवा
कृतक्रियो यावदाशौचं कृतोदकादिक्रियः तदनन्तरं विप्रादिरुदकादि स्पृष्ट्वा
शुद्ध्येत इत्याशौचकालानन्तरभाविस्नानप्रतिनिधित्वेनोच्यत इति । क्षत्रियादि-
र्वाहनादिकं स्पृष्ट्वा शुद्ध्येदिति ॥ २८-२९ ॥
भाषा—ऋत्विज्, दीक्षित (जिसने यज्ञ में दीक्षा प्राप्त की हो), यज्ञ
का काम करने वाले, यज्ञ करने वाले, व्रती, ब्रह्मचारी तथा दाता की दान,
विवाह, यज्ञ, युद्ध देश में व्याप्त उत्पात के उपशमन कर्म में और आपत्ति
(रोग-व्याधि) में (अकल्याण नाश के लिये दान देने में) तत्काल शुद्धि
होती है ॥ २८-२९ ॥
कुलव्यापिनीं शुद्धिमभिधायेदानीं प्रसङ्गात्प्रतिपुरुषव्यापिनीं शुद्धिमाह—
उदक्याशुचिभिः स्नायात्संस्पृष्टस्तैरुपस्पृशेत् ।
अब्जिङ्गानि जपेच्चैव गायत्रीं मनसा सकृत् ॥ ३० ॥
उदक्या रजस्वला, अशुचयः शवचण्डालपतितसूतिकाद्याः शावाशौचिनश्च
एतैः संस्पृष्टः स्नायात् । तैः पुनरुदक्याशुचिसंस्पृष्टादिभिः संस्पृष्ट उपस्पृशेत्
आचामेत् । आचम्याब्जिङ्गानि 'आपोहिष्ठा' (ऋ० ७।६।५) इत्येवमादीनि त्रीणि
मन्त्रवाक्यानि जपेत् । त्रिष्वेव बहुवचनस्य चरितार्थत्वात् । तथा गायत्रीं च
सकृन्मनसा जपेत् । ननु उदक्या संस्पृष्टः स्नायादित्येकवचननिर्दिष्टस्य कथं
तैरिति बहुवचनपरामर्शः ? सत्यमेवम् , किंत्वत्र उदक्यादिसंस्पृष्टव्यतिरिक्तस्नाना-
र्हमात्रस्पर्शेश्चाचमनविधानार्थं 'तैः'इति बहुवचननिर्देश इत्यविरोधः । ते च
स्नानाहः स्मृत्यन्तरेवगन्तव्याः । यथाह पराशरः—'दुःस्वप्ने मैथुने वान्ते
विरिक्ते क्षुरकर्मणि । चितियूपँश्मशानास्थां स्पर्शने स्नानमाचरेत्' इति । तथा
च मनुः (५।१४४)—'वान्तो विरिक्तः स्नात्वा तु घृतप्राशनमाचरेत् । आचा-
मेदेव भुक्त्वाऽन्नं स्नानं मैथुनिनः स्मृतम् ॥' इति । मैथुनिनः स्नानमृतुकाल-
विषयम् ; 'अनृतौ तु यदा गच्छेदच्छौचं मूत्रपुरीषवत्' इति बृहस्पतिस्मरणात् ।
अनृतावपि कालविशेषे स्मृत्यन्तरे स्नानमुक्तम्—'अष्टम्यां च चतुर्दश्यां दिवा
पर्वणि मैथुनम् । कृत्वा सचैलं स्नात्वा च वारुणीभिश्च मार्जयेत् ॥' इति ।
तथा च यमः—अजीर्णेऽभ्युदिते वान्ते तथाप्यस्तमिते रवौ । दुःस्वप्ने दुर्जन-
स्पर्शे स्नानमात्रं विधीयते ॥' इति । तथा च बृहस्पतिः—'मैथुने कटधूमे च


१. शुद्ध्यतीति । इत्या । २. उदक्याशौचिभिः । ३. बहुवचनादरः ।
४. यूपश्मशाना ।