विष्णुसहस्रनाम स्तोत्र (महाभारत अनुशासन पर्व - जगद्गुरु आदि शंकराचार्य भाष्य सानुवाद सटीक)
Vishnu Sahasranama with Shankara Bhashya
महर्षि वेदव्यास / जगद्गुरु आदि शंकराचार्य द्वारा
पृष्ठ 183, कुल 194 में से
संदर्भ में पढ़ें२ श्रीविष्णुसहस्रनामस्तोत्रम्
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायं स्तुवन्नमस्यंश्च यजमानस्तमेव च ॥ ५ ॥
अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥ ६ ॥
ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥ ७ ॥
एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।
यद्भक्त्या पुंडरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ ८ ॥
परमं यो महत्तेजः परमं यो महत्तपः ।
परमं यो महद्ब्रह्म परमं यः परायणम् ॥ ९ ॥
पवित्राणां पवित्रं यो मंगलानां च मंगलम् ।
दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ १० ॥
यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ ११ ॥
तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नामसहस्रं मे शृणु पापभयापहम् ॥ १२ ॥
यानि नामानि गौणानि विख्यातानि महात्मनः ।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ १३ ॥
अस्य श्रीविष्णुदिव्यसहस्रनामस्तोत्रमालामंत्रस्य
भगवान् वेदव्यास ऋषिः ।
अनुष्टुप् छंदः ।
श्रीविष्णुः परमात्मा देवता ।
अमृतांशूद्भवो भानुरिति बीजम् ।
देवकीनंदनः स्रष्टेति शक्तिः ।
त्रिसामा सामगः सामेति हृदयम् ।