याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 481, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः ४२५
यस्त्वेकाहपर्याप्तसंचितधनस्तस्यैकाहः, यस्त्र्यहोपयोगिसंचयी तस्य त्र्यहः, यस्तु
चतुरहार्थमापादितद्रव्यः कुम्भीधान्यस्तस्य चतुरहः, कुसूलधान्यकस्य दशाह
इत्येवं यस्य यावत्कालमार्त्याभावस्तस्य तावत्कालमाशौचम्; आपदुपाधिकत्वा-
दाशौचसंकोचस्य । अत एव मनुना (४।७) -'कुसूलधान्यको वा स्यात्कुम्भी-
धान्यक एव वा । त्र्यहैहिको वापि भवेदश्वस्तनिक एव वा ॥' इत्यत्र प्रति-
पादितचतुर्विधगृहस्थाभिप्रायेण (५।५९) - 'दशाहं शावमाशौचं सपिण्डेषु
विधीयते । अर्वाक्संचयनादस्थ्नां त्र्यहमेकाहमेव वा ॥' इति कल्पचतुष्टयं प्रति-
पादितम् । समानोदकविषयाश्च संकुचिताशौचकल्पाः पक्षिण्येकाहः सद्यःशौच-
रूपाः स्मृत्यन्तरे दृष्टाः वृत्तिसंकोचोपाधिकतयैव योज्याः । अयं चाशौचसंकोचो
येनैव प्रतिग्रहादिना विनार्तिस्तद्विषयो न सर्वत्रेत्यवगन्तव्यम् ॥ मनुः-
एकाहाद् ब्राह्मणः शुद्धयेद्योऽग्निवेदसमन्वितः । त्र्यहात्केवलवेदस्तु विहीनो दश-
भिर्दिनैः ॥' इत्यादिस्मृत्यन्तरवचनपर्यालोचनादध्ययनज्ञानानुष्ठानयोगिनामेका-
हादिभिः सर्वात्मना शुद्धिरित्येवं कस्मान्नेष्यते ? उच्यते-'दशाहं शावमाशौचं
सपिण्डेषु विधीयते' (मनुः ५।५९) इति सामान्यप्राप्तदशाहबाधपुरःसरमेव हि
'एकाहाद् ब्राह्मणः शुद्धयेत्' इति विधायकं भवति । बाधकस्य चानुपपत्तिनिबन्धन-
त्वात् यावत्यबाधितेऽनुपपत्तिप्रशमो न भवति तावद्बाधनीयम् । अतः कियदनेन
बाध्यमित्यपेक्षायामपेक्षितविशेषसमर्पणक्षमस्य 'अग्निवेदसमन्वित' इति वाक्यवि-
शेषस्य दर्शनादग्निवेदविषयेऽग्निहोत्रादिकर्मणि स्वाध्याये च व्यवतिष्ठते, न पुनर्दा-
नादावपि । एवं चाग्निवेदपदयोः कार्यान्वयित्वं भवति । इतरथा येनाग्निवेद-
साध्यं कर्म कृतं तस्यैकाहाच्छुद्धिरिति पुरुषविशेषोपलक्षणत्वमेव स्यात् । नचैवं
युक्तम् ; एवं च सति-'प्रत्यूह्येष्वग्निषु क्रियाः । वैतानोपासनाः कार्याः क्रियाश्च
१श्रुतिचोदनात्' ॥ (प्रा० १७) इति । तथा ब्राह्मणस्य च स्वाध्यायादिनिवृत्त्यर्थं
सद्यःशौचमित्येवमादिभिर्मन्वादिवचनैरेकवाक्यता भवति । तथा च-'उभयत्र
दशाहानि कुलस्यान्नं न भुज्यते' इति दशाहपर्यन्तं भोजनादिकं प्रतिषेधद्भिर्य-
मादिवचनैरविरोधोऽपि सिद्धयति, अतः २क्वौचित्कमेवेदमाशौचसंकोचविधानं,
न पुनः सर्वसंव्यवहारादिगोचरमित्यलमतिप्रपञ्चेन ॥
इदं च स्वाध्यायविषये सद्यःशौचविधानं बहुवेदस्य ३ब्रह्मोत्सवकृतायामातौ
द्रष्टव्यम् । इतरस्य तु - 'दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते' इति प्रति-
षेध एव । एवं ब्राह्मणादिमध्ये यस्य यावत्कालमाशौचमुक्तं स तस्यानन्तरं
स्नात्वा शुद्धयेत्, न तत्कालातिक्रममात्रात् । यथाह मनुः (५।९९ ) - 'विप्रः
शुद्धयत्यपः स्पृष्ट्वा क्षत्रियो वाहनायुधम् । वैश्यः प्रतोदं रश्मीन्वा यष्टिं शूद्रः
१. श्रुतिचोदिताः । २. क्वचित्कर्मविशेषे इदं । ३. ब्रह्मानध्ययनकृतायां ।