याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
DevanagariSanskritpublished782 पृष्ठ
पृष्ठ 354, कुल 782 में से
संदर्भ में पढ़ेंपृष्ठ 354२१८ याज्ञवल्क्यस्मृतिः
२१८ याज्ञवल्क्यस्मृतिः
भेदांश्च गृह्णीयात्पादुके तथा ॥ इत्यादिवचनाद्वस्त्रपुस्तक संबन्धोऽस्त्येव; नैष्ठि-
कस्यापि शरीरयात्रार्थं वस्त्रादिसंबन्धोऽस्त्येवेति तद्विभागकथनं युक्तमेव ॥ १३७॥
भाषा—वानप्रस्थ, यति और ब्रह्मचारी की सम्पत्ति का अधिकारी
क्रमशः धर्मभ्राता और एकतीर्थी (उसी आश्रम में निवास करने वाला धर्म-
भ्राता), सच्छिष्य (अध्यात्मशास्त्र में निपुण शिष्य) और आचार्य होते हैं ॥१३७॥
इदानीं स्वर्गयातस्य पुत्रस्य पत्न्यादयो धनभाज इत्युक्तस्यापवादमाह—
संसृष्टिनस्तु संसृष्टी—
विभक्तं धनं पुनर्मिश्रीकृतं संसृष्टं तदस्यास्तीति संसृष्टी; संसृष्टत्वं च न येन
केनापि, किंतु पित्रा भ्रात्रा पितृव्येण वा; यथाऽऽह बृहस्पतिः (२५।७२)—
'विभक्तो यः पुनः पित्रा भ्रात्रा वैकत्र संस्थितः । पितृव्येणाथवा प्रीत्या स तत्सं-
सृष्ट उच्यते ॥' इति । तस्य संसृष्टिनो मृतस्यांशं विभागं विभागकाले अवि-
ज्ञातगर्भायां भार्यायां पश्चादुत्पन्नस्य पुत्रस्य संसृष्टी दद्यात् । पुत्राभावे संसृष्टये-
वापराहरेद् गृह्णीयात् , न पत्न्यादिः ॥
'संसृष्टिनस्तु संसृष्टी' इत्यस्यापवादमाह—
—सोदरस्य तुं सोदरः ।
दद्यादपहरेच्चांशं जातस्य च मृतस्य च ॥ १३८ ॥
संसृष्टिनः संसृष्टीत्यनुवर्तते । अतश्च सोदरस्य संसृष्टिनो मृतस्यांशं सोदरः
संसृष्टी अनुजातस्य सुतस्य दद्यात् ; तदभावे अपहरेदिति^३ पूर्ववत् संबन्धः । एवं
च सोदरासोदरसंसर्गे सोदरसंसृष्टिनो धनं सोदर एव संसृष्टी गृह्णाति न भिन्नोदरः
संसृष्टद्यपीति पूर्वोक्तस्यापवादः ॥ १३८ ॥
भाषा—विभाजन के बाद पुनः एक साथ धन मिलाकर रहने वाले
संसृष्टी कहलाते हैं संसृष्टी का धन संसृष्टी लेता है; सोदर (सगे) भाई
का धन उसके मरने पर सोदर भाई को ही मिलता है । सोदर संसृष्टी की
मृत्यु के उपरांत उसका पुत्र जन्म ले तो उसे उसका अंश दे, यदि कोई
पुत्र न हो तो उस धन को ले लेवे ॥ १३८ ॥
इदानीं संसृष्टिन्यपुत्रे स्वर्ग्याते संसृष्टिनो भिन्नोदरस्य सोदरस्य चासंसृष्टिनः
सद्भावे, कस्य धनग्रहणमिति विवक्षायां द्वयोर्विभज्य ग्रहणे कारणमाह—
अन्योदर्यस्तु संसृष्टी नान्योदर्यो धनं हरेत् ।
असंसृष्ट्यपि चाऽऽदद्यात्संसृष्टो नान्यमातृजः ॥ १३९ ॥
१. च सोदरः । २. संसृष्टिनो धनं...संसृष्ट्यनुजातस्य । ३. दिति
संबन्धः । ४. भिन्नोदरस्यासंसृष्टिनः सोदरस्य च । ५. वा दद्यात् ।
चाऽऽद्यात् । ६. नान्यमातृकः ।