सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 359, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 359

व्यवहाराध्यायः ३०३
तदप्रजस्त्रीधनं पितृगामि । माता च पिता च पितरौ तौ गच्छतीति पितृ-
गामि । एकशेषनिर्दिष्टाया अपि मातुः प्रथमं धनग्रहणं पूर्वमेवोक्तम् । तदभावे
तत्प्रत्यासन्नानां धनग्रहणम् । सर्वेष्वेव विवाहेषु प्रसूतापत्यवती चेद् दुहितॄणां
तद्धनं भवति । अत्र ‘दुहितृ’शब्देन दुहितृदुहितर उच्यन्ते । साक्षाद् दुहितॄणां
‘मातुर्दुहितरः शेषम्’ ( व्य० ११७ ) इत्यत्रोक्तत्वात् । अतश्च मातृधनं मातरि
वृत्तायां प्रथमं दुहितरो गृह्णन्ति; तत्र चोढाऽनूढासमवायेऽनूढैव गृह्णाति; तदभावे
च परिणीता; तत्रापि प्रतिष्ठिताऽप्रतिष्ठितसमवायेऽप्रतिष्ठिता गृह्णाति, तदभावे
प्रतिष्ठिता; यथाह गौतमः (२९।६)—'स्त्रीधनं दुहितॄणामप्रत्तानामप्रतिष्ठितानां
च' इति । तत्र 'च'शब्दात्प्रतिष्ठितानां च । अप्रतिष्ठिता अनपत्या निर्धना वा ।
एतच्च शुल्कव्यतिरकेण । शुल्कं तु सोदर्याणामेव; ‘भगिनीशुल्कं सोदर्याणामूर्ध्वं
मातुः’ (२९।६) इति गौतमवचनात् । सर्वासां दुहितॄणामभावे दुहितृदुहितरो
गृह्णन्ति; ‘दुहितॄणां प्रसूता चेत्’ इत्यस्माद्वचनात् । तासां भिन्नमातृकाणां विष-
माणां समवाये मातृद्वारेण भागकल्पना; ‘प्रतिमातृ वा स्वैवर्गेण भागविशेषः’
(२९।५) इति गौतमस्मरणात् ॥ दुहितृदौहित्रीणां समवाये दौहित्रीणां किंचि-
देव दातव्यम्; यथाह मनुः ( ९।१९३ )—'यास्तासां स्युर्दुहितरस्तासामपि
यथार्हतः । मातामह्या धनात्किंचित्प्रदेयं प्रीतिपूर्वकम् ॥' इति ॥ दौहित्रीणाम-
प्यभावे दौहित्रा धनहारिणः; यथाह नारदः—( १३।२ ) ‘मातुर्दुहितरोऽभावे
दुहितॄणां तदन्वयः’ इति । तच्छब्देन संनिहितदुहितृपरामर्शात् ॥ दौहित्राणाम-
भावे पुत्रा गृह्णन्ति । ‘ताभ्य ऋतेऽन्वय’ ( व्य० ११७ ) इत्युक्तत्वात् । मनुरपि
दुहितॄणां पुत्राणां च मातृधनसंबन्धं दर्शयति ( ९।१९२ )—'जनन्यां संस्थि-
तायां तु सर्वे सहोदराः । समं भजेरन्मातृकं रिक्थं भगिन्यश्च सनाभयः ॥' इति ।
मातृकं रिक्थं सर्वे सहोदराः समं भजेरन्, सनाभयो भगिन्यश्च समं भजेरन्निति
संबन्धः; न पुनः सहोदरा भगिन्यश्च संभूय भजेरन्निति इतरेतरयोगस्य द्वन्द्वैक-
शेषाभावादप्रतीतेः । विभागकर्तृत्वान्वयेनापि 'च'शब्दोपपत्तेः; यथा देवदत्तः कृषिं
कुर्याद्यज्ञदत्तश्चेति । 'सम'ग्रहणमुद्धारविभागनिवृत्त्यर्थम् । 'सोदर'ग्रहणं भिन्नोदर-
निवृत्त्यर्थम् । अनपत्यहीनजातिस्त्रीधनं तु भिन्नोदराप्युत्तमजातीयसपत्नीदुहिता
गृह्णाति, तदभावे तदपत्यम्; यथाऽऽह मनुः ( ९।१९८ )—'स्त्रियास्तु यद्भवे-
द्वित्तं पित्रा दत्तं कथंचन । ब्राह्मणी तद्धरेत्कन्या तदपत्यस्य वा भवेत् ॥' इति ।
‘ब्राह्मणी’ग्रहणमुत्तमजात्युपलक्षणम् । अतश्चानपत्यवैश्याधनं क्षत्रियाकन्या
गृह्णाति । पुत्राणामभावे पौत्राः पितामहीधनहारिणः । 'रिक्थभाज ऋणं प्रति-
कुर्युः' ( २९।७ ) इति गौतमस्मरणात्, ‘पुत्रपौत्रैर्ऋणं देयम्’ (व्य० ५०) इति
१. स्ववर्गे भाग, स्वस्ववर्गेण । २. कर्तृत्वेनान्वयेनापि ।