वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
उपायेषु परविषये दण्डः । ३०३
सकरं, करेण स्वामिने देयेन मूल्येन सहितम् ।
वृक्षं तु सफलं छित्त्वा सुवर्णं दण्डमर्हति ॥
द्विगुणं दण्डयेच्चैत्ये पथि सीम्नि जलाशये ।
छेदनादफलस्यापि मध्यमः साहसः स्मृतः ॥
इत्यादिनानाश्रुतिस्मृतिपुराणेषु बहवो दण्डप्रकारा उक्ताः।
इति स्वविषये दण्डः ।
“कथं स्वविषये तस्य दण्डनीतिर्भवेद्ध्रुवम्”
इत्यादिना स्वदेशे दण्डनिरूपणे कृते परविषयेऽपि कथं
दण्डः कर्त्तव्य इत्यपेक्षायाम्—
विष्णुधर्मोत्तरे,
राम उवाच ।
सामभेदौ तथा प्रोक्तौ दानदण्डौ तथैव च ।
दण्डः स्वदेशे कथितः परदेशे ब्रवीहि मे ॥
पुष्कर उवाच ।
द्विविधः कथितो दण्डः परदेशे पुरातनैः ।
प्रकाशश्चाप्रकाशश्च तं निबोध द्विजोत्तम ॥
लुण्ठनं ग्रामघातश्च सस्यघातस्तथैव च ।
चतुरङ्गेन दण्डेन परेषां च तथा वधः ॥
चतुरङ्गेन दण्डेन, रथाश्वगजपदातिरूपसैन्येन ।
प्रकाशः कथितो दण्डः प्रत्यक्षं वह्निदीपनम् ।
अप्रकाशो विषं वह्निर्गुढैश्च पुरुषैर्वधः ॥
दूषणं यवसादीनामुदकानां च दूषणम् ।
रसक्रियाश्च विविधाः सुभगाभेदनादिकम् ॥
परराज्ञोऽन्तःपुरे या सुभगा तस्याः केन चिदुपायेन भेद-
३०४ वीरमित्रोदयस्य राजनीतिप्रकाशे
नादिकम् । आदिपदेन सामदानयोरुपादानम् ।
एवमादीनि कार्याणि परचक्रे महीक्षिता ।
स्वराष्ट्रे च द्विजश्रेष्ठ दूष्याणां बलिनामपि ॥
चत्वार एते कथिता ह्युपायाः प्रधानभूता भुवि पार्थिवानाम् ।
अतः परं ते कथयामि राम शेषांस्त्रयस्ते न मयेरिता ये ॥ इति।
इति दण्डः ।
अथोपेक्षा ।
विष्णुधर्मोत्तरे,
पुष्कर उवाच
यदि मन्येत नृपतिरनेन मम विग्रहे ।
अनर्थायानुबन्धः स्यात्सन्धिना च तथा भवेत् ॥
साम लज्जास्पदं चात्र दानं चार्थक्षयङ्करम् ।
भेदे दण्डेऽनुबन्धः स्यात्तदोपेक्षां समाश्रयेत् ॥
अवज्ञापहतस्तत्र राज्ञा कार्यो रिपुर्भवेत् ।
उपेक्षैव च धर्मज्ञ श्रेयसी तत्र सा स्मृता ॥
उपेक्षया यत्र तु शक्यमर्थक्षयव्ययायासविहीनया न ।
कार्यं भवेद्ब्राह्मण विग्रहेण लज्जास्पदेनाप्यथ सन्धिना च ॥ इति।
यत्रार्थक्षयव्ययाभ्यामायासेन च विहीनयोपेक्षया शक्यं
कार्यं कर्तुं तत्र हे ब्राह्मण राम लज्जास्पदेन विग्रहेण सन्धिना
व कार्यं न भवेत् ।
इत्युपेक्षा ।
अथ माया ।
सा च विना मन्त्रतन्त्रादिकमन्यथाभूतस्यार्थस्यान्यथा-
भासनोपायः । कपटमिति लोके प्रसिद्धम् । सा च—
उपायेषु माया । ३०५
विष्णुधर्मोत्तरे,
पुष्कर उवाच ।
उत्पातैर्विविधैः कार्यं परस्योद्वेजनं नृपैः ।
अरातिशिबिरस्थाने वसतिर्यस्य पक्षिणः ॥
स्थूलस्य तस्य पुच्छस्थां कृत्वोल्कां विपुलां द्विज ।
विसृज्यैनं ततस्तीव्रमुलकापातं प्रदर्शयेत् ।
अनेनैवानुसारेण बुद्ध्या निश्चित्य यत्नतः ॥
उत्पातानि तथान्यानि दर्शनीयानि पार्थिवैः ।
उद्वेजनं तथा कुर्यात्कुहकैर्विविधैर्द्विषाम् ॥
सांवत्सरा नवर्ष च नाशं ब्रूयुः परस्य च ।
जिगीषुः पृथिवीराज्यं तेन चोद्वेजयेत्परान् ॥
सांवत्सराः, ज्योतिर्विदः । नवर्षे, वृष्ट्यभावम् ।
देवतानां प्रसादानि कीर्तनीयानि तस्य तु ॥
सुस्वप्नलाभांश्च तथा जिगीषुं प्रति कीर्तयेत् ।
दुःस्वप्नलाभं च तथा परेषामिति निश्चयः ॥
आगतं नो मित्रबलं प्रहरध्वमभीतवत् ।
एवं ब्रूयाद्रणे प्राप्ते भग्ना भग्नाः परे इति ॥
क्ष्वेडाकिलकिलाशब्दमस्य शत्रुर्हतस्तथा ।
देवाज्ञाबृंहितो राजा सन्नद्धः समरं प्रति ॥
एवम्प्रकारा द्विजवर्य मायाः कार्या नरेन्द्रैररिषु प्रहृष्टैः ।
मायाहतः शत्रुरथ प्रशक्यः सङ्ख्ये सुखं हन्तुमदीनसत्त्वः॥इति।
इति माया ।
अथेन्द्रजालम् ।
तच्च मन्त्रतन्त्रादिना अन्यथास्थितस्यार्थस्यान्यथावभासः ।
३९
३०६ वीरमित्रोदयस्य राजनीतिप्रकाशे
विष्णुधर्मोत्तरे,
पुष्कर उवाच ।
चतुरङ्गं बलं राजा इन्द्रजालेन दर्शयेत् ।
सहायार्थमनुप्राप्तान्दर्शयेत्त्रिदिवौकसः ॥
रक्तवृष्टिश्च सन्दर्श्या परेषां शिविरं प्रति ।
छिन्नानि रिपुशीर्षाणि प्रासादाग्रेषु दर्शयेत् ॥
आधित्सता सन्धिमहीन सत्त्वात्कार्यं भवेद्राम महेन्द्रजालम् ।
वक्ष्यामि तेऽन्योपनिषत्सु तुल्ययोगानि चान्यानि जयावहानि॥ इति।
इतीन्द्रजालम् ।
एवं सामादयः सप्तोपाया निरूपिताः । अधुना “मन्त्रमूल-
मिदं राज्यम्”इत्यादिवचनैर्मन्त्रस्य प्राशस्त्येन मन्त्रो निरूप्यते ।
तत्र—
अग्निपुराणे,
राम उवाच ।
प्रभावोत्साहशक्तिभ्यां मन्त्रशक्तिः प्रशस्यते ।
प्रभावोत्साहवान् काव्यो जितो देवपुरोधसा ॥
मन्त्रयेतैह कर्माणि नाऽनाप्तैर्नाविपश्चिता ।
अशक्यारम्भवृत्तीनां कुतः क्लेशादृते फलम् ॥
अविज्ञातस्य विज्ञानं विज्ञातस्य च निश्चयः ।
अर्थद्वैधस्य सन्देहच्छेदनं शेषदर्शनम् ॥
सहायाः साधनोपाया विभागो देशकालयोः ।
विपत्तेश्च प्रतीकारः पञ्चाङ्गो मन्त्र इष्यते ॥
मनःप्रसादः श्रद्धा च तथा करणपाटवम् ।
सहायोत्थानसम्पच्च कर्मणां सिद्धिलक्षणम् ॥ इति
मन्त्रः । ३०७
श्रीरामायणेऽपि,
त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः ।
तेषां तु समवेतानां गुणदोषान् वदाम्यहम् ॥
मन्त्रिभिर्मन्त्रसंयुक्तैः समर्थैर्मन्त्रनिश्चये ।
मित्रैर्वातिसमानार्थैर्बान्धवैश्चातिवाहितैः ॥
समानार्थैः, समानप्रयोजनैः ।
मन्त्रिभिर्मन्त्रयित्वा यः कर्मारम्भे प्रवर्तते ।
तत्रैव कुरुते यत्नं तमाहुः पुरुषोत्तमम् ॥
एकोऽर्थं विमृशत्येको धर्मे प्रकुरुते मतिम् ।
एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम् ॥
गुणदोषावानिश्चित्य त्यक्तधर्मव्यपाश्रयः ।
करिष्यामीत्युपेक्षेत यः कार्यं स नराधमः ॥
यथैव पुरुषा नित्यमुत्तमाधममध्यमाः ।
एवं मन्त्रोऽपि विज्ञेय उत्तमाधममध्यमः ॥
ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा ।
मन्त्रिणां मन्त्रनियमस्तमाहुर्मन्त्रमुत्तमम् ॥
बह्व्यस्तु मतयो भूत्वा मन्त्रिणामर्थसिद्धये ।
पुनर्यत्रैकतां यान्ति स मन्त्रो मध्यमः स्मृतः ॥
अन्योन्यं मतिमास्थाय यत्र सम्प्रतिपद्यते ।
न चैकमत्ये श्लेषोऽस्ति स मन्त्रोऽधम उच्यते ॥
अर्थानर्थौ हि यत्रोभौ संशयश्च परीक्ष्यते ।
स मन्त्र इति विज्ञेयः शेषस्तु खलु विक्रमः ॥ इति ।
विष्णुधर्मोत्तरे,
नैकस्तु मन्त्रयेन्मन्त्रं न राजा बहुभिः सह ।
बहुभिर्मन्त्रयेत्कामं राजा मन्त्रान् पृथक् पृथक् ॥ इति ।
३०८ वीरमित्रोदयस्य राजनीतिप्रकाशे
एकः, स्वयम् । बहुभिः, त्र्यधिकैः । अत्र स्वस्यैकस्य मन्त्र-
निषेधात्स्वभिन्नेनैकेन द्वाभ्यां वा सह मन्त्रः कार्यः । यदि बहु-
भिः सह मन्त्रयेत् तदा पृथक् पृथगित्यर्थः । तेन मन्त्रः सुरक्षितो
भवति । अत एव—
याज्ञवल्क्यः,
मन्त्रमूलमिदं राज्यमतो मन्त्रं सुरक्षितम् ।
कुर्याद्यथाऽस्य न विदुः कर्मणामाफलोदयात् ॥ इति ।
मन्त्रमूलानां कर्मणामाफलोदयात्परेभ्यो मन्त्रं सुरक्षितं
कुर्यात् ।
मनुरपि,
यस्य मन्त्रं न जानन्ति समागत्य पृथग्जनाः ।
स कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनोऽपि पार्थिवः ॥ इति ।
अग्निपुराणेऽपि,
गुप्तमन्त्रो भवेद्राजा आपदोऽगुप्तमन्त्रतः ।
मदः प्रमादः कामश्च सुप्तप्रलपितानि च ॥
भिन्दन्ति मन्त्रं प्रच्छन्नाः कामिन्योऽवमतास्तथा । इति ।
मत्स्यपुराणेऽपि,
बहुभिर्मन्त्रयेन्मन्त्रं राजा कामं पृथक् पृथक् ।
मन्त्रिणामपि नो कुर्यान्मन्त्रिमन्त्रप्रकाशनम् ॥
क्वचित्कश्चिच्च विश्वास्यो भवतीह सदा नृणाम् ।
निश्चयस्तु सदा मन्त्रे कार्य एकेन सूरिणा ॥
भवेद्वा निश्चयावाप्तिः परबुद्ध्युपजीवनात् ।
एकस्यैव महीभर्तुर्भूयःकार्यविनिश्चये ॥
ब्राह्मणान् पर्युपासीत त्रयीशास्त्रसुनिश्चितान् ।
नासच्छास्त्रवतो मूढांस्ते हि लोकस्य कण्टकाः ॥ इति ।
मन्त्रः । ३०९
विष्णुधर्मोत्तरेऽपि,
राज्ञा संवृतमन्त्रेण सदा भाव्यं द्विजोत्तम ।
तस्यासंवृतमन्त्रस्य ज्ञेयाः सर्वापदो ध्रुवाः ॥
कृतान्येव हि कर्माणि ज्ञायन्ते यस्य भूपतेः ।
नारब्धानि महाभाग तस्य स्याद्वसुधा वशे ॥
मन्त्रमूलं सदा राज्यं तस्मान्मन्त्रः सुरक्षितः ।
कर्त्तव्यः पृथिवीपालैर्मन्त्रभेदभयात्सदा ॥
मन्त्रवत्साधितो मन्त्रः सङ्घातानां सुखावहः ।
मन्त्रच्छलेन बहवो विनष्टाः पृथिवीक्षितः ॥
आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च ।
नेत्रवक्त्रविकाराभ्यां गृह्यतेऽन्तर्गतं मनः ॥
न यस्य कुशलैस्तस्य वशे सर्वा वसुन्धरा ।
भवतीह महीभर्तुः सदा भार्गवनन्दन ॥ इति ।
मन्त्रे जडादीनां निषेधमाह —
मनुः,
जडमूकन्धबधिरांस्तैर्यग्योनान् वयोऽतिगान् ।
स्त्रीम्लेच्छव्याधितव्यङ्ग्यान्मन्त्रकाले प्रसेधयेत् ॥
जडो, बुद्धिहीनः । तैर्यग्योनाः, शुकसारिकादयः ।
वयोऽतिगा, अतिवृद्धाः । म्लेच्छः, अव्यक्तवाक् । क्लीब इति
क्वचित्पाठः ।
भिन्दन्त्यवमता मन्त्रं तैर्यग्योनास्तथैव च ।
स्त्रियश्चैव विशेषेण तस्मात्तत्रादतो भवेत् ॥ इति ।
आदतः, शङ्कितः ।
श्रीरामायणे,
अनभिज्ञाय शास्त्राणि बहवः पशुबुद्धयः ।
३१० वीरमित्रोदयस्य राजनीतिप्रकाशे
प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः ॥
मन्त्रिरूपा हि रिपवः सम्भाव्यास्ते विचक्षणैः ।
ये हितोदयमुत्सृज्य विपरीतोपसेविनः ॥
अहितं हि हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः ।
अवेक्ष्या मन्त्रबाह्यास्ते कर्तव्याः कृतदूषणाः ॥
विनाशाय स्वभर्तुर्हि संहताः शत्रुभिर्बुधैः ।
विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः ॥ इति
निषिद्धान्तरमुक्तम्—
महाभारते,
मन्त्रभेदस्य यत्प्राज्ञो द्वाराणीमानि कल्पयेत् ।
अर्थसन्ततिकामश्च रक्षेदेतानि नित्यशः ॥
मदं स्वप्नमवज्ञानमाकारं चात्मसम्भवम् ।
दुष्टामात्येषु विश्रम्भं दूतं चाकुशलं तथा ॥ इति ।
तथा विष्णुधर्मोत्तरे,
न च मूर्खैर्न चानाप्तैस्तथा नाधार्मिकैर्नृपः ।
मन्त्रं तु स्वादितं कुर्याद्येन राष्ट्रे न धावति ॥
स्वादितम्, आस्वादितम् । न धावति, न प्रसरति ।
राज्ञां विनाशमूलस्तु कथितो मन्त्रविभ्रमः ।
नाशहेतुर्भवेन्मन्त्रः कुप्रयुक्तस्तु मन्त्रवत् ॥
मन्त्रे सुरक्षिते सिद्धिः कथिता पृथिवीक्षिताम् ।
क्रियमाणानि कर्माणि यस्य वेत्ति न कश्चन ॥
कृतान्येव विजानाति स राजा पृथिवीपतिः । इति ।
मन्त्रणयोग्या अमात्या उक्ता—
महाभारते,
मन्त्रनिश्चयतत्त्वज्ञाष्षाड्गुण्यगुणवेदिनः ।
मन्त्रः ३११
शक्तान् कुलोचितान् भक्ताननाक्षारितपूर्वकान् ॥
अनाक्षारितपूर्वकान्, अनपकृतपूर्वान् ।
नीतिज्ञान् व्यवहारज्ञानितिहासार्थकोविदान् ॥
इङ्गितज्ञानुपायज्ञान् शूरान् वीरान् कुलोद्गतान् ।
सर्वकार्येषु निपुणानिष्वस्त्रविधिपारगान् ॥
दुर्गयन्त्रविधानज्ञान् धर्मशास्त्रार्थपारगान् ।
अक्षुद्रान् क्षमिणः प्राज्ञाननागतविधायिनः ॥
आयत्यां प्रतिकारांस्तत्तदात्वे दृढनिश्चयान् ।
द्विषन्मित्राञ्युदासीनभावज्ञान् शंसितव्रतान् ॥
स्वभावगुप्तानचलानचलानिव भारत ।
धर्मशीलानकृपणांस्तथा सर्वोपधातिगान् ॥
उपधा, छद्म ।
धिया सर्वान् सम्परीक्ष्य राजा कुर्वीत मन्त्रिणः ।
येऽस्य राजधुरं वोढुं समर्थाः सद्गवा इव ॥
तैः समेत्य महीपालो गुप्तमन्त्रो जितेन्द्रियः ।
विद्यानां दर्शने यत्नमातिष्ठेद्भरतर्षभ ॥ इति ।
मन्त्रिभिर्यथा वक्तव्यं तदुक्तम्—
श्रीरामायणे,
यत्प्रियं च हितं चैव साधु धर्म्यं च सर्वशः ।
ब्रूयुस्तन्मन्त्रिणो वाक्यं मन्त्रमाणे विशेषतः ॥
प्राप्ते कार्ये शरीरं तु नेतुं स्वां गुणसम्पदम् ।
प्रियमेव हि वक्तव्यं हितमेव हि मन्त्रिणा ॥
सुलभाः पुरुषा राजन्सततं प्रियवादिनः ।
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ इति ।
मन्त्रोत्तरं स्वयमेकाकिना विचार्यमित्युक्तम्—
३१२ वीरमित्रोदयस्य राजनीतिप्रकाशे
विष्णुधर्मोत्तरे,
पृथक् च मन्त्रिभिर्मन्त्रः कृतो वै संहतैः पुनः ।
विचार्य आत्मना साधु पश्चात्तत्र समाश्रयेत् ॥
प्रज्ञाभिमानी नृपतिर्न मन्त्रिवचने रतः ।
क्षिप्रं विनाशमायाति तडागमिव काजलम् ॥
आकारगूहनै राज्ञो मन्त्ररक्षा परा मता ।
आकारैरिङ्गितैः प्राज्ञा मन्त्रं चोहन्ति पण्डिताः ॥
सञ्चराणां च वैद्यानां मन्त्रिणां वचने रतः ।
राजा विभूतिमाप्नोति चिरं यशसि तिष्ठति ॥ इति ।
इति मन्त्रः ।
अथ पौरुषम्
तत्र याज्ञवल्क्यः,
दैवे पुरुषकारे च कर्मसिद्धिव्यवस्थिता ।
तत्र दैवमभिव्यक्तं पौरुषं पौर्वदेहिकम् ॥
दैवं पौर्वदेहिकमिति सम्बन्धः ।
के१चिद्देवाद्धठात्केचित्केचित्पुरुषकारतः ।
सिद्ध्यन्त्यर्था मनुष्याणां तेषां योनिस्तु पौरुषम् ॥
यथा ह्येकेन चक्रेण रथस्य न गतिर्भवेत् ।
एवं पुरुषकारेण विना दैवं न सिद्ध्यति ॥ इति ।
मनुरपि,
सर्वं कर्मेदमायत्तं विधाने दैवमानुषे ।
१ केचिद्देवात्स्वभावाद्वा कालात्पुरुषकारतः ।
संयोगे केचिदिच्छन्ति फलं कुशलबुद्धयः ॥ इति विज्ञाने-
श्वरसम्मतः पाठः ।
दैवपौरुषयोः पौरुषस्य श्रेष्ठत्वम् । ३१३
तत्र दैवमचिन्त्यं तु मानुषे विद्यते क्रिया ॥
दैवमानुषसम्पन्ना यात्रा सर्वार्थसाधिका ।
तस्यामतिशयेद्दैवं वर्तते पौरुषं समम् ॥
केचित्पुरुषकारेण केचिद्दैवेन कर्मणा ।
उभाभ्यां केचिदिच्छन्ति फलं कुशलबुद्धयः ॥
दैवमानुषसद्भावे नार्या गर्भः प्रसिद्ध्यति ।
पुंसा सत्यपि संयोगे दैवाभावे न सिद्ध्यति ॥
न हि दैवमुदासीनं कदाचिदपि मानवम् ।
अर्थानर्थफलं नेह संयुनक्त्यवशं हि तत् ॥
काकतालीयवद्दैवाद्दृष्ट्वापि निधिमग्रतः ।
न पौरुषाहते तेन निधिना युज्यते पुमान् ॥ इति ।
मत्स्यपुराणविष्णुधर्मोत्तरयोरपि,
मनुरामावूचतुः ।
दैवे पुरुषकारे च किं ज्यायस्तद्ब्रवीहि मे ।
अत्र मे संशयो देव संशयच्छिद्भवांस्तथा ॥
मत्स्यपुष्करावूचतुः ।
स्वमेव कर्म दैवाख्यं विद्धि देहान्तरार्जितम् ।
तस्मात्पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ॥
प्रतिकूलं तथा दैवं पौरुषेण विहन्यते ।
मङ्गलाचारयुक्तानां नित्यमुत्थानशालिनाम् ॥
येषां पूर्वकृतं कर्म सात्त्विकं मनुजोत्तम ।
पौरुषेण विना तेषां केषाञ्चिद्दृश्यते फलम् ॥
कर्मणा प्राप्यते लोके राजसस्य तथा फलम् ।
१ इत आरभ्य 'न पौरुषाहते' इत्यन्तानि पद्यानि मुद्रितमनु-
पुस्तके नोपलभ्यन्ते ।
४०
३१४ वीरमित्रोदयस्य राजनीतिप्रकाशे
कृच्छ्रेण कर्मणा विद्धि तामसस्य तथा फलम् ॥
पौरुषेणाप्यते राजन् मार्गितव्यं फलं नरैः ।
दैवमेव न जानाति नरः पौरुषवर्जितः ॥
तस्माद्धि कालसंयुक्तं दैवं तु सफलं भवेत् ।
पौरुषं दैवसम्पत्त्या काले फलति पार्थिव ॥
दैवं पुरुषकारश्च कालश्च मनुजेश्वर ।
त्रयमेतन्मनुष्यस्य पिण्डितं स्यात्फलावहम् ॥
कृषिवृष्टिसमायोगाद्दृश्यन्ते फलसिद्धयः ।
तास्तु काले प्रदृश्यन्ते नैवाकाले कथञ्चन ॥
कल्पतरौ तु—
वर्षाकाले प्रदृश्यन्ते नैवाकाले कथञ्चन-इतिपाठः ।
तस्मात्सदैव कर्त्तव्यं सधर्मं पौरुषं नृभिः ।
विपत्तावपि यस्येह परलोके ध्रुवं फलम् ॥
नालसाः प्राप्नुवन्त्यर्थान्न च दैवपरायणाः ।
तस्मात्सर्वप्रयत्नेन पौरुषे यत्नमाचरेत् ॥
त्यक्तालसान्दैवपरान् मनुष्यानुत्थानयुक्तान् पुरुषान् हि लक्ष्मीः ।
अन्विष्य यत्नाद्वृणुते नृपेन्द्र तस्मात्सदोत्थानवता हि भाव्यम्॥ इति।
श्रीरामायणेऽपि,
यस्तु नारभते कार्यं नरो दैवपरायणः ।
क्षिप्रं भवति निर्द्रव्यः पलायनपरायणः ॥
तथा,
विक्लवो हीनवीर्यो यः स दैवमनुवर्त्तते ।
अविक्लवस्तु तेजस्वी न दैवमनुवर्त्तते ॥
दैवं पुरुषकारेण यतते यः प्रवाधितुम् ।
न स दैवविपन्नार्थः कदाचिदवसीदति ॥ इति ।
राजपुत्रस्य रक्षा । ३१५
दैवस्य नामान्तराण्याह—
व्यासः,
विधिर्विधानं नियतिः स्वभावः कालो ग्रहा ईश्वरकर्म दैवम् ।
भाग्यानि पुण्यानि कृतान्तयोगः पर्यायनामानि पुराकृतस्य ॥ इति ।
द्वयोः स्वरूपमाह—
स एव,
दैवमात्मकृतं विद्यात्कर्म यत्पौर्वदेहिकम् ।
स्मृतः पुरुषकारस्तु क्रियते यदिहापरम् ॥ इति ।
इति पौरुषम् ।
अथ राजपुत्ररक्षा ।
तत्र मत्स्यपुराणे,
राजन् पुत्रस्य रक्षा च कर्त्तव्या पृथिवीक्षिता ।
आचार्यश्चापि कर्त्तव्यो नित्ययुक्तैश्च रक्षिभिः ॥
धर्मकामार्थशास्त्राणि धनुर्वेदं च शिक्षयेत् ।
रथे च कुञ्जरे चैनं व्यायामं कारयेत्सदा ॥
शिल्पानि शिक्षयेच्चैनं नाप्तैर्भिन्द्या प्रियं वदेत् ।
शरीररक्षाव्याजेन रक्षिणोऽस्य नियोजयेत् ॥
न चास्य सङ्गो दातव्यः क्रुद्धलुब्धावमानितैः ।
तथा च विनयेदेनं यथा यौवनगो मुखे ॥
इन्द्रियैर्नापकृष्येत सतां मार्गात्सुदुर्गमात् ।
यौवनगः, प्राप्तयौवनः । मुखे, आदौ ।
गुणाधानमशक्यं तु यस्य कर्तुं स्वभावतः ॥
बन्धनं तस्य कर्त्तव्यं गुप्तदेशे शुभान्वितम् ।
गुप्तदेश इत्यनेन दुष्टप्रवेशनिषेधः । शुभान्वितमित्यनेन शा-
३१६ वीरमित्रोदयस्य राजनीतिप्रकाशे
शरीरदुःखनिषेधः, अवश्यापेक्षितस्नानभोजनवस्त्रताम्बूलादिदानं
बोध्यते । सुखान्वित इति पाठे देशविशेषणं तत् ।
अविनीतकुमारं हि कुलमाशु विशीर्यते ॥ इति ।
एवं विनीतस्वाधिकारसमर्पणे प्रकार उक्तः —
तत्रैव,
अधिकारेषु सर्वेषु विनीतं विनियोजयेत् ।
आदौ स्वल्पे ततः पश्चात् क्रमेण च महत्स्वपि ॥ इति ।
पुत्रविनयस्य फलमुक्तम्—
महाभारते,
नैव स्वैररिभिर्वापि ग्रस्यते पुत्रवान्नृपः ।
तस्माद्राजा सदा पुत्रं संरक्षेच्छिक्षयीत च ॥
अमात्यैरात्मसदृशै राजपुत्रस्य रक्षणम् ।
चारैश्च विविधोपायैः प्रविधेयं पृथग्विधैः ॥ इति ।
इति राजपुत्ररक्षा ।
अथ सन्ध्यादिचिन्ता ।
तत्र मन्त्रिण इत्यनुवृत्तौ—
मनुः,
तैः सार्द्धं चिन्तयेन्नित्यं सामान्यं सन्धिविग्रहम् ।
स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ॥
तैः, मन्त्रिभिः। चिन्तयेत्, राजेति शेषः। सन्धिः, पणबन्धः ।
विग्रहः, वैर्यवस्कन्दः। स्थानं, सैन्यकोशपुरराष्ट्रभेदेन चतुर्विधम्।
समुदयः, कृषिव्रजवनगुल्मस्थानवणिक्पशुशुल्कदण्डादिः। गुप्तिः,
राष्ट्रादिरक्षा । लब्धप्रशमनं, देवताश्रमविद्यावतां धार्मिका-
णां दानमानसम्मानयोगः । अत्र सामान्यं सन्धिविग्रहमित्यु-
पादानात्सामान्यतः सन्धिविग्रहचिन्ता । विशेषतस्तु षाड्गुण्य-
प्रकरणे वक्ष्यते ।
मध्यन्दिने चे १ रात्रौ वा विश्रान्तो विगतक्लमः ।
चिन्तयेद्धर्मकामार्थान् सार्द्धं तैरेक एव वा ॥
परस्पराविरुद्धानां तेषां च समुपार्जनम् ।
कन्यानां सम्प्रदानं च कुमाराणां च रक्षणम् ॥
तेषां, धर्मार्थकामानां बहुधा विरोधवताम् । समुपार्जनम्,
सम्यगविरोधेन उपार्जनमुत्पादनम् ।
दूतसम्प्रेषणं चैव कार्यशेषं तथैव च ।
अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम् ॥
प्रणिधयः, चाराः ।
कृत्स्नं चाष्टविधं कर्म पञ्चवर्गं च यत्नतः ।
अनुरागापरागौ च प्रचारं मण्डलस्य च ॥
अष्टविधं कर्म उशनसोक्तम्—
आदाने च विसर्गे च तथा प्रेषनिषेधयोः ।
पञ्चमे चार्थवचने व्यवहारस्य चेक्षणे ॥
दण्डशुद्धौ तथा युक्त आत्मशुद्धौ तथैव च ।
अष्टकर्मा दिवं याति राजा शक्राभिपूजितः ॥ इति ।
आदानं, करादिग्रहणम् । विसर्गः, पारितोषिकदानम् ।
प्रेषः, प्रेषणं भृत्यादीनाम् । अर्थवचनं,द्रव्यार्जनोपायः । अनुव-
चनमिति क्वचित्पाठः । अनुवचनं, कार्यसन्देहे राजाज्ञा । दण्ड-
{ः, शास्त्रोक्तदण्डप्रणयनम् । आत्मशुद्धिः, प्रायश्चित्तम् ।
दण्डशुद्ध्योः समायुकस्तेनाष्टगणिको नृपः। इति क्वचित्पाठः।
१ ऽर्धरात्रे इति मुद्रितमनौ पाठः ।
३१८ वीरमित्रोदयस्य राजनीतिप्रकाशे
मेधातिथिस्तु-अकृतारम्भः, कृतानुष्ठानम्, अनुष्ठितविशेष-
णं, सामादयश्चत्वारः, एतदष्टविधं कर्माह । पञ्चवर्गः, पञ्चप्रका-
राणां चराणां समूहः । पञ्चप्रकारा यथा, श्रद्धेयदेशविशेषशि-
ल्पिभाषादिविदो जनाः । तथा, कुब्जवामनकिरातमूकबधि-
रजडान्धादिच्छद्मिनः । तथा, नटनर्तकगायनादयः । तथा, श्रम-
णादयः । प्रचेताः पञ्चवर्गमन्यथाह—
सहायाः साधनोपाया विभागो देशकालयोः ।
विपत्तेश्च प्रतीकारः सिद्धिः पञ्चाङ्गमिष्यते ॥ इति ।
सिद्धिः, कार्यसिद्धिः । अपरागो, विरागः । मन्त्रिपुरोहि-
१ कुल्लूकभट्टीये तु—'कापटिकोदास्थितगृहपतिवैदेहिकताप-
सव्यञ्जनात्मकं पञ्चविधं चारवर्गशब्दवाच्यं तत्त्वतश्चिन्तये-
त् । तत्र परमर्मज्ञः प्रगल्भश्छात्रः कपटव्यवहारित्वात्काप-
टिकः, तं वृत्त्यर्थिनमर्थमानाभ्यामुपगृह्य रहसि राजा ब्रूयात्,
यस्य दुर्वृत्तं पश्यसि तत्तदानीमेव मयि वक्तव्यमिति । प्रव्रज्यारूढप-
तित उदास्थितः, तं लोकेषु विदितदोषं प्रज्ञाशौचयुक्तं वृत्त्यर्थिनं कृ-
त्वा रहसि राजा पूर्ववद्ब्रूयात्, बहुत्पत्तिकमठे स्थापयेत्प्रचुरसस्यो-
त्पत्तिकं भूम्यन्तरं च तद्वृत्त्यर्थमुपकल्पयेत्, स चान्येषामपि प्रव्र-
जितानां राजचारकर्मकारिणां ग्रासाच्छादनादिकं दद्यात् । कर्ष-
कः क्षीणवृत्तिः प्रज्ञाशौचयुक्तो गृहपतिव्यञ्जनस्तमपि पूर्ववदु-
क्त्वा स्वभूमौ कृषिकर्म कारयेत् । वाणिजकः क्षीणवृत्ति-
र्वैदेहिकव्यञ्जनस्तं पूर्ववदुक्त्वा धनमानाभ्यामात्मीकृत्य वा-
णिज्यं कारयेत् । मुण्डो जडिलो वा वृत्तिकामस्तापसव्यञ्जनः सोऽ-
पि कचिदाश्रमे वसन् बहुमुण्डजटिलान्तरे कपटशिष्यगणवृतो
गुप्तराजोपकाल्पितवृत्तिस्तापस्यं कुर्यात्, मासद्विमासान्तरितं प्रका-
शं बदरादिमुष्टिमश्नीयात्, रहसि च राजोपकाल्पितमाहारं कल्प-
येत्, शिष्याश्चास्यातीतानागतज्ञानं ख्यापयेयुः, ते च बहुलोक-
वेष्टनमासाद्य सर्वेषां विश्वसनीयत्वात्सर्वकार्यमकार्यं च पृच्छन्ति
अन्यस्य कुक्रियादिकं च कथयन्ति' इत्येवं पञ्च प्रकारा दर्शिताः ।
द्वादशराजमण्डलम् । ३१९
तसेनापतियुवराजदौवारिकादीनामनुरागविरागौ चारादिभ्यो
बोद्धव्यावित्यर्थः ।
मनुः,
उपेतारमुपायं च सर्वोपायांश्च कृत्स्नशः ।
एतत्त्रयं समाश्रित्य प्रयतेतात्मसिद्धये ॥ इति ।
उपेतारम्, उपायप्रयोक्तारमात्मानम् । उपेयम्, उपाय-
साध्यं शत्रुम् ।
इति सन्ध्यादिचिन्ता ।
अथ द्वादशराजमण्डलम् ।
विष्णुधर्मोत्तरे,
राम उवाच ।
किन्नु कृत्यतमं राज्ञस्तन्ममाचक्ष्व पृच्छतः ।
राज्यतन्त्रं कथं राज्ञा पालनीयं विपश्चिता ॥
पुष्कर उवाच ।
सप्ताङ्गस्य तु राज्यस्य भाव्यं युक्तेन भूभृता ।
एतावदेव कर्त्तव्यं राज्ञा तन्त्रं भृगूत्तम ॥ इति ।
सप्ताङ्गान्युक्तानि—
तत्रैव,
· साम दानं तथा दुर्गं कोशो दण्डस्तथैव च ।
मित्रं जनपदश्चैव राज्यं सप्ताङ्गमुच्यते ॥ इति ।
मनुः,
सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम् ।
पूर्वं पूर्वं गुरुतरं जानीयाद्व्यसनं नृपः ॥
प्रकृतीनाम्, अङ्गानाम् । व्यसनं, व्यसनकारणम्, दोषव-
दिति शेषः ।
३२० वीरमित्रोदयस्य राजनीतिप्रकाशे
सप्ताङ्गस्यास्य राज्यस्य विष्टब्धस्य त्रिदण्डवत् ।
अन्योन्यगुणवैशेष्यान्न किञ्चिदतिरिच्यते ॥
तेषु तेषु हि कृत्येषु तत्तदङ्गं विशिष्यते ।
येन यत्साध्यते कार्यं तत्तस्मिञ्छ्रेष्ठमुच्यते ॥ इति ।
विष्णुधर्मोत्तरे तु विशेषः ।
सप्ताङ्गस्यास्य राज्यस्य विघ्नकर्तॄन् विवासयेत् ।
अहितान् घातयेद्राजा क्षिप्रमेवाविचारयन् ॥
सप्ताङ्गस्य तु राज्यस्य वृद्धिः कार्या स्वमण्डले ।
मण्डलेषु च सर्वेषु कषणीया महीक्षिता ॥ इति ।
कषणीयाः, परीक्षणीयाः, अमात्यादय इति शेषः । मण्ड-
लस्य द्वादश प्रकृतीराह—
मनुः,
मध्यमस्य प्रचारं च विजिगीषोश्च चेष्टितम् ।
उदासीनप्रचारं च शत्रोश्चैव प्रयत्नतः ॥
एताः प्रकृतयो मूलं मण्डलस्य समासतः ।
एतस्मिन् राजमण्डल इमाश्चतस्रो राजप्रकृतयो भवन्ति
विजिगीषुररिर्मध्यम उदासीन इति । विजेतुमभ्युद्यतो विजि-
गीषुः । अरिस्तु त्रिविधः—सहजः कृत्रिमः स्वभूम्यनन्तर इति ।
मध्यमः, अरिविजिगीष्वोरसंहतयोर्निग्रहे समर्थः । तदुक्तम्—
अखिलो मण्डलार्थस्तु यस्मिन् ज्ञेयः स मध्यमः । इति ।
अखिलः, अर्थाद्विजिगीषुयातव्ययोः । मण्डलार्थः, मण्डल-
प्रयोजनं, यस्मिन् स मध्यमो ज्ञेयः । उदासीनः, अरिविजिगीषु-
मध्यमानामसंहतानां निग्रहसमर्थः । तदुक्तम्—
विकृष्टेऽध्वन्यनायत्त उदासीनो बलान्वितः । इति ।
विकृष्टेऽध्वनि, अरिमित्रापेक्षया विप्रकृष्टे स्थले । अनायत्त:,
द्वादशराजमण्डलम् । ३२१
त्रयाणामप्यनधीनः । मध्यमोदासीनयोर्लक्षणे विष्णुधर्मोत्तरे
स्पष्टमभिधास्येते ।
अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः ॥
विजिगीषुमित्रमरिमित्रं विजिगीषुमित्रमित्रमरिमित्रमित्रं चेति
अन्याश्चतस्रः प्रकृतयः पूर्वतः। यस्यां दिश्यरिः सैव पूर्वा। पार्ष्णि-
ग्राहः, आक्रन्दः, पार्ष्णिग्राहासारः, आक्रन्दासारश्चेति चतस्रः
प्रकृतयः पश्चात् इत्यष्टौ, आद्याश्चतस्र इति द्वादश। तथा चोक्तम्-
विष्णुधर्मोत्तरे,
अधिकृत्याभियोज्यं तु तत्रापि शृणु कल्पनाम् ।
अभियोज्यः स्मृतः शत्रुस्तस्यापि च प्रतीक्षिता ॥
तस्य, अरेः । प्रतीक्षिता, सेवकः । तदुक्तम्-
मनुना,
अनन्तरमरिं विद्यादरिसेविनमेव च । इति ।
तत्परस्तु सुहृज्ज्ञेयो रिपुमित्रमतः परम् ।
स्वमित्रमित्रं तत्पश्चान्मित्रमित्रं रिपोस्तथा ॥
एतत्पुरस्तात्कथितं पश्चादपि निबोध मे ।
पार्ष्णिग्राहः स्थितः पश्चात्ततस्त्वाक्रन्द उच्यते ।
आसारस्तु ततोऽप्यन्यस्त्वाक्रन्दासार उच्यते ॥
आसारः, पार्ष्णिग्राहासारः ।
जिगीषोः शत्रुयुक्तस्य वियुक्तस्य तथा द्विज ।
निग्रहानुग्रहे शक्तो मध्यमः परिकीर्तितः ॥
निग्रहानुग्रहे शक्तः सर्वेषामपि यो भवेत् ।
उदासीनः स कथितो बलवान् पृथिवीपतिः ॥
एतावदेव ते प्रोक्तं राम द्वादशराजकम् ।
नात्रापि निश्चयः शक्यो वक्तुं मनुजपुङ्गव ।
४१
३२२ वीरमित्रोदयस्य राजनीतिप्रकाशे
नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते ॥
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ।
सामर्थ्ययोगात् कारणात् ।
त्रिविधा रिपवः प्रोक्ताः कुल्यानन्तरकृत्रिमाः ।
पूर्वः पूर्वो गुरुस्तेषां दुश्चिकित्स्यतमो मतः ॥
अनन्तरोऽपि यः शत्रुः सोऽपि मे कृत्रिमो मतः ।
पार्ष्णिग्राहो भवेद्राजा शत्रुमित्राभियोगिनः ॥
पार्ष्णिग्राहमुपायैस्तु शमयेच्च तथा स्वकम् ।
मित्रेण शत्रोरुच्छेदं प्रशंसन्ति पुरातनाः ॥
मित्रं हि शत्रुतामेति सामन्तत्वादनन्तरम् ।
शत्रुं जिगीषुरुच्छिन्द्यात्स्वयं शक्नोति चेद्यदि ॥
प्रतापवृद्धौ तेनास्य न मित्राज्जायते भयम् ।
नान्यथा पृथिवी जेतुं शक्या राम जिगीषुणा ॥
महाभारते,
विजिगीषोररिमित्रमरेर्मित्रमतः परम् ।
मित्रमित्रं शत्रुमित्रमित्रं ज्ञेयं पुरःसरम् ॥
पार्ष्णिग्राहस्तथाक्रन्दः पार्ष्ण्यासारश्च पृष्ठतः ।
आक्रन्दासार शांतं च ज्ञेयं मण्डलचिन्तकैः ॥
पार्ष्णिग्राहाभिसारं च पार्ष्णिग्राहं च विग्रहे ।
राजाक्रन्दाभिसारेण तथाऽऽक्रन्देन वर्द्धयेत् ॥
वर्द्धयेत्, छेदयेत् ।
विरोधयेच्छत्रुमित्रं मित्रमित्रमरेस्तथा ।
मित्रेण मित्रमित्रेण मध्यमत्वाभिवाञ्छकः ॥
मन्त्रप्रभूत्साहशक्तीः पालयेद्बलवान्नृपः ।
अत्र यद्यपि मध्यमोदासीनौ नोक्तौ तथापि मन्वाद्येकवा-