सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 212, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 212

२१६ वीरमित्रोदयस्य राजनीतिप्रकाशे

देवान्तराणि कार्याणि स्वाधिकार्यावृतानि च ।
देवान्तरेषु मन्त्रज्ञाः स्वे स्वे देशाः शुभावहाः ॥
भिन्ना बहुप्रदा लोके यथाशास्त्रपरिग्रहः ।
न शुभा मन्त्रहीनास्तु द्विजाद्या नैष्ठिकास्तथा ॥
चर्चिकायास्तथा शक्र मन्त्रहीना भयावहाः ।
अग्रतः पृष्ठतो देवा उभयोः पार्श्वयोर्द्विजाः ॥
हस्तानां तु शतं त्याज्यं नृप राष्ट्रमुखार्थिभिः ।
दृष्टिभङ्गो न कर्त्तव्यो रक्षेद्देवीषु यत्नतः ॥
दण्डाष्टकसुविस्तीर्णे कृते राजा विनश्यति ।
तस्माद्दृष्टिः सदा देया तोरणान्तर्गता शुभा ॥
अष्टहस्तं सुशोभाढ्यं शैलवृक्षमयं च वा ।
तोरणं शस्यते देव्या वापी कूपजलं वनम् ॥
पूर्वोत्तरे तथैशान्यामारामः शुभदः कृतः ।
देवीनां मातृकाणां च स भवेत्सर्वकामदः ॥
यथाशुभग्रहाद्देवाद्यच्च कालकृतं भवेत् ।
तत्सर्वं देवतागारे कृतं भवति शोभनम् ॥
बलिजाप्यक्रिया नित्यं मातृकाणां शुभा भवेत् ।
पुरपत्तनग्रामाणां ब्रह्मपुर्यः सकामदाः ॥
ब्रह्मविद्या कलोपेता यत्र वेदविदोऽवसन् ।
सा पुरी कमला नाम सर्वलोकसुखावहा ॥
विद्या ह्येका तथा द्वित्राश्चतस्रो यत्र संस्थिताः ।
रुद्रो देवी च विजया गायत्री च क्रमात्मना ॥
गृहपङ्गिगताः कार्याः शुभवर्त्म ऋजुस्थिताः ।
पूर्वोत्तरसुमार्गस्थाः सजला देवतान्विताः ॥
ब्रह्मात्रिदशपूजार्थं मठादिसमुपकल्पयेत् ।