याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 271, कुल 782 में से
संदर्भ में पढ़ेंदर्शयेत् । निबन्धं दापयेत्तं तु प्रेते चैष विधिः स्मृतः ॥' इति कात्यायनवच-
नात् । लग्नके विशेषनिषेधश्च तेनैवोक्तः—‘न स्वामी न च वै शत्रुः स्वामिना-
ऽधिकृतस्तथा । निरुद्धो दण्डितश्चैव संदिग्धश्चैव न क्वचित् ॥ नैव रिक्थी न
मित्रं च न चैवात्यन्तवासिनः । राजकार्यनियुक्ताश्च ये च प्रव्रजिता नराः ॥ न
शक्तो धनिने दातुं दण्डं राज्ञे च तत्समम् । जीवन्वापि पिता यस्य तथैवेच्छा-
प्रवर्तकः ॥ नौविज्ञाय ग्रहीतव्यः प्रतिभूः स्वक्रियां प्रति ॥' इति । संदिग्धो-
ऽभिशस्तः । अत्यन्तवासिनो नैष्ठिकब्रह्मचारिणः ॥ इति प्रतिभूविधिः ॥
धनप्रयोगे द्वौ विश्वासहेतू—प्रतिभूरधिश्च । यथाह नारदः (१।११९)—
'विस्रम्भहेतू द्वावत्र प्रतिभूराधिरेव च' इति । तत्र प्रतिभूर्निरूपितः, इदानीमा-
धिर्निरूप्यते । आधिर्नाम गृहीतस्य द्रव्यस्योपरि विश्वासार्थमधमर्णेनोत्तमर्णोऽधि-
क्रियते, आधीयत इत्याधिः । स च द्विविधः-कृतकालोऽकृतकालश्च । पुनश्चैकैकशो
द्विविधः-गोप्यो भोग्यश्च । यथाह नारदः (१।१२४-२५)—‘अधिक्रियत इत्याधिः
स विज्ञेयो द्विलक्षणः । कृतकालोऽपनेयश्च यावद्देयोद्यतस्तथा ॥ स पुनर्द्विविधः प्रोक्तो
गोप्यो भोग्यस्तथैव च ॥'इति । कृते काले आधानकाल एवामुष्मिन्काले दीपोत्स-
वादौ ‘मयायम॑धमर्णिको मोक्तव्योऽन्यथा तवैवाधिर्भविष्यती’त्येवं निश्चिते काले
उपनेय आत्मसमीपं नेतव्यः, मोचनीय इत्यर्थः । देयं दानम् । देयमनतिक्रम्य
यावद् देयम् । उद्यतःनियतः, स्थापित इत्यर्थः। यावद् देयमुद्यतो यावद्देयोद्यतः,
गृहीतधनप्रत्यर्पणावधिरनिरूपितकाल इत्यर्थः । गोप्यो रक्षणीयः ॥ ५७ ॥
भाषा-यदि प्रतिभू से स्त्री और पशु दिलाया गया हो तो संतति सहित
स्त्री और पशु दे । धान्य का तिगुना, वस्त्र हो तो चौगुना और तेल-घृत आदि
रस हो तो उसका आठगुना प्रतिभू को शीघ्र देवे ॥ ५७ ॥
एवं चतुर्विधस्याधेर्विशेषमाह-
आधिः प्रणश्येद् द्विगुणे धने यदि न मोक्ष्यते ।
काले कालकृतो नश्येत्फलभोग्यो न नश्यति ॥ ५८ ॥
प्रयुक्ते धने स्वकृतया वृद्धया कालक्रमेण द्विगुणीभूते यद्याधिरधमर्णेन
द्रव्यदानेन न मोक्ष्यते तदा नश्यति । अधमर्णस्य धनं प्रयोक्तुः स्वं भवति ।
कालकृतः कृतकालः, आहिताग्न्यादिषु पाठात् कालशब्दस्य पूर्वनिपातः। स तु
काले निरूपिते प्राप्ते नश्येत् द्वैगुण्यात्प्रागूर्ध्वं वा। फलभोग्यः फलं भोग्यं यस्यासौ
फलभोग्यः,-क्षेत्रारामादिः, स कदाचिदपि न नश्यति । कृतकालस्य गोप्यस्य
१. दापयेत्तत्तु प्रेते चैव । २. प्रयुक्तास्तु । ३. नाविज्ञातो ।
४. माधिर्र्मो । ५. निरूपिते ।