सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 97, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 97

ऐतरेयब्राह्मणोक्तो राजाभिषेकः । ९७
वस्थितग्रीवेण । क्षत्रं शूरः । आरण्या हरिणादयः ।
अथ यद्दधि मधु घृतं भवत्यपां य ओषधीनां रसोऽपामेवा-
स्मिंस्तदोषधीनां रसं दधात्यथ यदातपवर्ष्या आपो भवन्ति ते-
जश्च ह वै ब्रह्मवर्चसं चाऽऽतपवर्ष्या आपस्तेज एवास्मिंस्तद्ब्रह्म-
वर्चसं च दधाति । ( पं० ८ अ० २ खं० ८ )
दधिघृतयोः पशुभक्षिततृणोदकजन्यत्वादोषधिरसत्वम् ।
मधुनोऽपि मधुकरानीतपुष्परसत्वात् । अपाम् आतपसम्बन्धा-
त्तेजस्त्वम्, फलोत्पादनाद्ब्रह्मवर्चसत्वम् । आतपवर्ष्याः आत-
पयुक्तवर्षाभवा आपः ।
बृहदिति वक्ष्यमाणमन्त्रेणाभिमन्त्रयेदित्युकम्, तस्यार्थः-
बृहदादीनि सामानि । प्राचीनातानाः प्राक्प्रत्यगायताः ।
मौञ्जास्तन्तवः । तिरश्चीनवायाः तिर्यक्प्रोतास्तन्तवः । अती-
काशा रज्ज्वन्तराच्छाच्छिद्राणि । यशः कीर्त्तिः । उपबर्हणं शिरस
उपधानम् । एनं राजानम्, आरोहयेत् पुरोहितः, वसवस्त्वे-
त्याद्यारोहान्तेन मन्त्रेण । वस्वादयो देवा गायत्र्यादिभिश्चन्दो-
भिस्त्रिवृदादिस्तोमै रथन्तरादिसामभिश्च सह हे आसन्दि त्वां
आरोहन्तु । तान् अनु पश्चात् त्वम् आरोह । स्वावशं स्वाधी-
नत्वम् । राजकर्त्तारः पितृव्यभ्रात्रादयः, परस्परमिदम-
ब्रुवन् । यथा वन्दिनो गुणानुवादेन कीर्त्तनम्, एवमत्रापि गु-
णकीर्त्तनमभ्युत्क्रोशनं तेन रहितोऽनभ्युत्क्रुष्टः । वीर्यं परभीति-
जनकं पराक्रमम्, उत्क्रोशाम, कीर्त्या उद्घोषयाम, इति विचार्य,
तथेत्यङ्गीकृत्य । अभ्युत्क्रोशनप्रकारः-इममिति । भो जना लोका,
इमं क्षत्रियम्, अभ्युत्क्रोशत उद्घोषयत । कीदृशम् । सम्राजं
सम्राट्स्वरूपम्, अत एव साम्राज्यं कर्त्तुमर्हति । एवं स्वराजादि ।
भोजं भोक्तारम् । भोजपितरं भोगपालकम् । क्षत्रं क्षत्रियजा-
१३