सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

२०८ वीरमित्रोदयस्य राजनीतिप्रकाशे
लिकानां च ।
शराणामथ खङ्गानां कवचानां तथैव च ।
लगुडानां गुडानां च हुडानां परिघैः सह ॥
अश्मनां च प्रभूतानां मुद्गराणां तथैव च ।
त्रिशूलानां पट्टिशानां कणपानां च पार्थिव ॥
प्रासानां च सशूलानां शक्तीनां च नरोत्तम ।
परस्वधानां चक्राणां वर्मणां चर्मभिः सह ॥
कुद्दालरज्जुवेत्राणां पीठकानां तथैव च ।
हिंसकानां च दात्राणामङ्गाराणां च सञ्चयः ॥
सर्वेषां शिल्पिभाण्डानां सञ्चयश्चात्र शिष्यते ।
वादित्राणां च सर्वेषामौषधीनां तथैव च ॥
यवसानां प्रभूतानामिन्धनस्य च सञ्चयः ।
गुडस्य सर्वतैलानां गोरसानां तथैव च ॥
वसानामथ मज्जानां स्नायूनामस्थिभिः सह ।
गोचर्मपटहानां च धान्यानां सर्वतस्तथा ॥
सर्वतः, सर्वेषाम् ।
तथैवाभ्रपटानां च यवगोधूमयोरपि ।
शणसर्जरसं भूर्जं जतु लाक्षा च टङ्कणम् ॥
अभ्रम्, अभ्रकसंज्ञको धातुविशेषः ।
राजा सञ्चिनुयाद्दुर्गे यच्चान्यदपि किञ्चन ॥
कुम्भेष्वाशीविषाः कार्या व्यालसिंहादयस्तथा ।
मृगाश्च पक्षिणश्चैव रक्ष्यास्ते च परस्परम् ॥
स्थानानि च विरुद्धानां सुगुप्तानि पृथक् पृथक् ।
कर्त्तव्यानि महाभाग यत्नेन पृथिवीक्षिता ॥
१ तुषाणां चैव इति मुद्रितमात्स्ये पाठः ।

दुर्गे सङ्गाह्यान्तराणि । २०९
तथा,
मनुरुवाच ।
राजा रक्षारहस्यानि यानि दुर्गे निधापयेत् ।
कारयेद्वा महीभर्त्ता ब्रूहि तत्त्वानि तानि च ॥
मत्स्य उवाचेत्युपक्रम्य सङ्ग्राह्यान्तरमप्युक्तम्-
शिरीषौदुम्बरशमीबीजपूरं घृतप्लुतम् ।
क्षुद्योगः कथितो राजन्मासार्द्धस्य पुरातनैः ॥
शिरीषादिकं घृतप्लुतं भुक्तं सत् मार्द्धस्य पञ्चदशादिनात्म-
कपक्षरूपस्य क्षुद्योगः क्षुत्प्रशमनोपायः ।
नरं शस्त्रहतं प्राप्य तस्यास्थि अरणिर्भवेत् ।
कुल्माषवेणुना तत्र जनयेत्तु विभावसुम् ॥
गृहं त्रिरपसव्यं तु क्रियते यत्र पार्थिव ।
नान्योऽग्निर्ज्वलते तत्र नात्र कार्या विचारणा ॥
कार्पासास्थि भुजङ्गस्य तथा निर्मोचनं भवेत् ।
सर्पनिर्वासने धूपः प्रशस्तः सततं गृहे ॥
सामुद्रसैन्धवयवा विद्युद्दग्धा च मृत्तिका ।
तयानुलिप्तं यद्वेश्म नाग्निना दह्यते नृप ॥
दिवा च दुर्गे रक्ष्योग्निर्वाति वाते विशेषतः ।
तथा,
उक्तानि वाप्यनुक्तानि राजा द्रव्याण्यशेषतः ।
सुगुप्तानि पुरे कुर्याज्जनानां हितकाम्यया ॥
जीवकर्षभकाकोलमामलक्याटरूषकम् ।
१ अत्र 'कशेरुफलमूलानि इक्षुमूलं तथा विषम् । दूर्वा क्षीर-
घृतैर्मण्डः सिद्धोऽयं मासिकः परः' ॥ इति मुद्रितमात्स्येऽधिकं
वर्तते ।
२७

२१० वीरमित्रोदयस्य राजनीतिप्रकाशे
शालपर्णी पृश्निपर्णी मुद्गपर्णी तथैव च ॥
माषपर्णी च मेदे द्वे सारिवे द्वे बलात्रयम् ।
वीराश्वसन्ती वृष्णीया बृहती कण्टकारिका ॥
शृङ्गी शृङ्गाटकी द्रोणी वर्षाभूर्भद्ररेणुका ।
मधुपर्णी विदार्यौ द्वे महाक्षुद्रा महातपाः ॥
धन्वना सहदेवाह्वा कटुकैरण्डकं विषः ।
पर्णासनाह्वा मृद्वीका फल्गुखर्जूरयष्टिकाः ॥
शुकातिशुक्राश्मर्य्यच्छत्रातिच्छत्रवीरणाः ।
इक्षुरिक्षुविकाराश्च फाणिताद्याश्च सत्तम ॥
सिंही च सहदेवी च विश्वेदेवाटरूषकम् ।
मधुकं पुष्पहंसाख्या शतपुष्पा मधूलिका ॥
शतावरीमधूके च पिप्पलं तालमद्ये च ।
आत्मगुप्ता कट्फलाख्या दार्थिका राजशीर्षिका ॥
राजसर्षपधान्याकवृष्यनोक्ता तथोत्कटा ।
कालशाकं पद्मबीजं गोवल्ली मधुवल्लिका ॥
शीतपाकी कुलिशाक्षी काकजिह्वोरुपुष्पिका ।
एर्वारुत्रपुसौ चोभौ गुञ्जातक्रपुनर्नवे ॥
कशेरुका तु काश्मीरी विल्वशालूककेसरम् ।
शूकधान्यानि सर्वाणि शिम्बीधान्यानि चैव हि ॥
क्षीरं क्षौद्रं तथा चुक्रं तैलं मज्जा वसा घृतम् ।
निचोवारिष्टकाक्षोडा वाताममोरुशाणकम् ॥
एवमादीनि चान्यानि विज्ञेयो मधुरो गणः ।
१ वृष्या चेति मात्स्ये पाठः ।
२ पर्णी शताह्वा इति मात्स्ये पाठः ।
३ 'नीपश्चारिष्टकाक्षोडवातामसोमबाणकम्' इति मात्स्ये पाठः

दुर्गे सङ्ग्राह्यान्तराणि । २११
राजा सञ्चिनुयात्सर्वं पुरे निरवशेषतः ॥
दाडिमाम्रातकाम्रं च तिन्तिडीकाम्लवेतसम् ।
भव्यर्ककन्धुलकुचकरमर्दकरूपकम् ॥
बीजपूरककण्डूरे मालती राजबन्धुकम् ।
कोलकद्वयपर्णानि द्वयाराम्लकयोरपि ॥
आरेवतं नागरकं प्राचीनारुकमेव च ।
कपिलामलकं चुक्रा फलं दन्तशठस्य च ॥
जाम्बवं नवनीतं च सौवीरकतुषोदके ।
सुराऽऽसवं च मद्यानि मण्डतक्रदधीनि च ॥
शुक्तानि चैव सर्वाणि ज्ञेयान्यम्लगणानि च ।
एवमादीनि चान्यानि राजा सञ्चिनुयात्पुरे ॥
पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम् ।
कुबेरकं समरिचं शिग्रुभल्लातसर्षपाः ॥
कुष्ठाजमोदा किणिही हिङ्गुमूलकधान्यकम् ।
कारदी कुञ्चिका याज्या सुमुखा कालमालिका ॥
फणिज्जकोऽथ लशुनं भूस्तृणं सुरसं तथा ।
कायस्था च वयःस्था च हरितालं मनःशिला ॥
अमृता च रुदन्ती च रोहितं कुङ्कुमं तथा ।
यवासैरण्डकाण्डीरं शल्लकी हञ्जिका तथा ॥
सर्वपित्तानि मूत्राणि प्रायो हरितकानि च ।
फलानि चैव च तथा सूक्ष्मैला हिङ्गुपत्रिका ॥
१ अत्र मात्स्ये–'सैन्धवोद्भिदपाठेयपाक्यसामुद्रलोमकम्। कुप्य-
सौवर्चलबिडं बालकेयं यवाह्वकम् ॥ और्वं क्षारं कालभस्म विज्ञे-
यो लावणो गणः। एवमादीनि चान्यानि राजा सञ्चिनुयात्पुरे' ॥
इत्यधिकं वर्तते ।

२१२ वीरमित्रोदयस्य राजनीतिप्रकाशे
एवमादीनि चान्यानि गणः कटुकसंज्ञितः ।
राजा सञ्चिनुयाद्दुर्गे प्रयत्नेन नृपोत्तम ॥
मुस्तचन्दनह्रीबेरकृतमालकदारवः ।
हरिद्रानलदोशीरनक्तमालकदम्बकम् ॥
दूर्वा पटोलकटुका दीर्घत्वक् चूतकं वचा ।
किरातातिक्तकं निम्बं विषा चातिविषा तथा ॥
तालीसपत्रं तगरं सप्तपर्णविकङ्कताः ।
काकोदुम्बरिकोदीच्यमुपवीकृमिहिंसकाः ॥
षड्ग्रन्था रोहिणी मांसी पर्पटश्चाथ दन्तिका ।
रसाञ्जनं भृङ्गराजं पेणासं परिपेलवम् ॥
दुःस्पर्शा गुरुणी कामा श्यामाकं कङ्कुनाकुली ।
तुपपर्णी व्याघ्रनखमम्वष्ठा चतुरङ्गुला ॥
रम्भा चैवाङ्कुरास्फोटा तालास्फोटा हरेणुका ।
वेत्राग्रवेतसस्तुम्बी विषाणी लोहपँअरा ॥
मालती करतिक्ताख्या वृषाङ्गी जिह्विका तथा ।
पर्पटं च गुडूची च स गणस्तिक्तसंज्ञकः ॥
एवमादीनि चान्यानि राजा सञ्चिनुयात्पुरे ।
अभयाममलकौ चोभौ तथैव च विभीतकम् ॥
प्रियङ्गुधातकीपुष्पं मोचालोध्रार्जुनासनाः ।
अनन्ता स्त्री सुरानङ्गा स्योनाकं कट्फलं तथा ॥
भूर्जपत्रशिलोद्भेदपाटला पङ्कलाष्टकम् ।
१ पतङ्गी इति मात्स्ये पाठः ।
२ गन्धनाकुली इति मात्स्ये पाठः ।
३ लोध्रपुष्पिणी इति मा० पा० ।
४ तुबरिका इति मा० पा० ।

दुर्गे सङ्ग्राह्यान्तराणि । २१३
समङ्गा त्रिवृतामूलकार्पासगैरिकाञ्जनम् ॥
विद्रुमं समधूच्छिष्टं कुम्भिका कुमुदोत्पलम् ।
न्यग्रोधोदुम्बराश्वत्थकिंशुकाः शिंशपा शमी ॥
प्रियालपीलुकासारशिरीषाः पद्मकं तथा ।
बिल्वोऽग्निमन्थः पुक्षश्च श्यामाकं कवको घनम् ॥
राजादनं करीरं च चम्पकप्रियकौ तथा ।
कङ्कोलाशोकबदराः कदम्बखदिरद्वयम् ॥
एषां पत्राणि साराणि मूलानि कुसुमानि च ।
एवमादीनि चान्यानि कषायाख्यो गणो मतः ॥
प्रयत्नेन नृपश्रेष्ठ राजा सञ्चिनुयात्पुरे ।
कीटाम्बुमारणे योग्या व्यङ्गतायां तथैव च ॥
वातधूमाश्च मार्गाणां दूषणानि तथैव च ।
धार्याणि पार्थिवैर्दुर्गे तानि वक्ष्यामि पार्थिव ॥
विषाणां धारणं कार्यं प्रयत्नेन महीभुजा ।
विचित्राश्चागदा धार्या विषस्य शमनास्तथा ॥
रक्षोभूतपिशाचघ्नाः पापघ्नाः पुष्टिवर्द्धनाः ।
कलाविदश्च पुरुषाः पुरे धार्याः प्रयत्नतः ॥
भीतान् प्रमत्तान् कुपितांस्तथैव च विमानितान् ।
कुभृत्यान् पापशीलांश्च न राजा वासयेत्पुरे ॥
यन्त्रायुधाट्टालचयोपपन्नं समग्रधान्यौषधिसम्प्रयुक्तम् ।
वणिग्जनैश्चावृतमावसेत दुर्गे सुगुप्तं नृपतिः सदैव ॥
इत्यादिप्रबन्धेनावश्यापेक्षितवस्तुसञ्चयं विधाय दुर्गमध्ये
पुरं सुरक्षितं कृत्वा तत्र वसेत् । तत्र पुरनिर्माणं कथं कार्यमि-
त्यपेक्षायाम्—
देवीपुराणे,

२१४ वीरमित्रोदयस्य राजनीतिप्रकाशे
इन्द्र उवाच ।
कीदृशं तु पुरं कार्यं नगरं कीदृशं शुभम् ।
कस्मिन् स्थाने सुरश्रेष्ठ एतदिच्छामि वेदितुम् ॥
ब्रह्मोवाच ।
सर्वौषधिभवे देशे सर्वलोकसुखावहे ।
पूर्वोत्तरप्लवे स्थाने कार्यं शक्र पुरादिकम् ॥
सर्वौषधिभवे, सर्वा या ओषध्यः फलपाकान्तास्तासां भव
उत्पत्तिर्यस्मिन्। पूर्वोत्तरप्लवे, प्राक्प्रवणे, उदक्प्रवणे, ईशानप्र-
वणे च। पुरनगरयोर्भेदस्तु—
अनेकजातिसंयुक्तं तन्तुवाययुतं पुरम् ।
१ शर्कराभस्मरहिते कटुकण्टकवर्जिते ॥
सहले पांसुरहिते कुशादिभिरनावृते ।
चलगन्धसमायुक्ता मही खातोप लक्षिता ॥
चण्डालपतितत्यक्तशरावशकलैर्विना ।
देवावासपरित्यक्ता निराबाधा मनोरमा ॥
उदगादिप्लवागाधा वैषम्यादिविवर्जिता ।
शुद्धा सा दहनाद्यैश्च अथ चण्डेश्वरान्विता ॥
सर्वेश्वरयुता वापि अन्यथा भयदा मही ।
पूर्णवर्णविपर्यस्ता स्थानकालविमूत्रगा ॥
स्वामिश्रेष्ठिपुरादीनां भयदा ज्ञायते मही ।
कश्मलाद्यैः परिक्लिष्टा पूतनादिसमाकुला ॥
पताकावर्जनीया तु सर्वदोषकरी मही ।
वत्सरं या परित्यक्ता कृष्टा धान्यरुहा च या ॥
सा मही शुभदा ज्ञेया या च तृप्तिकरी भवेत् ।
१ इतः पूर्वं किञ्चित् त्रुटितं भाति ।

दुर्गे पुरनिर्माणप्रकारः । २१६
रक्ष्या देव्यस्सदैवात्र पूजनीयास्स्वभागगाः ॥
स्थानानि कल्पयेत्तासामधिवासं तु कारयेत् ।
चण्डेश्वरो, महादेवस्य गणविशेषः । अधिवासं, स्थापनम् ।
इति पुरभूशुद्धिः ।
तथा तत्रैव,
नगरं दैवतावीतं समस्तप्रकृतीयुतम् ।
सप्तपञ्चपुरैः कार्यं मण्डपैरुपशोभितम् ॥
कोष्ठकाः सश्रियः कार्या मण्डपादग्रतः शुभाः ।
एवं देवालयोपेतं सर्ववर्णसमन्वितम् ॥
नवदुर्गासमायुक्तं नगरं परिकीर्तितम् ।
पुरं हट्टसमायुक्तं देवतादिसमाकुलम् ॥
हट्टं हेममणीवस्त्रपत्रोर्णाचर्मविक्रयम् ।
सुरापेयादिकं यस्मिंस्तत्पुरं पत्तनं शृणु ॥
असंहतं समं कार्यं वणिक्हट्टं सुशोभनम् ।
सुरनामं स्वनामं वा पत्तनं सर्वकामदम् ॥
अवेधं कारयेत्पङ्कगर्त्तादिभिः सुरोत्तम ।
उभयोरन्तरे कार्यं देवतायतनादिकम् ॥
देवलक्ष्माविहीनं तु समदृष्टिगतं शुभम् ।
चिह्नदृष्टिगते देवे न दृष्टेः सुनिरूपणम् ॥
समे मानसमायुक्ते कार्या दृष्टिः शुभा समा ।
द्रुमाधिका न कर्तव्या व्यालासिंहादिनावृता ॥
एवं कुर्यात्पुरे हट्टं प्राकारान्तर्गतं शुभम् ।
चतुर्हट्टं समं कार्यं समसूत्रं सुशोभनम् ॥
पथस्समं पुरं कार्यं सममार्गविनिर्गमम् ।
चतुष्पथानि शुद्धानि नित्यं पूजायुतानि च ॥

२१६ वीरमित्रोदयस्य राजनीतिप्रकाशे

देवान्तराणि कार्याणि स्वाधिकार्यावृतानि च ।
देवान्तरेषु मन्त्रज्ञाः स्वे स्वे देशाः शुभावहाः ॥
भिन्ना बहुप्रदा लोके यथाशास्त्रपरिग्रहः ।
न शुभा मन्त्रहीनास्तु द्विजाद्या नैष्ठिकास्तथा ॥
चर्चिकायास्तथा शक्र मन्त्रहीना भयावहाः ।
अग्रतः पृष्ठतो देवा उभयोः पार्श्वयोर्द्विजाः ॥
हस्तानां तु शतं त्याज्यं नृप राष्ट्रमुखार्थिभिः ।
दृष्टिभङ्गो न कर्त्तव्यो रक्षेद्देवीषु यत्नतः ॥
दण्डाष्टकसुविस्तीर्णे कृते राजा विनश्यति ।
तस्माद्दृष्टिः सदा देया तोरणान्तर्गता शुभा ॥
अष्टहस्तं सुशोभाढ्यं शैलवृक्षमयं च वा ।
तोरणं शस्यते देव्या वापी कूपजलं वनम् ॥
पूर्वोत्तरे तथैशान्यामारामः शुभदः कृतः ।
देवीनां मातृकाणां च स भवेत्सर्वकामदः ॥
यथाशुभग्रहाद्देवाद्यच्च कालकृतं भवेत् ।
तत्सर्वं देवतागारे कृतं भवति शोभनम् ॥
बलिजाप्यक्रिया नित्यं मातृकाणां शुभा भवेत् ।
पुरपत्तनग्रामाणां ब्रह्मपुर्यः सकामदाः ॥
ब्रह्मविद्या कलोपेता यत्र वेदविदोऽवसन् ।
सा पुरी कमला नाम सर्वलोकसुखावहा ॥
विद्या ह्येका तथा द्वित्राश्चतस्रो यत्र संस्थिताः ।
रुद्रो देवी च विजया गायत्री च क्रमात्मना ॥
गृहपङ्गिगताः कार्याः शुभवर्त्म ऋजुस्थिताः ।
पूर्वोत्तरसुमार्गस्थाः सजला देवतान्विताः ॥
ब्रह्मात्रिदशपूजार्थं मठादिसमुपकल्पयेत् ।

दुर्गे पुरनिर्माणप्रकारः । २१७
पाठस्थानानि कुर्वीत शिवायतनवेधसोः ॥
पुरे वा नगरे वत्स राजधान्यां च पत्तने ।
दुर्गहट्टे शुभे दृष्टिर्महालक्ष्माः सुमङ्गला ॥
शिवलिङ्गगणेशानां धनदस्य विशेषतः ।
श्रियश्च सौम्यरूपायाः स्वामीशस्य शुभस्य च ॥
रक्षोदेवीषु चोग्रासु दृष्टिर्देया न चान्यथा ।
बाह्ये वनोपकण्ठे च नदीनदतटेऽथ वा ॥
प्रासादे चोत्तमा कार्या तीर्थे ह्रदानुगाथ वा ।
वाराही भैरवी चोग्रा नारसिंही त्रिविक्रमी ॥
पुरपत्तनगेहेषु दृष्टिवर्ज्या प्रयत्नतः ।
उग्रा दृष्टिर्हरेद्राष्ट्रं दारुणा नगरादिकम् ॥
नरसिंहवराहाणां दृष्टिर्हन्त्याच्छ्रयं जनम् ।
तस्माद्दृष्टिः शुभा कार्या समा सर्वगता ततः ॥
विवाहेऽपि शुभा दृष्टिः समा भवति नान्यथा ।
अतो यत्नेन देवानां दृष्टिः सौम्या प्रशस्यते ॥
ग्रहाणां सौम्यरूपाणां लग्ने दृष्टिः शुभावहा ।
पुरपत्तनदुर्गेषु तथा सौम्या शुभावहा ॥
एवं हट्टे पुरे दुर्गे देया दृष्टिः शुभा नृप ।
शुभार्थे सौम्यरूपाणामुग्राणां परिवर्जयेत् ॥
आवाहने जले वाथ उग्रा दृष्टिः शुभावहा । इति ।
तथा,
चतुर्दण्डः प्रकर्त्तव्यो भूमावादौ परिग्रहः ।
गां सवत्सां समादाय कुम्भं धान्यमयं तथा ॥
सवस्त्रं हेमगर्भं तु सहकारदलान्वितम् ।
पृथ्वीं सङ्कल्पयेत्तस्मिन् मेरुकर्णिकशोभिताम् ॥
२८

२१८ वीरमित्रोदयस्य राजनीतिप्रकाशे
वनशैलसमायुक्तां सागरैः परिवेष्टिताम् ।
एवं सम्पूजयित्वा तु देवदेवं त्रिलोचनम् ॥
कुमारादिशिवादींश्च विचार्यादिमहामहीम् ।
सूर्यादिलोकपालादिनागयक्षादिदेवताः ॥
पूर्वं सम्पूजयित्वा तु पश्चाद्दद्याद्दिशां बलिम् ।
स्वप्नमाणवकं जप्त्वा शेते तत्र यथासुखम् ॥
स्वप्नमाणवकं, “यज्जाग्रत” इत्यादि ।
आचार्यः सूत्रधारश्च शुभं स्वप्नं निशाक्षये ।
निमित्तं शकुनं दृष्ट्वा सूत्रयेल्लक्षितां दिशम् ॥
चित्रास्वात्यन्तरे पूर्वा पुष्यपित्र्यसमागमे ।
उत्तरा ध्रुवमध्यस्था शेषाः सिद्धा यथागमम् ॥
चित्रास्वात्योरुदितयोर्मध्ये या, तथा पुष्यमघानक्षत्राभ्यां
चार्जवेन संयुता या, सा पूर्वा दिगित्यर्थः । ध्रुवो मध्यस्थो मध्ये
वर्त्तमानो यस्यां तथाविधा सा उत्तरा दिक् ।
शङ्कुना तदभावे तु पूर्वाशां साधयेत् द्विजः ।
एवं दिशासु सिद्धासु सूत्रपातं समाचरेत् ॥
आचार्य पूजयित्वा तु सूत्रधारं द्विजोत्तमान् ।
देवतायतनं पूर्वमाचार्यब्राह्मणौकसम् ॥
राजधाम तु शेषांस्तु गृहान् वर्णक्रमाद्गुरुः ।
पुरं वृत्तायतं कार्यं त्र्यस्रं वा चतुरस्रकम् ॥
यथास्थानविभागेन हृष्टशोभासमन्वितम् ।
राजधामाग्रतः कार्यं देवधाम अथापि वा ॥
सुसूत्रं देवतायुक्तं शिवमातृगणावृतम् ।
मङ्गला धनदा कार्या सर्वान्ते सर्वसिद्धिदा ॥
न सूर्यो वह्नियामे वा नैर्ऋते वा हरिः क्वचित् ।

वास्तुकर्मविधिः । २१९
न विष्णुः पश्चिमे सौम्ये वायव्यां कारयेच्छिवाम् ॥
कृते विनश्यते कर्त्ता तत्स्थानं चोद्वसं भवेत् ।
देवो न पूज्यते तत्र तस्मिन् स्थाने स्वके शुभे ॥
विमूत्रेषु प्रवक्ष्यामि येन शान्तिः शुभं भवेत् ।
नगराणां पुराणां च देवानां गोपुरादिषु ॥
विमार्गेषु शिवः शस्तः सम्मुखः........ ।
सौम्याग्रे सर्वतो दुर्गा पुरं नन्दति रक्षितम् ॥
तस्माद्दुर्गा प्रकर्त्तव्या नगरेषु पुरादिषु ।
महालक्ष्म्यादिकाः शक्र क्षेमकारी सचण्डिका ॥
मङ्गला मङ्गला रूपा महिषघ्नी शिवा नरा ।
यथास्थानविभागस्था सर्वलोकसुखावहा ॥
महालक्ष्मीः पुरः शस्ता आग्नेये महिषापहा ।
याम्यां शिवा शुभा प्रोक्ता चर्चिका पश्चिमे पुरात् ॥
उत्तरे शुभदा क्षेमा पञ्चैताः शान्तिदाः पुरे ।
नगरे नव कर्त्तव्या दुर्गे पञ्चैव चण्डिकाः ॥ इति ।
इति दुर्गे पुरनिर्माणम् ।
अथ निर्मितेषु नगरराजगृहादिषु वास्तुशान्तेरावश्यकत्वेन
वास्तुकर्मविधिनिरूप्यते । तत्र—
मत्स्यपुराणे,
सूत उवाच ।
अथातः सम्प्रवक्ष्यामि गृहकालविनिर्णयम् ।
यथाकालं शुभं ज्ञात्वा तदा भवनमारभेत् ॥
चैत्रे व्याधिमवाप्नोति यो गृहं कारयेन्नरः ।
वैशाखे धेनुरत्नानि ज्येष्ठे मृत्युं तथैव च ॥

२२० वीरमित्रोदयस्य राजनीतिप्रकाशे
आषाढे भृत्यरत्नानि पशुवर्गमवाप्नुयात् ।
श्रावणे मित्रलाभं तु हानिं भाद्रपदे तथा ॥
पत्नीनाशमाश्वयुजे कार्त्तिके धनधान्यकम् ।
मार्गशीर्षे तथा भक्तं पौषे तस्करतो भयम् ॥
लाभं च बहुशो विन्द्यादग्निं माघे विनिर्दिशेत् ।
फाल्गुने काञ्चनं पुत्रानिति कालफलं स्मृतम् ॥
अश्विनी रोहिणी मूलमुत्तरात्रयमैन्दवम् ।
ऐन्दवं मृगशिरः ।
स्वाती हस्तोऽनुराधा च गृहारम्भे प्रशस्यते ॥
आदित्यभौमवर्जं च सर्वे वाराः शुभावहाः ।
वज्रव्याघातशूलेषु व्यतीपातातिगण्डयोः ॥
विष्कम्भगण्डपरिघवज्रयोगेषु कारयेत् ॥
श्वेते मैत्रेऽथ माहेन्द्रे गान्धर्वाभिजिति रौहिणे ।
तथा वैराजसावित्रे मुहूर्त्ते गृहमारभेत् ॥
चन्द्रादित्यबलं लब्ध्वा लग्नं शुभनिरीक्षितम् ।
शुभनिरीक्षितं, शुभग्रहानेरीक्षितम् ।
स्तम्भोच्छ्रायादि कर्तव्यमन्यत्तु परिवर्जयेत् ।
प्रासादेष्वेवमेवं स्यात्कूपवापीषु चैव हि ॥
पूर्वं भूमिं परीक्षेत पश्चाद्वास्तुं प्रकल्पयेत् ।
श्वेता रक्ता तथा पीता कृष्णा चैवानुपूर्वशः ॥
विप्रादेः शस्यते भूमिरतः कार्यं परीक्षणम् ।
विप्राणां मधुरास्वादा कषाया क्षत्रियस्य तु ॥
कषायकटुका तद्वद्वैश्यशूद्रेषु शस्यते ।
रनिमात्रे तु वै गर्त्ते स्वनुलिप्ते च सर्वशः ॥
घृतमामशरावस्थं कृत्वा वर्त्तितुष्टयम् ।

वास्तुकर्मविधिः । २२१
ज्वालयेद्भूंपरीक्षार्थं पूर्णं तत्सर्वदिङ्मुखम् ॥
दीप्तौ पूर्वाद गृहीयाद्वर्णानामनुपूर्वशः ।
दीप्तौ पूर्वादीति । पूर्वा दिशमारभ्य प्रदक्षिणं वर्त्तिसम्य-
क्प्रदीपने ब्राह्मणादीनां वर्णानां यथासङ्ख्यं सुखावहमित्यर्थः ।
वास्तुः सामूहिकों नाम दीप्यते सर्वतस्तु यः ।
शुभदः सर्ववर्णानां प्रासादेषु गृहेषु ॥
रत्निमात्रमधो गर्ते परीक्ष्यं खातपूरणे ।
अधिके श्रियमाप्नोति न्यूने हानिं समे समम् ॥
फालकृष्टेऽथवा देशे सर्वबीजानि वापयेत् ॥
त्रिपञ्चसप्तरात्रेण यत्र रोहन्ति तान्यपि ।
ज्येष्ठोत्तमा कनिष्ठा भूर्वर्जनीयतरा सदा ॥
पञ्चगव्यौषधिजलैः परीक्षित्वा च सेचयेत् ।
एकाशीतिपदं कृत्वा रेखाभिः कनकेन तु ॥
पश्चाल्लेखयेन वा लिप्त्वा सूत्रेणालोड्य सर्वतः ।
दश पूर्वायता रेखा दश चैवोत्तरायताः ॥
सर्ववास्तुविभागेषु विज्ञेया नवका नव ।
एकाशीतिपदं कृत्वा वास्तुवित्सर्ववास्तुषु ॥
पदस्थान् पूजयेद्देवांस्त्रिंशत्पञ्चदशैव तु ।
द्वात्रिंशद्वाह्यतः पूज्याः पूज्याश्चान्तस्त्रयोदश ॥
नामतस्तान् प्रवक्ष्यामि स्थानानि च निबोधत ।
ईशानकोणादिषु तान् पूजयेच्च विधानतः ॥
शिखी चैवाथ पर्जन्यो जयन्तः कुलिशायुधः ।
सूर्यः सत्यो भृगुश्चैव आकाशो वायुरेव च ॥
१ 'पश्चात्पिष्टेन चालिप्य' इति मा० पा०

२२२ वीरमित्रोदयस्य राजनीतिप्रकाशे
पूषाथ वितथश्चैव गृहक्षतयमावुभौ ।
गन्धर्वो भृङ्गराजश्च मृगः पितृगणस्तथा ॥
दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलाधिपः ।
असुरः शोषपापौ च रोगोऽहिर्मुख्य एव च ॥
भल्लाटः सोमसर्पौ च अदितिश्च दितिस्तथा ।
बहिर्द्वात्रिंशदेते तु तदन्तश्चतुरः शृणु ॥
ईशानादिचतुष्कोणे संस्थितान् पूजयेद्बुधः ।
आपश्चैवाथ सावित्रो जयो रुद्रस्तथैव च ॥
मध्ये नवपदे ब्रह्मा तस्याष्टौ च समीपगाः ।
सर्वानेकान्तरान् विद्यात्पूर्वाद्यान् नामतः शृणु ॥
अर्यमा सविता चैव विवस्वान् विबुधाधिपः ।
मित्रोऽथ राजयक्ष्मा च तथा पृथ्वीधरः क्रमात् ॥
अष्टमस्त्वापवत्सस्तु परितो ब्रह्मणः स्मृताः ।
आपश्चैवापवत्सश्च पर्जन्योऽग्निर्दितिस्तथा ॥
पदिकानां च वर्गोऽयमेवं कोणेष्वशेषतः ।
तन्मध्ये तु वहिर्वत्स द्विपदास्ते तु सर्वतः ॥
अर्यमा च विवस्वांश्च मित्रः पृथ्वीधरस्तथा ।
ब्रह्मणः परितो दिक्षु त्रिपदास्ते तु सर्वतः ॥
अंशानिदानीं वक्ष्यामि रज्जूनपि पृथक् पृथक् ।
वायुं यावत्तथा रोगान् पितृभ्यः शिखिनं पुनः ॥
मुख्याद्भृगुं तथा शेषाद्वितथं यावदेव तु ।
सुग्रीवाददितिं यावत् भृङ्गात्पर्जन्यमेव च ॥
एते वंशाः समाख्याताः कचिद्रज्जव एव तु ।
एतेषां यस्तु सम्पातः पदं मध्यं समं तथा ॥
मर्म चैतत्समाख्यातं त्रिशूलं कोणगं च यत् ।

वास्तुकर्मविधिः । २२३
स्तम्भन्यासेषु वर्ज्यानि तुलां देवेषु सर्वदा ॥
कीलकुड्योपघातादि वर्जयेद्यत्नतो नरः ।
सर्वस्तु वास्तुर्निर्दिष्टः पितृवंशान्तरायतः ॥
पितृवंशान्तरायत इति । पितृगणादारभ्य वह्निं यावद्यो
वंशः प्रसारितस्तदान्तराऽऽयतो वास्तुर्वास्तुपुरुषः ।
मूर्धन्यग्निः समाविष्टो मुखे चापः समाश्रितः ।
पृथ्वीधरोऽर्यमा चैव स्तनयोस्तावधिष्ठितौ ॥
वक्षःस्थले त्वापवत्सः पूजनीयः सदा बुधैः ।
नेत्रयोर्दितिपर्जन्यौ श्रोत्रे दितिजयान्तकौ ॥
सर्पेन्द्रावंशसंस्थौ तु पूजनीयौ प्रयत्नतः ।
सत्यरोगादयस्तद्वद्बाह्वोः पञ्च च पञ्च च ॥
रुद्रश्च राजयक्ष्मा च वामहस्ते समाश्रितौ ।
सावित्रः सविता तद्वद्धस्तं दक्षिणमास्थितौ ॥
विवस्वानथ मित्रश्च जठरे संव्यवस्थितौ ।
पूषा च पापयक्ष्मा च हस्तयोर्मणिबन्धने ।
तथैवासुरशोषौ तु वामपार्श्वं समाश्रितौ ॥
पार्श्वे तु दक्षिणे तद्वद्वितथः सगृहक्षतः ।
ऊर्वोर्यमाम्बुपौ ज्ञेयौ जान्वोर्गन्धर्वपुष्पकौ ॥
यमाम्बुपौ यमवरुणौ । पुष्पकः पुष्पदन्तः ।
जङ्घयोर्भृगुसुग्रीवौ स्फिक्थौ दौवारिको मृगः ॥
जयः शक्रस्तथा मेढे पादयोः पितरस्तथा ।
मध्ये नवपदे ब्रह्मा हृदये स तु पूज्यते ॥
चतुःषष्टिपदो वास्तुः प्रासादे ब्रह्मणा स्मृतः ।
ब्रह्मा चतुष्पदस्तद्वत्कोणेष्वेकपदास्ततः ॥
१ स्तम्भन्यासेषु वर्ज्यानि तुलाविधिषु सर्वदा । इति मा० पा० ।

२२४ वीरमित्रोदयस्य राजनीतिप्रकाशे
बहिःकोणेषु चाष्टौ तु सार्द्धाश्चोभयतः स्थिताः ।
तद्वत्कोणेष्वेकपदा इति । तद्वत् एकाशीतिपदवास्तुवत् ।
एकाशीतिपदे वास्तौ याः कोणेष्वेकपदा देवता इहापि तास्त-
थैव बोद्धव्याः । बहिःकोणेषु, वेद्यादिप्रान्तकोणेषु चतुर्षु ये
उभयपार्श्वे कोष्ठकाः तेष्वष्टौ देवताः सार्द्धा भवन्ति, देवताच-
तुष्टयसहिता भवन्तीत्यर्थः ।
विंशतिर्द्विपदास्तेषां चतुःषष्टिपदास्तथा ॥
गृहारम्भे तु कण्डूतिः स्वस्याङ्गे यत्र जायते ।
शल्यं त्वपनयेत्तत्र प्रासादे भवनेऽपि वा ॥
सशल्यं भयदं यस्मादशल्यं भयनाशनम् ।
हीनाधिकाङ्गतां वास्तोः सर्वथा परिवर्जयेत् ॥
नगरग्रामदेशेषु सर्वत्रैवं प्रकल्पयेत् ।
चतुःशालं त्रिशालं च द्विशालं चैकशालकम् ।
सूतउ वाच ॥
चतुःशालं प्रवक्ष्यामि स्वरूपान्नामतस्तथा ।
चतुःशालं चतुर्द्वारैरालिन्दैः सर्वतोमुखम् ॥
नाम्ना तत्सर्वतोभद्रं शुभं देवनृपालये ।
पश्चिमद्वारहीनं तु नन्द्यावर्त्तं प्रचक्षते ॥
दक्षिणद्वारहीनं तु वर्धमानमुदाहृतम् ।
पूर्वद्वारविहीनं तु स्वस्तिकं नाम विश्रुतम् ॥
रुचकं चोत्तरद्वारविहीनं तु प्रचक्षते ।
सौम्यशालाविहीनं यत्रिशालं धन्यकं च तत् ॥
क्षेमवृद्धिकरं नृणां बहुपुत्रफलप्रदम् ।
शालया पूर्वया हीनं सुक्षेत्रमिति विश्रुतम् ॥

राज्ञो भवनपरिमाणादिकम् । २२५
धन्यं यशस्यमायुष्यं शोकमोहविनाशनम् ।
चुल्ली तु याम्यया हीनं त्रिशालं शालया तु यत् ॥
कुलक्षयकरं नृणां सर्वव्याधिभयावहम् ।
हीनं पश्चिमया यत्तु पक्षघ्नं नाम तद्विदुः ॥
पितृबन्धुसुतान् हन्ति तथा सर्पभयावहम् ॥
याम्यापराभ्यां शालाभ्यां धनधान्यफलप्रदम् ।
क्षेमवृद्धिकरं नृणां तथा पुत्रफलप्रदम् ॥
यमसूर्ये च विज्ञेयं पश्चिमोत्तरशालकम् ।
राजाग्निभयदं नृणां कुलक्षयकरं च तत् ॥
पूर्वपश्चिमशाले द्वे दण्डाख्यं तत्र तद्भवेत् ।
अकालमृत्युभयदं परचक्रभयावहम् ॥
वायव्यं याम्यपूर्वाभ्यां शालाभ्यां यद्द्विशालकम् ।
विषशस्त्राग्निभयदं पराभवभयावहम् ॥
चुल्ली पूर्वापराभ्यां च सा भवेन्मृत्युसूचनी ।
वैधवत्वाय च स्त्रीणामनेकभयकारिका ॥
कार्यमुत्तरयाम्याभ्यां शालाभ्यां भयदं नृणाम् ।
सिद्धार्थवर्जं वर्ज्यानि द्विशालानि सदा बुधैः ॥
अलिन्दं द्वारचतुरस्रिका । सौम्यशाला उत्तरद्वारशाला ।
सिद्धार्थवर्जं, याम्यापराभ्यां शालाभ्यां युक्तं यद्द्विशालं तद्विहाय।
अथातः सम्प्रवक्ष्यामि भवनं पृथिवीपतेः ।
पञ्चप्रकारं तत्प्रोक्तमुत्तरादिविभेदतः ॥
अष्टोत्तरं हस्तशतं विस्तारश्चोत्तमो मतः ।
चतुर्ष्वन्येषु विस्तारो हीयते चाष्टभिः करैः ॥
१ शालया याम्यया हीनं यद्द्विशालं तु शालया। इति मा०पा० ।
२ धनाख्यमिति मा० पा० ।
२९

चतुर्थांशाधिकं दैर्घ्यं पञ्चस्वपि निगद्यते ।
युवराजस्य वक्ष्यामि तथा भवनपञ्चकम् ॥
षड्भिः षड्भिस्तथाशीतिर्हीयते तत्र विस्तरात् ।
त्र्यंशेन चाधिकं दैर्घ्यं पञ्चस्वपि निगद्यते ॥
सेनापतेः प्रवक्ष्यामि तथा भवनपञ्चकम् ।
चतुःषष्टिस्तु विस्तारः षड्भिः षड्भिः प्रहीयते ॥
पञ्चस्वेतेषु दैर्घ्यं च षड्भागेनाधिकं भवेत् ।
मन्त्रिणामथ वक्ष्यामि तथा भवनपञ्चकम् ॥
चतुश्चतुर्विहीना स्यात्करषष्टिः प्रविस्तरे ।
अष्टांशेनाधिकं दैर्घ्यं पञ्चस्वपि निगद्यते ॥
सामन्तामात्यलोकानां वक्ष्ये भवनपञ्चकम् ।
चत्वारिंशत्तथाष्टौ च चतुर्भिर्हीयते क्रमात् ॥
चतुर्थांशाधिकं दैर्घ्यं पञ्चस्वेतेषु शस्यते ।
शिल्पिनां कञ्चुकिनां च वेश्यानां गृहपञ्चकम् ॥
अष्टाविंशत्कराणां तद्द्विहीनं विस्तरात्क्रमात् ।
द्विगुणं दैर्घ्यमेवोक्तमध्यक्षेष्वेवमेव तु ॥
दूतकर्मान्तिकादीनां वक्ष्ये भवनपञ्चकम् ।
चतुर्थांशाधिकं दैर्घ्यं विस्तराद्द्वादशैव तु ॥
अर्धार्धकरहानिः स्याद्विस्तरात्पञ्चसु क्रमात् ।
दैवज्ञगुरुवैद्यानां सभास्तारपुरोधसाम् ॥
तेषामपि प्रवक्ष्यामि क्रमाद्भवनपञ्चकम् ।
चत्वारिंशत्प्रविस्ताराच्चतुर्भिर्हीयते क्रमात् ॥
पञ्चस्वेतेषु दैर्घ्यं च षड्भागेनाधिकं भवेत् ।
चातुर्वर्ण्यस्य वक्ष्यामि सामान्यं गृहपञ्चकम् ॥
द्वात्रिंशद्वै कराणां तु चतुर्भिर्हीयते क्रमात् ।

सेनापत्यादिभवनपरिमाणादिकम् । २२७
आषोडशादिति परं न्यूनमन्त्यावसायिनाम् ॥
दशांशेनाष्टभागेन त्रिभागेनाथ भोगिकम् ।
अधिकं दैर्ध्यमित्याहुर्ब्राह्मणादेः प्रशस्यते ॥
सेनापतेर्नृपस्यापि सप्तत्या सहिते कृते ।
चतुर्दशहृते व्यासे शालान्यासः प्रकीर्तितः ॥
पञ्चत्रिंशद्धृते तस्मिन्नलिन्दः समुदाहृतः ।
सेनापतेरिति । सेनापतेर्नृपस्य गृहे यावान् विस्तार उक्तस्तं
करसप्तत्या सहितं कृत्वा तदर्द्धं गृहीत्वा तस्यार्द्धस्य चतुर्दशवि-
भागं कृत्वा यावदवशिष्टं भवति तावद्विस्तारां शालां कुर्यादित्य-
र्थः । तेनाष्टोत्तरशतहस्तविस्तारे राजवेश्मनि पञ्चहस्तप्रमाणा
शाला भवति । पञ्चत्रिंशद्धृत इति । तस्मिन्नेव नवाशीतिविस्तारे
राजवेश्मनि पञ्चत्रिंशता भागहारे कृते ये एकोनविंशतिहस्ता
अवशिष्यन्ते तावानलिन्दः कर्त्तव्यः ।
तथा षट्त्रिंशद्धस्तात्र सप्ताङ्गुलसमन्विता ।
विप्रस्य महती शाला न दैर्घ्यं परतो भवेत् ॥
दशाङ्गुलाधिका तद्वत्क्षत्रियस्य विधीयते ॥
पञ्चत्रिंशत्करा वैश्ये अङ्गुलानि त्रयोदश ।
तावत्करैव शूद्रस्य युता पञ्चदशाङ्गुलैः ॥
शालायास्तु त्रिभागेन यस्याग्रे वीथिका भवेत् ।
१ पादिकम् इति मा० पा० ।
२ अत्र-'सेनापतेर्नृपस्यापि गृहयोरन्तरेण तु । नृपवासगृहं कार्यं
भाण्डागारं तथैव च ॥ सेनापतेर्गृहस्यापि चातुर्वर्ण्यस्य चान्तरे
वासाय च गृहं कार्यं राजपूज्येषु सर्वदा ॥ अन्तरप्रभवाणां च स्व-
पितुर्गृहमिष्यते । तथा हस्तशतादर्धं गदितं वनवासिनाम्' ॥ इत्य-
धिकं मात्स्ये वर्तते ।