याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 360, कुल 782 में से
संदर्भ में पढ़ें३०४ याज्ञवल्क्यस्मृतिः
पौत्राणामपि १पितामहऋणापाकरणेऽधिकारात् । पौत्राणामप्यभावे पूर्वोक्ता भर्त्रा-
दयो बान्धवा धनहारिणः ॥ १४५ ॥
भाषा—ब्राह्म, दैव, आर्ष और प्राजापत्य विवाह हो तो स्त्री के निःसन्तान
मरने पर उसका धन पति को मिलता है । शेष विवाहों में वह धन स्त्री के
पिता का हो जाता है । किन्तु इन सभी विवाहों में यदि उस स्त्री के पुत्रियाँ
हों तो उसका धन उन पुत्रियों को ही मिलता है ॥ १४५ ॥
स्त्रीधनप्रसङ्गेन वाग्दत्ताविषयं किंचिदाह—
दत्त्वा कन्यां हरन्दण्ड्यो व्ययं दद्याच्च सोदयम् ।
कन्यां वाचा दत्त्वाऽपहरन् द्रव्यानुबन्धाद्यनुसारेण राज्ञा दण्डनीयः ।
एतच्चापहरणकारणाभावे; सति तु कारणे ‘दत्तामपि हरेत्पूर्वाच्छ्रेयांश्रेद्वर आव-
जेत्’ ( आ० ६५ ) इत्यपहारस्याभ्यनुज्ञानान्न दण्ड्यः । यच्च वाग्दाननिमित्तं
वरेण स्वसंबन्धिनां कन्यासंबंधिनां चोपचारार्थं धनं व्ययीकृतं, तत्सर्वं सोदयं
सवृद्धिकं कन्यादाता वराय दद्यात् ॥—
अथ कथंचिद्वाग्दत्ता संस्कारात्प्राङ् म्रियेत३, तदा किं कर्तव्यमित्यत आह—
मृतायां ४दत्तमादद्यात् परिशोध्योभयव्ययम् ॥ १४६ ॥
यदि वाग्दत्ता मृता तदा यत्पूर्वमङ्गुलीयकादि शुल्कं५ वरेण दत्तं, तद्वर आद-
दीत परिशोध्योभयव्ययम् । उभयोरात्मनः कन्यादातुश्च यो व्ययः, तं परि-
शोध्य विर्णमय्यावशिष्टमाददीत । यत्तु कन्यायै मातामहादिभिर्दत्तं शिरोभूषणा-
दिकं वा क्रमायातं७, तत्सहोदरा भ्रातरो गृह्णीयुः; ‘रिक्थं मृतायाः कन्याया
गृह्णीयुः सोदरास्तदभावे मातुरस्तदभावे पितुः’ इति बौधायनस्मरणात् ॥ १४६ ॥
भाषा—कन्या का वाग्दान करके पुनः उसका हरण करने ( दान न
करने ) वाले को उसके लिये व्यय किया गया धन वृद्धि सहित दण्ड लेकर
वर को दिलावे । वाग्दत्ता कन्या के मरने पर दोनों ( पिता और वर ) के
व्यय का शोध करके जो शेष बचे वह वर को देवे ॥ १४६ ॥
मृतप्रजास्त्रीधनं भर्तृगामीत्युक्तम् , इदानीं जीवन्त्याः सप्रजाया अपि स्त्रिया
धनग्रहणे क्वचिद्भर्तुरभ्यनुज्ञामाह—
दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके ।
गृहीतं स्त्रीधनं भर्ता न स्त्रियै दातुमर्हति ॥ १४७ ॥
१. पितामहऋणापाकरणाधिकारात् । २. दद्यात्सोदयम् । ३. म्रियते
तदा । ४. सर्वमादद्यात् । ५. शुल्कं वा वरेण । ६. विगणय्य ।
७. क्रमागतं । ८. भर्त्रा, भर्त्रा न स्त्रियो ।