याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 465, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः ४०६
सूतकं जनननिमित्तमस्पृश्यत्वलक्षणमाशौचं पित्रोर्मातापित्रोरेव, न सर्वेषां
सपिण्डानाम् । तच्चास्पृश्यत्वं मातृध्रुवं दशाहपर्यन्तं स्थिरमित्यर्थः । कुतः ?
तदसृग्दर्शनात् तस्याः संबन्धिस्वेनासृजो दर्शनात् । अत एव वसिष्ठः (४।२३)
—'नाशौचं विद्यते पुंसः संसर्ग चेन्न गच्छति । रजस्तत्राशुचि ज्ञेयं तच्च पुंसि
न विद्यते ॥' इति । पितुस्तु ध्रुवं न भवति स्नानमात्रेणास्पृश्यत्वं निवर्तते,
यथाऽऽह संवर्तः—'जाते पुत्रे पितुः स्नानं सचैलं तु विधीयते । माता शुद्ध्येद्द-
शाहेन स्नानात्तु स्पर्शनं पितुः ॥' इति । 'माता शुद्ध्येद्दशाहेन' इत्येतच्च संव्य-
वहारयोग्यतामात्रम् । अदृष्टार्थेषु पुनः कर्मसु पैठीनसिना विशेष उक्तः—'सूतिकां
पुत्रवतीं विंशतिरात्रेण कर्माणि कारयेत् । मासेन स्त्रीजननीम्' इति । अङ्गिरसा
च सपिण्डानाम् अस्पृश्यत्वाभावः स्पष्टीकृतः—'सूतके सूतिकावर्ज्य संस्पर्शो न
निषिध्यते । संस्पर्शे सूतिकायास्तु स्नानमेव विधीयते ॥' इति । यस्मिन्द्दिवसे
कुमारजननं तदहर्न प्रदुष्येत् । तन्निमित्तदानाद्यधिकारापहारकृन्न भवतीत्यर्थः ।
यस्मात्तस्मिन्नहनि पूर्वेषां पित्रादीनां पुत्ररूपेण जन्म उत्पत्तिस्तस्मात्तदहर्न प्रदु-
ष्येत् । तथा च वृद्धयाज्ञवल्क्येनोक्तम्—'कुमारजन्मदिवसे विप्रैः कार्यः प्रति-
ग्रहः । हिरण्यभूगवाश्वाजवासःशय्यासनादिषु ॥ तत्र सर्वं प्रतिग्राह्यं कृतान्नं नतु
भक्षयेत् । भक्षयित्वा तु तन्मोहाद् द्विजश्चान्द्रायणं चरेत् ॥' इति ॥ व्यासेनाप्यत्र
विशेष उक्तः—'सूतिकावासनिलया जन्मदा नाम देवताः । तासां यागनिमित्तं
तु शुचिर्जन्मनि कीर्तिता ॥ प्रथमे दिवसे षष्ठे दशमे चैव सर्वदा । त्रिष्वेतेषु न
कुर्वीत सूतकं पुत्रजन्मनि ॥' मार्कण्डेयेनाप्युक्तम्—'रक्षणीया तथा षष्ठी निशा
तत्र विशेषतः । रात्रौ जागरणं कार्य जन्मदानां तथा बलिः ॥ पुरुषाः शस्त्रहस्ताश्च
नृत्यगीतैश्च योषितः । रात्रौ जागरणं कुर्युर्दशम्यां चैव सूतके ॥' इति ॥ १९ ॥
भाषा—जन्म का सूतक (अस्पृश्यत्व) माता-पिता को ही होता
है (सभी सपिण्डों को नहीं), उसमें भी माता का रुधिर दिखाई पड़ने से
उसे निश्चित रूप से (दस दिन तक) सूतक होता है। जिस दिन बालक
का जन्म होता है वह दिन दान आदि के लिए अशुद्ध नहीं होता, क्योंकि
पूर्वपुरुष (पितर) ही पुत्र के रूप में जन्म लेते हैं ॥ १९ ॥
आशौचमध्ये पुनर्जन्मने मरणे वा जाते 'प्रतिनिमित्तं नैमित्तिकमावर्तते' इति
न्यायेन पुनर्द्दशाहाद्याशौचप्राप्तौ तदपवादमाह—
अन्तरा जन्ममरणे शेषाद्होभिर्विशुद्धयति ।
वर्णापेक्षया वयोवस्थापेक्षया वा यस्य यावानाशौचकालस्तदन्तरा तत्समस्य
ततो न्यूनस्य वाऽऽशौचस्य निमित्तभूते जनने मरणे वा जाते पूर्वां शौचा-
वशिष्टैरेवाह्नोभिर्विशुद्धयति । न पुनः पश्चादुत्पन्नजननादिनिमित्तं पृथ-