याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 355, कुल 782 में से
संदर्भ में पढ़ेंअन्योदर्यः सापत्नो भ्राता संसृष्टी धनं हरेत् , न पुनरन्योदर्यो धनं हरेद-
संसृष्टी । अनेनान्वयव्यतिरेकाभ्यामन्योदर्यस्य संसृष्टित्वं धनग्रहणे कारणमुक्तं
भवति । असंसृष्टीत्येतदुत्तरेणापि संबध्यते । अतश्चासंसृष्ट्यपि संसृष्टिनो धन-
माददीत । कोऽसावित्यत आह—संसृष्ट इति । संसृष्टः एकोदरसंसृष्टः । सोदर
इति यावत् । अनेनासंसृष्टस्यापि सोदरस्य धनग्रहणे सोदरत्वं कारणमुक्तं,
'संसृष्ट' इत्युत्तरेणापि संबध्यते । तत्र च संसृष्टः संसृष्टीत्यर्थः । नान्य-
मातृजः । अत्र 'एव' शब्दाध्याहारेण व्याख्यानं कार्यम् , संसृष्टयप्यन्यमा-
तृज एव संसृष्टिनो धनं नाददीतेति एवं चासंसृष्टयपि वाऽऽदद्यादित्यपिशब्द-
श्रवणात् 'संसृष्टो नान्यमातृज एव' इत्यवधारणनिषेधोऽत्रासंसृष्टसोदरस्य
संसृष्टिभिन्नोदरस्य च विभज्य ग्रहणं कर्तव्यमित्युक्तं भवति । द्वयोरपि धनग्रहण-
कारणस्यैकैकस्य सद्भावात् । एतदेव स्पष्टीकृतं मनुना ( ९।२१० )—'विभक्ताः
सह जीवन्तो विभजेरन्पुनर्यदि' इति संसृष्टिविभागं प्रक्रम्य 'येषां ज्येष्ठः कनिष्ठो
वा हीयेतांशप्रदानतः । म्रियेतान्यतरो वाऽपि तस्य भागो न लुप्यते ॥
सोदर्या विभजेयुस्तं समेत्य सहिताः समम् । भ्रातरो ये च संसृष्टा भगिन्यश्च
सनाभयः ॥ (९।२११।२१२) इति वदता । येषां भ्रातॄणां संसृष्टिनां मध्ये ज्येष्ठः
कनिष्ठो मध्यमो वांशप्रदानतोंऽशप्रदाने । सार्वविभक्तिकस्तसिः । विभागकाल
इति यावत् । हीयेत स्वांशात् भ्रश्येत आश्रमान्तरपरिग्रहेण ब्रह्महत्यादिना
वा म्रियेत वा तस्य भागो न लुप्यते । अतः पृथगुद्धरणीयो न संसृष्टिन एव
गृह्णीयुुरित्यर्थः । तस्योद्धृतस्य विनियोगमाह—सोदर्या विभजेयुस्तमिति ।
तमुद्धृतं भागं सोदर्याः सहोदरा असंसृष्टा अपि समेत्य देशान्तरगता अपि
समागम्य सहिताः संभूय समं न न्यूनाधिकभावेन; ये च भ्रातरो भिन्नोदराः
संसृष्टाः, ते च सनाभयो भगिन्यँश्च समं विभजेयुः । समं विभज्य गृह्णीयुुरिति
तस्यार्थः ॥ १३९ ॥
भाषा—यदि सौतेला भाई संसृष्टी हो तो धन ले यदि सौतेला भाई
संसृष्टी न हो तो वह धन न लेवे । किन्तु एक ही माता से उत्पन्न सगा भाई
असंसृष्ट भी हो तो धन पाता है । यदि सौतेला भाई संसृष्ट रहता हो तो
वह अकेले सब धन न ले, (मृत व्यक्ति के) सगे भाइयों में भी उसका विभाग
करे ॥ १३९ ॥
१. मुक्तं । असंसृष्टी । २. निषेधादसंसृष्ट । ३. संसृष्टिनो भिन्नो-
दरस्य च । ४. संसृष्टाः सहजीवन्त । ५. सममन्यूनाधिक । ६. भगिन्यश्च
विभजेयुः ।