सामग्री पर जाएँ
सर्वकोश
विष्णुसहस्रनाम स्तोत्र (महाभारत अनुशासन पर्व - जगद्गुरु आदि शंकराचार्य भाष्य सानुवाद सटीक)

विष्णुसहस्रनाम स्तोत्र (महाभारत अनुशासन पर्व - जगद्गुरु आदि शंकराचार्य भाष्य सानुवाद सटीक)

Vishnu Sahasranama with Shankara Bhashya

महर्षि वेदव्यास / जगद्गुरु आदि शंकराचार्य द्वारा

DevanagariHindipublished194 पृष्ठ

पृष्ठ 182, कुल 194 में से

संदर्भ में पढ़ें
पृष्ठ 182

श्रीगणेशाय नमः ॥
श्रीगोपालकृष्णाय नमः ॥
॥ अथ श्रीविष्णुसहस्रनामस्तोत्रप्रारंभः ॥
(यस्य स्मरणमात्रेण जन्मसंसारबंधनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे) ॥
श्रीवैशंपायन उवाच—
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।
युधिष्ठिरः शांतनवं पुनरेवाभ्यभाषत ॥ १ ॥
युधिष्ठिर उवाच—
किमेकं दैवतं लोके किं वाप्येकं परायणम् ।
स्तुवंतः कं कमर्चंतः प्राप्नुयुर्मानवाः शुभम् ॥ २ ॥
को धर्मः सर्वधर्माणां भवतः परमो मतः ।
किं जपन्मुच्यते जंतुर्जन्मसंसारबंधनात् ॥ ३ ॥
श्रीभीष्म उवाच—
जगत्प्रभुं देवदेवमनंतं पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः ॥ ४ ॥