वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 96, कुल 490 में से
संदर्भ में पढ़ें९६ वीरमित्रोदयस्य राजनीतिप्रकाशे
धसम्भारानन्तरमस्मै क्षत्रियायोदुम्बरकाष्ठसम्बन्धिनीमासन्दी-
मासनं सम्पादयेयुः । चतुष्कोणो दण्डयुक्तो मध्ये निम्नः
पात्रविशेषश्चमसः, आकाररहिता पात्री, तयोरन्यतरत्सम्पाद-
येत् । यद्वा पात्री मृन्मयी उदुम्बरशाखा च । ततः पात्रीच-
मसयोरेकस्मिन् वानस्पत्यौषधसम्भारान् समावपेयुः । ततो
दध्यादिभिः संसिच्य चमसं भूमौ संस्थाप्य बृहदितिमन्त्रेण
आसन्दीमभिमन्त्रयेत् । तस्या आसन्द्या उक्तं ब्राह्मणमित्युक्त-
म् । तदाह प्रदेशान्तरे—
औदुम्बर्याासन्दी तस्यै प्रादेशमात्राः पादाः स्युररत्निमात्रा-
णि शीर्षण्याऽनूच्यानि मौञ्जं विवयनं व्याघ्रचर्मास्तरणम्।
(पं० ८ अ० २ खं० ५)
अस्यार्थः। तस्यै तस्याः। वितते अङ्गुष्ठतर्जन्यौ प्रादेशः। पा-
दाश्चत्वारः । प्रादेशद्वयमरत्निः । उपरिभागेऽवस्थितानि का-
ष्ठानि शीर्षण्यानि, तिर्यगवस्थितान्यनूच्यानि । मौञ्जं मुञ्ज-
तृणरज्जुनिर्मितम् । विवयनम् रज्जूनामोतप्रोतरूपेण संयोज-
नम् । तदुपरि व्याघ्रचर्म निदध्यात् । उदुम्बरव्याघ्रचर्मणी द-
ध्यादि च स्तौति—
अथ यदौदुम्बर्याासन्दी भवत्यौदुम्बरश्चमस उदुम्बरशाखो-
र्वा अन्नाद्यमुदुम्बर ऊर्जमेवास्मिंस्तदन्नाद्यं दधाति । (पं० ८
अ० २ खं० ८)
ऊर्क् अन्नम्, अन्नाद्यं रसः ।
व्याघ्रचर्मणा स्तृणात्युत्तरलोम्ना प्राचीनग्रीवेण क्षत्रं वा
एतदारण्यानां पशूनां यद्व्याघ्रः क्षत्रं राजन्यः क्षत्रेणैव तत् क्षत्रं
समर्द्धयति । (पं० ८ अ० २ खं० ६)
उत्तरलोम्ना उपरिभागस्थितलोम्ना । प्राचीनग्रीवेण प्राग-