विष्णुसहस्रनाम स्तोत्र (महाभारत अनुशासन पर्व - जगद्गुरु आदि शंकराचार्य भाष्य सानुवाद सटीक)
Vishnu Sahasranama with Shankara Bhashya
महर्षि वेदव्यास / जगद्गुरु आदि शंकराचार्य द्वारा
पृष्ठ 184, कुल 194 में से
संदर्भ में पढ़ेंश्रीविष्णुसहस्रनामस्तोत्रम् ३
शंखभृन्नंदकी चक्रीति कीलकम् ।
शार्ङ्गधन्वा गदाधर इत्यस्त्रम् ।
रथांगपाणिरक्षोभ्य इति कवचम् ।
उद्भवः क्षोभणो देव इति परमो मंत्रः ।
श्रीमहाविष्णुप्रीत्यर्थे जपे विनियोगः ।
अथ ध्यानम् ।
शांताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधा(का)रं गगनसदृशं मेघवर्णं शुभांगम् ।
लक्ष्मीकांतं कमलनयनं योगिहृद्ध्यानगम्यं
वंदे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकतेमौक्तिकानाँ
मालाक्लृप्तासनस्थस्स्फटिकमणिनिभैर्मौक्तिकैर्मंडितांगः ।
शुभ्रैरभ्रैयदभ्रैरुपरिविरचितैर्मुक्तपीयूषवर्षे-
रानंदी नः पुनीयादरिनलिनगदाशंखपाणिर्मुकुंदः ॥
भूः पादौ यस्य नाभिवियदसुरनिलश्चंद्रसूर्यौ च नेत्रे
कर्णावाशाश्शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः
(वाक्तोयमब्धेः ।)
अंतस्स्थं यस्य