सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 463, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 463

अपक्वं तण्डुलादि, 'स्वयंग्रह' इति स्वयमेव स्वाम्यनुज्ञातो गृह्णीयादित्यर्थः ।
एकापक्वाभ्यनुज्ञानमसत्सत्रप्रवृत्तविषयम् ; 'असत्सत्रप्रवृत्तानामाममन्नमगहितम् ।
भुक्त्वा पक्वान्नमेतेषां त्रिरात्रं तु पयः पिबेत् ॥' इत्यङ्गिरःस्मरणात् । अत्र
'पक्व' शब्दो भक्ष्यव्यतिरिक्तौदनादिविषयः ॥ शवसंसर्गनिमित्ताशौचे त्वङ्गिरा
विशेष उक्तः- 'आशौचं यस्य संसर्गादापतेद्गृहमेधिनः । क्रियास्तस्य न लुप्यन्ते
गृहाणां च न तद्भवेत् ॥' इति, -तदाशौचं केवलं गृहमेधिन एव; न पुनस्तद्गृहे
भवानां भार्यादीनां तद्द्रव्याणां च भवेदित्यर्थः । अतिक्रान्ताशौचेऽप्ययमेवार्थः
स्मृत्यन्तरे दर्शितः-'अतिक्रान्ते दशाहे तु पश्चाज्जानाति चेद्गृही । त्रिरात्रं
सूतकं तस्य न तद्द्रव्यस्य कर्हिचित् ॥' ( मनुः ५।७६ ) इति ॥ १७ ॥
भाषा-एक दिन मिट्टी के ( दो ) पात्रों में पृथक्-पृथक् जल और दूध
आकाश में ( शिक्या-सिकहर-पर ) रखना चाहिए । श्रुति के आदेश से
अग्निहोत्र आदि वैतानिक और एवं गृह्याग्नि से किये जाने वाला उपासन
कर्म एवं सायं-प्रातः होम क्रिया करनी चाहिए ॥ १७ ॥
एवमाशौचिनो विधिप्रतिषेधरूपान्धर्मानभिधायाधुना आशौचनिमित्तं
कालनियमं चाह-
त्रिरात्रं दशरात्रं वा शावमाशौचमिष्यते ।
ऊनद्विवर्ष उभयोः सूतकं मातुरेव हि ॥ १८ ॥
शवनिमित्तं शावम् । 'सूतक'शब्देन च जननवाचिना तन्निमित्तमाशौचं
लक्ष्यते । एवं च वदता जननमरणयोराशौचनिमित्तत्वमुक्तं भवति । तच्च जनन-
मरणमुत्पन्नज्ञातमेव निमित्तम् । 'निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च'
( मनुः ५।७७ ) इत्यादि लिङ्गदर्शनात् । तथा ( मनुः ५।७५ ) -'विगतं तु विदे-
शस्थं शृणुयाद्यो ह्यनिर्दशम् । यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥' इत्यादि-
वाक्यान्यसामर्थ्याच्च । उत्पत्तिमात्रापेक्षत्वे ह्याशौचस्य दशाहाद्याशौचकालनिय-
मास्तत्तत्प्रभृतिका एवेति अनिर्दशज्ञातिमरणश्रवणे दशरात्रशेषमेवा शौचमर्थात्सि-
द्धयतीति 'यच्छेषं दशरात्रस्य' इत्यनारम्भणीयं स्यात् । तस्माज्ज्ञातमेव जननं
मरणं च निमित्तम् । तच्चोभयनिमित्तमप्याशौचं त्रिरात्रं दशरात्रं चेष्यते
मन्वादिभिः ॥ अत्राशौचप्रकरणे अहर्ग्रहणं रात्रिग्रहणं चाहोरात्रोपलक्षणार्थम् ।
मन्वादिभिः 'इष्यते' इति वचनं तदुक्तसपिण्डसमानोदकरूपविषयभेदप्रदर्शनार्थम् ॥
तथा हि ( मनुः ५।५९ ) -'दशाहं शावमाशौचं सपिण्डेषु विधीयते ।', 'जनने-
ऽप्येवमेव स्यान्निपुणां शुद्धिमच्छताम् ॥' ( मनुः ५।६१ ) 'जन्मन्येकोदकानां तु
त्रिरात्राच्छुद्धिरिष्यते' । ( मनुः ५।७१ ) 'शवस्पृशो विशुद्ध्यन्ति त्र्यहात्तूदकदा-
१. अनुज्ञातमन्न ।