वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 211, कुल 490 में से
संदर्भ में पढ़ेंदुर्गे पुरनिर्माणप्रकारः । २१६
रक्ष्या देव्यस्सदैवात्र पूजनीयास्स्वभागगाः ॥
स्थानानि कल्पयेत्तासामधिवासं तु कारयेत् ।
चण्डेश्वरो, महादेवस्य गणविशेषः । अधिवासं, स्थापनम् ।
इति पुरभूशुद्धिः ।
तथा तत्रैव,
नगरं दैवतावीतं समस्तप्रकृतीयुतम् ।
सप्तपञ्चपुरैः कार्यं मण्डपैरुपशोभितम् ॥
कोष्ठकाः सश्रियः कार्या मण्डपादग्रतः शुभाः ।
एवं देवालयोपेतं सर्ववर्णसमन्वितम् ॥
नवदुर्गासमायुक्तं नगरं परिकीर्तितम् ।
पुरं हट्टसमायुक्तं देवतादिसमाकुलम् ॥
हट्टं हेममणीवस्त्रपत्रोर्णाचर्मविक्रयम् ।
सुरापेयादिकं यस्मिंस्तत्पुरं पत्तनं शृणु ॥
असंहतं समं कार्यं वणिक्हट्टं सुशोभनम् ।
सुरनामं स्वनामं वा पत्तनं सर्वकामदम् ॥
अवेधं कारयेत्पङ्कगर्त्तादिभिः सुरोत्तम ।
उभयोरन्तरे कार्यं देवतायतनादिकम् ॥
देवलक्ष्माविहीनं तु समदृष्टिगतं शुभम् ।
चिह्नदृष्टिगते देवे न दृष्टेः सुनिरूपणम् ॥
समे मानसमायुक्ते कार्या दृष्टिः शुभा समा ।
द्रुमाधिका न कर्तव्या व्यालासिंहादिनावृता ॥
एवं कुर्यात्पुरे हट्टं प्राकारान्तर्गतं शुभम् ।
चतुर्हट्टं समं कार्यं समसूत्रं सुशोभनम् ॥
पथस्समं पुरं कार्यं सममार्गविनिर्गमम् ।
चतुष्पथानि शुद्धानि नित्यं पूजायुतानि च ॥