सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 209, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 209

दुर्गे सङ्ग्राह्यान्तराणि । २१३
समङ्गा त्रिवृतामूलकार्पासगैरिकाञ्जनम् ॥
विद्रुमं समधूच्छिष्टं कुम्भिका कुमुदोत्पलम् ।
न्यग्रोधोदुम्बराश्वत्थकिंशुकाः शिंशपा शमी ॥
प्रियालपीलुकासारशिरीषाः पद्मकं तथा ।
बिल्वोऽग्निमन्थः पुक्षश्च श्यामाकं कवको घनम् ॥
राजादनं करीरं च चम्पकप्रियकौ तथा ।
कङ्कोलाशोकबदराः कदम्बखदिरद्वयम् ॥
एषां पत्राणि साराणि मूलानि कुसुमानि च ।
एवमादीनि चान्यानि कषायाख्यो गणो मतः ॥
प्रयत्नेन नृपश्रेष्ठ राजा सञ्चिनुयात्पुरे ।
कीटाम्बुमारणे योग्या व्यङ्गतायां तथैव च ॥
वातधूमाश्च मार्गाणां दूषणानि तथैव च ।
धार्याणि पार्थिवैर्दुर्गे तानि वक्ष्यामि पार्थिव ॥
विषाणां धारणं कार्यं प्रयत्नेन महीभुजा ।
विचित्राश्चागदा धार्या विषस्य शमनास्तथा ॥
रक्षोभूतपिशाचघ्नाः पापघ्नाः पुष्टिवर्द्धनाः ।
कलाविदश्च पुरुषाः पुरे धार्याः प्रयत्नतः ॥
भीतान् प्रमत्तान् कुपितांस्तथैव च विमानितान् ।
कुभृत्यान् पापशीलांश्च न राजा वासयेत्पुरे ॥
यन्त्रायुधाट्टालचयोपपन्नं समग्रधान्यौषधिसम्प्रयुक्तम् ।
वणिग्जनैश्चावृतमावसेत दुर्गे सुगुप्तं नृपतिः सदैव ॥
इत्यादिप्रबन्धेनावश्यापेक्षितवस्तुसञ्चयं विधाय दुर्गमध्ये
पुरं सुरक्षितं कृत्वा तत्र वसेत् । तत्र पुरनिर्माणं कथं कार्यमि-
त्यपेक्षायाम्—
देवीपुराणे,