सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 464, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 464

४०८ याज्ञवल्क्यस्मृतिः
यिनः ॥' ( मनुः ५।६४ ) इत्येतैर्वाक्यैस्त्रिरात्रदशरात्रयोः समानोदकसपिण्ड-
विषयत्वेन व्यवस्था कृता । अतः सपिण्डानां सप्तमपुरुषावधिकानामविशेषेण
दशरात्रम् , समानोदकानां त्रिरात्रमिति ॥ यत्पुनः स्मृत्यन्तरवचनम्-‘चतुर्थे
दशरात्रं स्यात्षण्णिशः पुंसि पञ्चमे । षष्ठे चतुरहाच्छुद्धिः सप्तमे त्वहरेव तु ॥’
इति, तद्विगीतत्वाच्चादरणीयम् । यद्यप्यविगीतं तथापि मधुपर्काङ्गपश्वालम्भनव-
ल्लोकविद्विष्टत्वान्नानुष्ठेयम् । 'अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्न तु, (आ० १५६)
इति मनुस्मरणात् । नच सप्तमे प्रत्यासन्ने सपिण्ड एकाहो विप्रकृष्ट्राष्टमादिषु
समानोदकेषु त्र्यहमिति युक्तम् । एवमविशेषेण सपिण्डादामाशौचे प्राप्ते कचि-
द्वियमार्थमाह । ऊनद्विवर्षे संस्थिते उभयोरेव मातापित्रोर्दशरात्रमाशौचं न
सर्वेषां सपिण्डानाम् । तेषां तु वक्ष्यति ‘आ दन्तजन्मनः सद्यः’ ( प्रा० २३ )
इति । तथा च पैङ्ग्यः—‘गर्भस्थे प्रेते मातर्दशाहं, जात उभयोः, कृते नाम्नि
सोदराणां च' इति । अथवा अयमर्थः-ऊनद्विवर्षे संस्थिते उभयोर्मातापि-
त्रोरेव अस्पृश्यत्वलक्षणमाशौचं न सपिण्डानाम् । तथा स्मृत्यन्तरे—‘ऊनद्विवर्षे
प्रेते मातापित्रोरेव नेतरेषाम्' इति अस्पृश्यत्वलक्षणमभिप्रेतम् । इतरस्य पुनः
कर्माण्यनधिकारलक्षणस्य सपिण्डेष्वपि ‘आ दन्तजन्मनः सद्यः’ ( प्रा० २३ )
इत्यादिभिर्विहितत्वात् । अत्र दृष्टान्तः—सूतकं मातुरेव हीति । यथा सूतकं
जनननिमित्तमस्पृश्यत्वलक्षणमाशौचं मातुरेव केवलं तथोनद्विवर्षोपरमे मातापि-
त्रोरेवास्पृश्यत्वमिति । ऊनद्विवर्षे सपिण्डानामस्पृश्यत्वं प्रतिषेधताऽन्यत्रास्पृश्य-
त्वमभ्यनुज्ञातं भवति । तथा च देवलः—‘स्वाशौचकालाद्द्विज्ञेयं स्पर्शनं च
त्रिभागतः । शूद्रविट्क्षत्रविप्राणां यथाशास्त्रं प्रचोदितम् ॥' इति । एतच्चानुपनीत-
प्रयाणनिमित्ते अतिक्रान्ताशौचे च त्रिरात्रादौ वेदितव्यम् । उपनीतविषयेऽपि
तेनैवोक्तम्—‘दशाहादित्रिभागेन कृते संचयने क्रमात् । अङ्गस्पर्शनमिच्छन्ति
वर्णानां तत्त्वदर्शिनः ॥ त्रिचतुःपञ्चदशभिः स्पृश्या वर्णाः क्रमेण तु । भोज्यान्नो
दशभिर्विप्रः शेषा द्वित्रिपञ्चोत्तरैः ॥’ इति । द्वयुत्तरैर्दशभिः त्र्युत्तरैर्द्वादशभिः पञ्च-
त्तरैः पञ्चदशभिरिति द्रष्टव्यम् ॥ १८ ॥
भाषा-शव सम्बन्धी (मृत्यु के कारण) आशौच तीन दिन या दस दिन
का होता है दो वर्ष से कम आयु के बालक का आशौच माता-पिता को होता
है और सूतक ( जन्म के समय का आशौच ) केवल माता को ही
होता है ॥ १८ ॥

जनननिमित्तमस्पृश्यत्वलक्षणमाशौचमाह-
पित्रोस्तु सूतकं मातुस्तदङ्गदर्शनाद् ध्रुवम् ।
तदहर्न प्रदूष्येत पूर्वेषां जन्मकारणात् ॥ १९ ॥