सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

मन्त्रः । ३०९
विष्णुधर्मोत्तरेऽपि,
राज्ञा संवृतमन्त्रेण सदा भाव्यं द्विजोत्तम ।
तस्यासंवृतमन्त्रस्य ज्ञेयाः सर्वापदो ध्रुवाः ॥
कृतान्येव हि कर्माणि ज्ञायन्ते यस्य भूपतेः ।
नारब्धानि महाभाग तस्य स्याद्वसुधा वशे ॥
मन्त्रमूलं सदा राज्यं तस्मान्मन्त्रः सुरक्षितः ।
कर्त्तव्यः पृथिवीपालैर्मन्त्रभेदभयात्सदा ॥
मन्त्रवत्साधितो मन्त्रः सङ्घातानां सुखावहः ।
मन्त्रच्छलेन बहवो विनष्टाः पृथिवीक्षितः ॥
आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च ।
नेत्रवक्त्रविकाराभ्यां गृह्यतेऽन्तर्गतं मनः ॥
न यस्य कुशलैस्तस्य वशे सर्वा वसुन्धरा ।
भवतीह महीभर्तुः सदा भार्गवनन्दन ॥ इति ।
मन्त्रे जडादीनां निषेधमाह —
मनुः,
जडमूकन्धबधिरांस्तैर्यग्योनान् वयोऽतिगान् ।
स्त्रीम्लेच्छव्याधितव्यङ्ग्यान्मन्त्रकाले प्रसेधयेत् ॥
जडो, बुद्धिहीनः । तैर्यग्योनाः, शुकसारिकादयः ।
वयोऽतिगा, अतिवृद्धाः । म्लेच्छः, अव्यक्तवाक् । क्लीब इति
क्वचित्पाठः ।
भिन्दन्त्यवमता मन्त्रं तैर्यग्योनास्तथैव च ।
स्त्रियश्चैव विशेषेण तस्मात्तत्रादतो भवेत् ॥ इति ।
आदतः, शङ्कितः ।
श्रीरामायणे,
अनभिज्ञाय शास्त्राणि बहवः पशुबुद्धयः ।

३१० वीरमित्रोदयस्य राजनीतिप्रकाशे
प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः ॥
मन्त्रिरूपा हि रिपवः सम्भाव्यास्ते विचक्षणैः ।
ये हितोदयमुत्सृज्य विपरीतोपसेविनः ॥
अहितं हि हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः ।
अवेक्ष्या मन्त्रबाह्यास्ते कर्तव्याः कृतदूषणाः ॥
विनाशाय स्वभर्तुर्हि संहताः शत्रुभिर्बुधैः ।
विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः ॥ इति
निषिद्धान्तरमुक्तम्—
महाभारते,
मन्त्रभेदस्य यत्प्राज्ञो द्वाराणीमानि कल्पयेत् ।
अर्थसन्ततिकामश्च रक्षेदेतानि नित्यशः ॥
मदं स्वप्नमवज्ञानमाकारं चात्मसम्भवम् ।
दुष्टामात्येषु विश्रम्भं दूतं चाकुशलं तथा ॥ इति ।
तथा विष्णुधर्मोत्तरे,
न च मूर्खैर्न चानाप्तैस्तथा नाधार्मिकैर्नृपः ।
मन्त्रं तु स्वादितं कुर्याद्येन राष्ट्रे न धावति ॥
स्वादितम्, आस्वादितम् । न धावति, न प्रसरति ।
राज्ञां विनाशमूलस्तु कथितो मन्त्रविभ्रमः ।
नाशहेतुर्भवेन्मन्त्रः कुप्रयुक्तस्तु मन्त्रवत् ॥
मन्त्रे सुरक्षिते सिद्धिः कथिता पृथिवीक्षिताम् ।
क्रियमाणानि कर्माणि यस्य वेत्ति न कश्चन ॥
कृतान्येव विजानाति स राजा पृथिवीपतिः । इति ।
मन्त्रणयोग्या अमात्या उक्ता—
महाभारते,
मन्त्रनिश्चयतत्त्वज्ञाष्षाड्गुण्यगुणवेदिनः ।

मन्त्रः ३११
शक्तान् कुलोचितान् भक्ताननाक्षारितपूर्वकान् ॥
अनाक्षारितपूर्वकान्, अनपकृतपूर्वान् ।
नीतिज्ञान् व्यवहारज्ञानितिहासार्थकोविदान् ॥
इङ्गितज्ञानुपायज्ञान् शूरान् वीरान् कुलोद्गतान् ।
सर्वकार्येषु निपुणानिष्वस्त्रविधिपारगान् ॥
दुर्गयन्त्रविधानज्ञान् धर्मशास्त्रार्थपारगान् ।
अक्षुद्रान् क्षमिणः प्राज्ञाननागतविधायिनः ॥
आयत्यां प्रतिकारांस्तत्तदात्वे दृढनिश्चयान् ।
द्विषन्मित्राञ्युदासीनभावज्ञान् शंसितव्रतान् ॥
स्वभावगुप्तानचलानचलानिव भारत ।
धर्मशीलानकृपणांस्तथा सर्वोपधातिगान् ॥
उपधा, छद्म ।
धिया सर्वान् सम्परीक्ष्य राजा कुर्वीत मन्त्रिणः ।
येऽस्य राजधुरं वोढुं समर्थाः सद्गवा इव ॥
तैः समेत्य महीपालो गुप्तमन्त्रो जितेन्द्रियः ।
विद्यानां दर्शने यत्नमातिष्ठेद्भरतर्षभ ॥ इति ।
मन्त्रिभिर्यथा वक्तव्यं तदुक्तम्—
श्रीरामायणे,
यत्प्रियं च हितं चैव साधु धर्म्यं च सर्वशः ।
ब्रूयुस्तन्मन्त्रिणो वाक्यं मन्त्रमाणे विशेषतः ॥
प्राप्ते कार्ये शरीरं तु नेतुं स्वां गुणसम्पदम् ।
प्रियमेव हि वक्तव्यं हितमेव हि मन्त्रिणा ॥
सुलभाः पुरुषा राजन्सततं प्रियवादिनः ।
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ इति ।
मन्त्रोत्तरं स्वयमेकाकिना विचार्यमित्युक्तम्—

३१२ वीरमित्रोदयस्य राजनीतिप्रकाशे
विष्णुधर्मोत्तरे,
पृथक् च मन्त्रिभिर्मन्त्रः कृतो वै संहतैः पुनः ।
विचार्य आत्मना साधु पश्चात्तत्र समाश्रयेत् ॥
प्रज्ञाभिमानी नृपतिर्न मन्त्रिवचने रतः ।
क्षिप्रं विनाशमायाति तडागमिव काजलम् ॥
आकारगूहनै राज्ञो मन्त्ररक्षा परा मता ।
आकारैरिङ्गितैः प्राज्ञा मन्त्रं चोहन्ति पण्डिताः ॥
सञ्चराणां च वैद्यानां मन्त्रिणां वचने रतः ।
राजा विभूतिमाप्नोति चिरं यशसि तिष्ठति ॥ इति ।
इति मन्त्रः ।
अथ पौरुषम्
तत्र याज्ञवल्क्यः,
दैवे पुरुषकारे च कर्मसिद्धिव्यवस्थिता ।
तत्र दैवमभिव्यक्तं पौरुषं पौर्वदेहिकम् ॥
दैवं पौर्वदेहिकमिति सम्बन्धः ।
के१चिद्देवाद्धठात्केचित्केचित्पुरुषकारतः ।
सिद्ध्यन्त्यर्था मनुष्याणां तेषां योनिस्तु पौरुषम् ॥
यथा ह्येकेन चक्रेण रथस्य न गतिर्भवेत् ।
एवं पुरुषकारेण विना दैवं न सिद्ध्यति ॥ इति ।
मनुरपि,
सर्वं कर्मेदमायत्तं विधाने दैवमानुषे ।
१ केचिद्देवात्स्वभावाद्वा कालात्पुरुषकारतः ।
संयोगे केचिदिच्छन्ति फलं कुशलबुद्धयः ॥ इति विज्ञाने-
श्वरसम्मतः पाठः ।

दैवपौरुषयोः पौरुषस्य श्रेष्ठत्वम् । ३१३
तत्र दैवमचिन्त्यं तु मानुषे विद्यते क्रिया ॥
दैवमानुषसम्पन्ना यात्रा सर्वार्थसाधिका ।
तस्यामतिशयेद्दैवं वर्तते पौरुषं समम् ॥
केचित्पुरुषकारेण केचिद्दैवेन कर्मणा ।
उभाभ्यां केचिदिच्छन्ति फलं कुशलबुद्धयः ॥
दैवमानुषसद्भावे नार्या गर्भः प्रसिद्ध्यति ।
पुंसा सत्यपि संयोगे दैवाभावे न सिद्ध्यति ॥
न हि दैवमुदासीनं कदाचिदपि मानवम् ।
अर्थानर्थफलं नेह संयुनक्त्यवशं हि तत् ॥
काकतालीयवद्दैवाद्दृष्ट्वापि निधिमग्रतः ।
न पौरुषाहते तेन निधिना युज्यते पुमान् ॥ इति ।
मत्स्यपुराणविष्णुधर्मोत्तरयोरपि,
मनुरामावूचतुः ।
दैवे पुरुषकारे च किं ज्यायस्तद्ब्रवीहि मे ।
अत्र मे संशयो देव संशयच्छिद्भवांस्तथा ॥
मत्स्यपुष्करावूचतुः ।
स्वमेव कर्म दैवाख्यं विद्धि देहान्तरार्जितम् ।
तस्मात्पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ॥
प्रतिकूलं तथा दैवं पौरुषेण विहन्यते ।
मङ्गलाचारयुक्तानां नित्यमुत्थानशालिनाम् ॥
येषां पूर्वकृतं कर्म सात्त्विकं मनुजोत्तम ।
पौरुषेण विना तेषां केषाञ्चिद्दृश्यते फलम् ॥
कर्मणा प्राप्यते लोके राजसस्य तथा फलम् ।
१ इत आरभ्य 'न पौरुषाहते' इत्यन्तानि पद्यानि मुद्रितमनु-
पुस्तके नोपलभ्यन्ते ।
४०

३१४ वीरमित्रोदयस्य राजनीतिप्रकाशे
कृच्छ्रेण कर्मणा विद्धि तामसस्य तथा फलम् ॥
पौरुषेणाप्यते राजन् मार्गितव्यं फलं नरैः ।
दैवमेव न जानाति नरः पौरुषवर्जितः ॥
तस्माद्धि कालसंयुक्तं दैवं तु सफलं भवेत् ।
पौरुषं दैवसम्पत्त्या काले फलति पार्थिव ॥
दैवं पुरुषकारश्च कालश्च मनुजेश्वर ।
त्रयमेतन्मनुष्यस्य पिण्डितं स्यात्फलावहम् ॥
कृषिवृष्टिसमायोगाद्दृश्यन्ते फलसिद्धयः ।
तास्तु काले प्रदृश्यन्ते नैवाकाले कथञ्चन ॥
कल्पतरौ तु—
वर्षाकाले प्रदृश्यन्ते नैवाकाले कथञ्चन-इतिपाठः ।
तस्मात्सदैव कर्त्तव्यं सधर्मं पौरुषं नृभिः ।
विपत्तावपि यस्येह परलोके ध्रुवं फलम् ॥
नालसाः प्राप्नुवन्त्यर्थान्न च दैवपरायणाः ।
तस्मात्सर्वप्रयत्नेन पौरुषे यत्नमाचरेत् ॥
त्यक्तालसान्दैवपरान् मनुष्यानुत्थानयुक्तान् पुरुषान् हि लक्ष्मीः ।
अन्विष्य यत्नाद्वृणुते नृपेन्द्र तस्मात्सदोत्थानवता हि भाव्यम्॥ इति।
श्रीरामायणेऽपि,
यस्तु नारभते कार्यं नरो दैवपरायणः ।
क्षिप्रं भवति निर्द्रव्यः पलायनपरायणः ॥
तथा,
विक्लवो हीनवीर्यो यः स दैवमनुवर्त्तते ।
अविक्लवस्तु तेजस्वी न दैवमनुवर्त्तते ॥
दैवं पुरुषकारेण यतते यः प्रवाधितुम् ।
न स दैवविपन्नार्थः कदाचिदवसीदति ॥ इति ।

राजपुत्रस्य रक्षा । ३१५

दैवस्य नामान्तराण्याह—
व्यासः,
विधिर्विधानं नियतिः स्वभावः कालो ग्रहा ईश्वरकर्म दैवम् ।
भाग्यानि पुण्यानि कृतान्तयोगः पर्यायनामानि पुराकृतस्य ॥ इति ।
द्वयोः स्वरूपमाह—
स एव,
दैवमात्मकृतं विद्यात्कर्म यत्पौर्वदेहिकम् ।
स्मृतः पुरुषकारस्तु क्रियते यदिहापरम् ॥ इति ।
इति पौरुषम् ।
अथ राजपुत्ररक्षा ।
तत्र मत्स्यपुराणे,
राजन् पुत्रस्य रक्षा च कर्त्तव्या पृथिवीक्षिता ।
आचार्यश्चापि कर्त्तव्यो नित्ययुक्तैश्च रक्षिभिः ॥
धर्मकामार्थशास्त्राणि धनुर्वेदं च शिक्षयेत् ।
रथे च कुञ्जरे चैनं व्यायामं कारयेत्सदा ॥
शिल्पानि शिक्षयेच्चैनं नाप्तैर्भिन्द्या प्रियं वदेत् ।
शरीररक्षाव्याजेन रक्षिणोऽस्य नियोजयेत् ॥
न चास्य सङ्गो दातव्यः क्रुद्धलुब्धावमानितैः ।
तथा च विनयेदेनं यथा यौवनगो मुखे ॥
इन्द्रियैर्नापकृष्येत सतां मार्गात्सुदुर्गमात् ।
यौवनगः, प्राप्तयौवनः । मुखे, आदौ ।
गुणाधानमशक्यं तु यस्य कर्तुं स्वभावतः ॥
बन्धनं तस्य कर्त्तव्यं गुप्तदेशे शुभान्वितम् ।
गुप्तदेश इत्यनेन दुष्टप्रवेशनिषेधः । शुभान्वितमित्यनेन शा-

३१६ वीरमित्रोदयस्य राजनीतिप्रकाशे
शरीरदुःखनिषेधः, अवश्यापेक्षितस्नानभोजनवस्त्रताम्बूलादिदानं
बोध्यते । सुखान्वित इति पाठे देशविशेषणं तत् ।
अविनीतकुमारं हि कुलमाशु विशीर्यते ॥ इति ।
एवं विनीतस्वाधिकारसमर्पणे प्रकार उक्तः —
तत्रैव,
अधिकारेषु सर्वेषु विनीतं विनियोजयेत् ।
आदौ स्वल्पे ततः पश्चात् क्रमेण च महत्स्वपि ॥ इति ।
पुत्रविनयस्य फलमुक्तम्—
महाभारते,
नैव स्वैररिभिर्वापि ग्रस्यते पुत्रवान्नृपः ।
तस्माद्राजा सदा पुत्रं संरक्षेच्छिक्षयीत च ॥
अमात्यैरात्मसदृशै राजपुत्रस्य रक्षणम् ।
चारैश्च विविधोपायैः प्रविधेयं पृथग्विधैः ॥ इति ।
इति राजपुत्ररक्षा ।
अथ सन्ध्यादिचिन्ता ।
तत्र मन्त्रिण इत्यनुवृत्तौ—
मनुः,
तैः सार्द्धं चिन्तयेन्नित्यं सामान्यं सन्धिविग्रहम् ।
स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ॥
तैः, मन्त्रिभिः। चिन्तयेत्, राजेति शेषः। सन्धिः, पणबन्धः ।
विग्रहः, वैर्यवस्कन्दः। स्थानं, सैन्यकोशपुरराष्ट्रभेदेन चतुर्विधम्।
समुदयः, कृषिव्रजवनगुल्मस्थानवणिक्पशुशुल्कदण्डादिः। गुप्तिः,
राष्ट्रादिरक्षा । लब्धप्रशमनं, देवताश्रमविद्यावतां धार्मिका-
णां दानमानसम्मानयोगः । अत्र सामान्यं सन्धिविग्रहमित्यु-

पादानात्सामान्यतः सन्धिविग्रहचिन्ता । विशेषतस्तु षाड्गुण्य-
प्रकरणे वक्ष्यते ।
मध्यन्दिने चे १ रात्रौ वा विश्रान्तो विगतक्लमः ।
चिन्तयेद्धर्मकामार्थान् सार्द्धं तैरेक एव वा ॥
परस्पराविरुद्धानां तेषां च समुपार्जनम् ।
कन्यानां सम्प्रदानं च कुमाराणां च रक्षणम् ॥
तेषां, धर्मार्थकामानां बहुधा विरोधवताम् । समुपार्जनम्,
सम्यगविरोधेन उपार्जनमुत्पादनम् ।
दूतसम्प्रेषणं चैव कार्यशेषं तथैव च ।
अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम् ॥
प्रणिधयः, चाराः ।
कृत्स्नं चाष्टविधं कर्म पञ्चवर्गं च यत्नतः ।
अनुरागापरागौ च प्रचारं मण्डलस्य च ॥
अष्टविधं कर्म उशनसोक्तम्—
आदाने च विसर्गे च तथा प्रेषनिषेधयोः ।
पञ्चमे चार्थवचने व्यवहारस्य चेक्षणे ॥
दण्डशुद्धौ तथा युक्त आत्मशुद्धौ तथैव च ।
अष्टकर्मा दिवं याति राजा शक्राभिपूजितः ॥ इति ।
आदानं, करादिग्रहणम् । विसर्गः, पारितोषिकदानम् ।
प्रेषः, प्रेषणं भृत्यादीनाम् । अर्थवचनं,द्रव्यार्जनोपायः । अनुव-
चनमिति क्वचित्पाठः । अनुवचनं, कार्यसन्देहे राजाज्ञा । दण्ड-
{ः, शास्त्रोक्तदण्डप्रणयनम् । आत्मशुद्धिः, प्रायश्चित्तम् ।
दण्डशुद्ध्योः समायुकस्तेनाष्टगणिको नृपः। इति क्वचित्पाठः।
१ ऽर्धरात्रे इति मुद्रितमनौ पाठः ।

३१८ वीरमित्रोदयस्य राजनीतिप्रकाशे

मेधातिथिस्तु-अकृतारम्भः, कृतानुष्ठानम्, अनुष्ठितविशेष-
णं, सामादयश्चत्वारः, एतदष्टविधं कर्माह । पञ्चवर्गः, पञ्चप्रका-
राणां चराणां समूहः । पञ्चप्रकारा यथा, श्रद्धेयदेशविशेषशि-
ल्पिभाषादिविदो जनाः । तथा, कुब्जवामनकिरातमूकबधि-
रजडान्धादिच्छद्मिनः । तथा, नटनर्तकगायनादयः । तथा, श्रम-
णादयः । प्रचेताः पञ्चवर्गमन्यथाह—
सहायाः साधनोपाया विभागो देशकालयोः ।
विपत्तेश्च प्रतीकारः सिद्धिः पञ्चाङ्गमिष्यते ॥ इति ।
सिद्धिः, कार्यसिद्धिः । अपरागो, विरागः । मन्त्रिपुरोहि-

१ कुल्लूकभट्टीये तु—'कापटिकोदास्थितगृहपतिवैदेहिकताप-
सव्यञ्जनात्मकं पञ्चविधं चारवर्गशब्दवाच्यं तत्त्वतश्चिन्तये-
त् । तत्र परमर्मज्ञः प्रगल्भश्छात्रः कपटव्यवहारित्वात्काप-
टिकः, तं वृत्त्यर्थिनमर्थमानाभ्यामुपगृह्य रहसि राजा ब्रूयात्,
यस्य दुर्वृत्तं पश्यसि तत्तदानीमेव मयि वक्तव्यमिति । प्रव्रज्यारूढप-
तित उदास्थितः, तं लोकेषु विदितदोषं प्रज्ञाशौचयुक्तं वृत्त्यर्थिनं कृ-
त्वा रहसि राजा पूर्ववद्ब्रूयात्, बहुत्पत्तिकमठे स्थापयेत्प्रचुरसस्यो-
त्पत्तिकं भूम्यन्तरं च तद्वृत्त्यर्थमुपकल्पयेत्, स चान्येषामपि प्रव्र-
जितानां राजचारकर्मकारिणां ग्रासाच्छादनादिकं दद्यात् । कर्ष-
कः क्षीणवृत्तिः प्रज्ञाशौचयुक्तो गृहपतिव्यञ्जनस्तमपि पूर्ववदु-
क्त्वा स्वभूमौ कृषिकर्म कारयेत् । वाणिजकः क्षीणवृत्ति-
र्वैदेहिकव्यञ्जनस्तं पूर्ववदुक्त्वा धनमानाभ्यामात्मीकृत्य वा-
णिज्यं कारयेत् । मुण्डो जडिलो वा वृत्तिकामस्तापसव्यञ्जनः सोऽ-
पि कचिदाश्रमे वसन् बहुमुण्डजटिलान्तरे कपटशिष्यगणवृतो
गुप्तराजोपकाल्पितवृत्तिस्तापस्यं कुर्यात्, मासद्विमासान्तरितं प्रका-
शं बदरादिमुष्टिमश्नीयात्, रहसि च राजोपकाल्पितमाहारं कल्प-
येत्, शिष्याश्चास्यातीतानागतज्ञानं ख्यापयेयुः, ते च बहुलोक-
वेष्टनमासाद्य सर्वेषां विश्वसनीयत्वात्सर्वकार्यमकार्यं च पृच्छन्ति
अन्यस्य कुक्रियादिकं च कथयन्ति' इत्येवं पञ्च प्रकारा दर्शिताः ।

द्वादशराजमण्डलम् । ३१९
तसेनापतियुवराजदौवारिकादीनामनुरागविरागौ चारादिभ्यो
बोद्धव्यावित्यर्थः ।
मनुः,
उपेतारमुपायं च सर्वोपायांश्च कृत्स्नशः ।
एतत्त्रयं समाश्रित्य प्रयतेतात्मसिद्धये ॥ इति ।
उपेतारम्, उपायप्रयोक्तारमात्मानम् । उपेयम्, उपाय-
साध्यं शत्रुम् ।
इति सन्ध्यादिचिन्ता ।
अथ द्वादशराजमण्डलम् ।
विष्णुधर्मोत्तरे,
राम उवाच ।
किन्नु कृत्यतमं राज्ञस्तन्ममाचक्ष्व पृच्छतः ।
राज्यतन्त्रं कथं राज्ञा पालनीयं विपश्चिता ॥
पुष्कर उवाच ।
सप्ताङ्गस्य तु राज्यस्य भाव्यं युक्तेन भूभृता ।
एतावदेव कर्त्तव्यं राज्ञा तन्त्रं भृगूत्तम ॥ इति ।
सप्ताङ्गान्युक्तानि—
तत्रैव,
· साम दानं तथा दुर्गं कोशो दण्डस्तथैव च ।
मित्रं जनपदश्चैव राज्यं सप्ताङ्गमुच्यते ॥ इति ।
मनुः,
सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम् ।
पूर्वं पूर्वं गुरुतरं जानीयाद्व्यसनं नृपः ॥
प्रकृतीनाम्, अङ्गानाम् । व्यसनं, व्यसनकारणम्, दोषव-
दिति शेषः ।

३२० वीरमित्रोदयस्य राजनीतिप्रकाशे
सप्ताङ्गस्यास्य राज्यस्य विष्टब्धस्य त्रिदण्डवत् ।
अन्योन्यगुणवैशेष्यान्न किञ्चिदतिरिच्यते ॥
तेषु तेषु हि कृत्येषु तत्तदङ्गं विशिष्यते ।
येन यत्साध्यते कार्यं तत्तस्मिञ्छ्रेष्ठमुच्यते ॥ इति ।
विष्णुधर्मोत्तरे तु विशेषः ।
सप्ताङ्गस्यास्य राज्यस्य विघ्नकर्तॄन् विवासयेत् ।
अहितान् घातयेद्राजा क्षिप्रमेवाविचारयन् ॥
सप्ताङ्गस्य तु राज्यस्य वृद्धिः कार्या स्वमण्डले ।
मण्डलेषु च सर्वेषु कषणीया महीक्षिता ॥ इति ।
कषणीयाः, परीक्षणीयाः, अमात्यादय इति शेषः । मण्ड-
लस्य द्वादश प्रकृतीराह—
मनुः,
मध्यमस्य प्रचारं च विजिगीषोश्च चेष्टितम् ।
उदासीनप्रचारं च शत्रोश्चैव प्रयत्नतः ॥
एताः प्रकृतयो मूलं मण्डलस्य समासतः ।
एतस्मिन् राजमण्डल इमाश्चतस्रो राजप्रकृतयो भवन्ति
विजिगीषुररिर्मध्यम उदासीन इति । विजेतुमभ्युद्यतो विजि-
गीषुः । अरिस्तु त्रिविधः—सहजः कृत्रिमः स्वभूम्यनन्तर इति ।
मध्यमः, अरिविजिगीष्वोरसंहतयोर्निग्रहे समर्थः । तदुक्तम्—
अखिलो मण्डलार्थस्तु यस्मिन् ज्ञेयः स मध्यमः । इति ।
अखिलः, अर्थाद्विजिगीषुयातव्ययोः । मण्डलार्थः, मण्डल-
प्रयोजनं, यस्मिन् स मध्यमो ज्ञेयः । उदासीनः, अरिविजिगीषु-
मध्यमानामसंहतानां निग्रहसमर्थः । तदुक्तम्—
विकृष्टेऽध्वन्यनायत्त उदासीनो बलान्वितः । इति ।
विकृष्टेऽध्वनि, अरिमित्रापेक्षया विप्रकृष्टे स्थले । अनायत्त:,

द्वादशराजमण्डलम् । ३२१
त्रयाणामप्यनधीनः । मध्यमोदासीनयोर्लक्षणे विष्णुधर्मोत्तरे
स्पष्टमभिधास्येते ।
अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः ॥
विजिगीषुमित्रमरिमित्रं विजिगीषुमित्रमित्रमरिमित्रमित्रं चेति
अन्याश्चतस्रः प्रकृतयः पूर्वतः। यस्यां दिश्यरिः सैव पूर्वा। पार्ष्णि-
ग्राहः, आक्रन्दः, पार्ष्णिग्राहासारः, आक्रन्दासारश्चेति चतस्रः
प्रकृतयः पश्चात् इत्यष्टौ, आद्याश्चतस्र इति द्वादश। तथा चोक्तम्-
विष्णुधर्मोत्तरे,
अधिकृत्याभियोज्यं तु तत्रापि शृणु कल्पनाम् ।
अभियोज्यः स्मृतः शत्रुस्तस्यापि च प्रतीक्षिता ॥
तस्य, अरेः । प्रतीक्षिता, सेवकः । तदुक्तम्-
मनुना,
अनन्तरमरिं विद्यादरिसेविनमेव च । इति ।
तत्परस्तु सुहृज्ज्ञेयो रिपुमित्रमतः परम् ।
स्वमित्रमित्रं तत्पश्चान्मित्रमित्रं रिपोस्तथा ॥
एतत्पुरस्तात्कथितं पश्चादपि निबोध मे ।
पार्ष्णिग्राहः स्थितः पश्चात्ततस्त्वाक्रन्द उच्यते ।
आसारस्तु ततोऽप्यन्यस्त्वाक्रन्दासार उच्यते ॥
आसारः, पार्ष्णिग्राहासारः ।
जिगीषोः शत्रुयुक्तस्य वियुक्तस्य तथा द्विज ।
निग्रहानुग्रहे शक्तो मध्यमः परिकीर्तितः ॥
निग्रहानुग्रहे शक्तः सर्वेषामपि यो भवेत् ।
उदासीनः स कथितो बलवान् पृथिवीपतिः ॥
एतावदेव ते प्रोक्तं राम द्वादशराजकम् ।
नात्रापि निश्चयः शक्यो वक्तुं मनुजपुङ्गव ।
४१

३२२ वीरमित्रोदयस्य राजनीतिप्रकाशे
नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते ॥
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ।
सामर्थ्ययोगात् कारणात् ।
त्रिविधा रिपवः प्रोक्ताः कुल्यानन्तरकृत्रिमाः ।
पूर्वः पूर्वो गुरुस्तेषां दुश्चिकित्स्यतमो मतः ॥
अनन्तरोऽपि यः शत्रुः सोऽपि मे कृत्रिमो मतः ।
पार्ष्णिग्राहो भवेद्राजा शत्रुमित्राभियोगिनः ॥
पार्ष्णिग्राहमुपायैस्तु शमयेच्च तथा स्वकम् ।
मित्रेण शत्रोरुच्छेदं प्रशंसन्ति पुरातनाः ॥
मित्रं हि शत्रुतामेति सामन्तत्वादनन्तरम् ।
शत्रुं जिगीषुरुच्छिन्द्यात्स्वयं शक्नोति चेद्यदि ॥
प्रतापवृद्धौ तेनास्य न मित्राज्जायते भयम् ।
नान्यथा पृथिवी जेतुं शक्या राम जिगीषुणा ॥
महाभारते,
विजिगीषोररिमित्रमरेर्मित्रमतः परम् ।
मित्रमित्रं शत्रुमित्रमित्रं ज्ञेयं पुरःसरम् ॥
पार्ष्णिग्राहस्तथाक्रन्दः पार्ष्ण्यासारश्च पृष्ठतः ।
आक्रन्दासार शांतं च ज्ञेयं मण्डलचिन्तकैः ॥
पार्ष्णिग्राहाभिसारं च पार्ष्णिग्राहं च विग्रहे ।
राजाक्रन्दाभिसारेण तथाऽऽक्रन्देन वर्द्धयेत् ॥
वर्द्धयेत्, छेदयेत् ।
विरोधयेच्छत्रुमित्रं मित्रमित्रमरेस्तथा ।
मित्रेण मित्रमित्रेण मध्यमत्वाभिवाञ्छकः ॥
मन्त्रप्रभूत्साहशक्तीः पालयेद्बलवान्नृपः ।
अत्र यद्यपि मध्यमोदासीनौ नोक्तौ तथापि मन्वाद्येकवा-

द्वादशराजमण्डलम् । ३२३
क्यतयात्रापि तौ बोद्धयौ । कल्पतरुस्तु-'विजिगीषुमित्रं, वि-
जिगीषुमित्रमित्रम्, अरिमित्रम्, अरिमित्रमित्रं, मध्यममित्रं मध्य-
ममित्रमित्रम्, उदासीनमित्रम्, उदासीनमित्रमित्रं चेत्यष्टौ, प्रकृ-
ताश्चतस्रः प्रकृतय इति द्वादश' इत्याह । एतेषां भेदानाह—
मनुः,
अमात्यराष्ट्रदुर्गाथैदण्डाख्याः पञ्च चापराः ।
प्रत्येकं कथिता ह्येताः सङ्क्षेपेण द्विसप्ततिः॥(अ०७श्लो० १५७)
विजिगीषुः, विजिगीष्वमात्यादयः पञ्च एवं षट् । एवमन्ये
एकादश माण्डलिकाः, एषाममात्यादयः प्रत्येकं पञ्च पञ्चेति
द्विसप्ततिर्भवन्ति । असाध्यमरिमाह—
स एव,
प्राज्ञं कुलीनं दातारं शूरं दक्षं तथैव च ।
कृतज्ञं शक्तिमन्तं च कष्टमाहुररिं बुधाः ॥(अ०७श्लो०२१०) इति।
आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता ।
स्थौललक्ष्यं च सततमुदासीनगुणोदयः॥ (अ०७ श्लो० २११)
तान्सर्वानभिसन्दध्यात्सामादिभिरुपक्रमैः ।
व्यस्तैश्चैव समस्तैश्च पौरुषेण नयेन च ॥ (अ० ७ श्लो० १५८)
अभिसन्दध्यात्, वशीकुर्यात् । विजिगीषुर्धर्मेण परान् ज-
येदित्युकम्—
१ अत्र 'उदासीन गुणानाह स एव'इत्यपेक्षितं त्रुटितमिव भाति ।
२ बहुप्रदत्वम् 'स्युर्वदान्यस्थूललक्षदानशौण्डा बहुप्रदे' इत्यमरः।
३ अत्रापि 'तेषां वशीकारोपायामाह स एव' इत्यपेक्षितम् । एत्प-
द्यस्थतच्छब्देन पूर्वोक्तद्विसप्ततिप्रकारराजमण्डलस्य परामर्शात्
तदनन्तरमेवास्य पद्यस्य विद्यमानत्वात् ।

३२४ वीरमित्रोदयस्य राजनीतिप्रकाशे
विष्णुधर्मोत्तरे,
यथास्य नोद्विजेल्लोको विश्वास्यश्च यथा भवेत् ।
जिगीषुधर्मविजयी तथा लोकं वशं नयेत् ॥
यः स्यादधर्मविजयी तस्मादुद्विजते जनः ।
प्राप्यापि वसुधां कृत्स्नां न चिरं श्रियमश्नुते ॥
धर्मेण राज्ञो भवतीह वृद्धिर्धर्मेण वृद्धिश्च तथा परत्र ।
धर्मेण लब्ध्वा वसुधां जितारिर्भुक्त्वा चिरं नाकमनुप्रयाति ॥ इति।
इति द्वादशराजमण्डलम् ।
अथ षाड्गुण्यम्।
तत्र याज्ञवल्क्यः,
सन्धि च विग्रहं यानमासनं संश्रयं तथा ।
द्वैधीभावं गुणानेतान्यथावत्परिकल्पयेत् ॥ इति ॥
मनुः,
सन्धिं च विग्रहं चैव यानमासनमेव च ।
द्वैधीभावं संश्रयं च षड्गुणांश्चिन्तयेत्सदा ॥
आसनं चैव यानं च सन्धिं विग्रहमेव च ।
कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयमेव च ॥
सन्धिः, हस्त्यश्वादिदानादिना परस्परमुपकर्त्तव्यमित्यादि-
व्यवस्था । तदुक्तम्-
पणबन्धः स्मृतः सन्धिः-इति ।
विग्रहो विरोधः । तदुक्तम्-
अपकारस्तु विग्रहः । इति ।
यानं, स्वबलेन शत्रुं प्रति गमनम् । तदुक्तम्-
जिगीषोः शत्रुविषये यानं यात्रऽभिधीयते । इति ।

षाड्गुण्यलक्षणम् । ३२५
आसनं, विग्रहमुपेक्ष्य स्वदेशेऽवस्थितिः । तदुक्तम्-
विग्रहेऽपि स्वके देशे स्थितिरासनमुच्यते । इति ।
द्वैधीभावः, स्वबलस्य द्विधाकरणम् । तदुक्तम्-
बलार्द्धेन प्रयाणं तु द्वैधीभाव स उच्यते । इति ।
संश्रयः, परपीडितस्य प्रवलराजान्तराश्रयणम् । तदुक्तम्-
उदासीने मध्यमे वा संश्रयात्संश्रयः स्मृतः ।
सन्ध्यादयो द्विविधाः । तदुक्तम्-
मनुना,
सन्धिं च द्विविधं विद्याद्राजा विग्रहमेव च ।
उभे यानासने चैव द्वैधं संश्रयमेव च ॥
तत्र सन्धिर्द्विविधो यथा-आवाभ्यां राजान्तरं प्रति यानं
कर्त्तव्यमिति क्रियमाण एकः, त्वमत्र याह्यहमन्यत्र यास्यामी-
ति द्वितीयः। एतावपि प्रत्येकं द्विविधौ तात्कालिकफलवत्त्वोत्त-
रकालीनफलवत्त्वाभ्याम् । तदुक्तम्-
तेनैव,
समानयानकर्मा च विपरीतस्तथैव च ।
तदात्वायांतसंयुक्तः संन्धिज्ञेयो द्विलक्षणः ॥ इति ।
विग्रहो द्विविधः-स्वकार्यार्थं मार्गशीर्षादिकालेऽकाले वा
कृतः स्वयङ्कृत एकः, मित्रस्यापकारे केनचित्कृते तद्रक्षार्थ-
मपरः । तदुक्तम्-
तेनैव,
स्वयङ्कृतश्च कार्यार्थमकाले काल एव च ।
मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः ॥ इति ।
यानं द्विविधम्-बलवत एकाकिनो मित्रसहितस्य वा । तदुक्तम्-
तेनैव,

३२६ वीरमित्रोदयस्य राजनीतिप्रकाशे

एकाकिनश्चात्ययिके कार्ये प्राप्ते यदृच्छया ।
संहतस्य च मित्रेण द्विविधं यानमुच्यते ॥ इति ।
आसनं द्विविधम्-क्षीणबलस्य मित्ररक्षार्थं सबलस्य वा। तदुक्तम्-
तेनैव,
क्षीणस्य चैव क्रमशौ दैवात्पूर्वकृतेन वा ।
मित्रस्य चानुरोधेन द्विविधं स्मृतमासनम् ॥ इति ।
द्वैधं द्विविधम्-दुर्गदेशेऽर्द्धबलेन राजावस्थानम्, अर्द्धबलेन
सेनापतिप्रयाणं, वैपरीत्येन वावस्थानं गमनं च । तदुक्तम्-
बलस्य स्वामिनो वापि स्थितिः कार्यस्य सिद्धये ।
द्विविधं कीर्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः ॥ इति ।
स्थितिः, द्विधाभूय स्थितिः । द्विधास्थितेर्द्वैधशरीरान्तर्गत-
त्वात् । संश्रयो द्विविधः-अपहृतार्थस्यादानार्थः, अमुकमय-
माश्रित इति भाविपीडानिवृत्त्यर्थश्च । तदुक्तम्-
तेनैव,
अर्थसम्पादनार्थं च पीड्यमानस्य शत्रुभिः ।
साधुषु व्यपदेशार्थं द्विविधः संश्रयः स्मृतः ॥ इति ।
ते च कदा केन च कर्त्तव्या इत्यपेक्षायामाह-
मनुः,
यदाऽधिगच्छेदायतयामाधिक्यं ध्रुवमात्मनः ।
तदात्वे चाल्पिकां पीडां तदा सन्धिं समाश्रयेत् ॥
आयत्याम्, उत्तरकाले । आधिक्यं, बलाधिक्यम् । तदा-
त्वे, सम्प्रति । स च समेन बलीयसा वा कार्यः । तदुक्तम्-
समेन सन्धिरन्वेष्यो हीनेन च बलीयसा । इति ।
स्वयं हीनेन सता समेन सह बलीयसा वा सह सन्धिरन्वेष्यः।
मनुः

षाड्गुण्यस्य प्रयोगकालः । ३२७
यदा प्रहृष्टा मन्येत सर्वास्तु प्रकृतीर्भृशम् ।
अत्युच्छ्रितं तथात्मानं तदा मन्येत विग्रहम् ॥
विष्णुधर्मोत्तरेऽपि,
हीनेन विग्रहः कार्यः स्वयं राज्ञा बलीयसा ।
राज्ञा स्वयं बलीयसा सता हीनेन शत्रुणा सह विग्रहः कार्यः ।
मनुः,
यदा मन्येत भावेन हृष्टं पुष्टं स्वकं बलम् ।
परस्य विपरीतं च तदा यायादरीन् प्रति ॥
विष्णुधर्मोत्तरेऽपि,
बहुलाभकरं यत्स्यात्तदा यानं समाश्रयेत् ।
बहुव्ययक्षयायासं तेषां राम प्रकीर्त्तितम् ॥
बहुव्ययक्षयायासमित्यत्र समाहारद्वन्द्वेन नपुंसकतैकवद्भावौ ।
मनुः,
यदा तु स्यात्परिक्षीणो वाहनेन बलेन च ।
तदासीत प्रयत्नेन शनकैः सान्त्वयन्त्रिपून् ॥
विष्णुधर्मोत्तरेऽपि,
आसीत कर्मविच्छेदं शक्तः कर्तुं रिपुर्यदा ।
यदा रिपुः शक्तः स्वापेक्षया सामर्थ्यवान् तदा कर्मणो
विग्रहस्य विच्छेदं कर्तुमासीतेत्यर्थः ।
मनुः,
मन्येतारिं यदा राजा सर्वथा बलवत्तरम् ।
तदा द्विधा बलं कृत्वा साधयेत्कार्यमात्मनः ॥
विष्णुधर्मोत्तरेऽपि,
अशुद्धपाष्णिर्बलवान्द्वैधीभावं समाश्रयेत् ।

३२८ वीरमित्रोदयस्य राजनीतिप्रकाशे
मनुः,
यदा परबलानां तु गमनीयतमो भवेत् ।
तदा तु संश्रयेत्क्षिप्रं धार्मिकं बलिनं नृपम् ॥
निग्रहं प्रकृतीनां च कुर्याद्योऽरिबलस्य च ।
उपसेवेत तं नित्यं सर्वयत्नैर्गुरुं यथा ॥
विष्णुधर्मोत्तरेऽपि,
बलिना निगृहीतस्तु योऽसन्धेयेन पार्थिवः ।
संश्रयस्तेन कर्त्तव्यो गुणानामधमो गुणः ॥
तथा,
सर्वशक्तिविहीनस्तु तदा कुर्यात्तु संश्रयम् ।
मनुः,
यदि तत्रापि सम्पश्येद्दोषं संश्रयकारितम् ।
सुयुद्धमेव तत्रापि निर्विशङ्कं समाचरेत् ॥
सर्वोपायैस्तथा कुर्यान्नीतिज्ञः पृथिवीपतिः ।
यथास्याभ्यधिका न स्युर्मित्रोदासीनशत्रवः ॥
आयतिं सर्वकार्याणां तदात्वं च विचारयेत् ।
अतीतानां च सर्वेषां गुणदोषौ च तत्त्वतः ॥
आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः ।
अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते ॥
यथैनं नाभिसन्दध्युर्मित्रोदासीनशत्रवः ।
तथा सर्वं संविदध्यादेष सामासिको नयः ॥
चारेणोत्साहयोगेन क्रिययैव च कर्मणाम् ।
स्वशक्तिं परशक्तिं च नित्यं विद्यान्महीपतिः ॥
पीडनानि च सर्वाणि व्यसनानि तथैव च ।
आरभेत ततः कार्यं सञ्चिन्त्य गुरुलाघवम् ॥