सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 91, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 91

स्वेष्वेव तद्गृहेषु सुहितो वसति तस्मा इळा पिन्वते विश्वदानी-
मित्यन्नं वा इळान्नमेवास्मा एत ऊर्जस्वच्छश्वद्भवति तस्मै विशः
स्वयमेवानमन्त इति राष्ट्राणि वै विशो राष्ट्राण्येवैतत्स्वयमुपनम-
न्ति यस्मिन् ब्रह्मा राजनि पूर्व एतीति पुरोहितमेवैतदाहाप्र-
तीतो जयति सन्धनानीति राष्ट्राणि वै धनानि तान्यप्रतीतो
जयति प्रतिजन्यान्युत या सजन्येति सपत्ना वै द्विषन्तो भ्रातृ-
व्या जन्यानि तानप्रतीतो जयत्यवस्यवे यो वरिवः कृणोतीति
यदाहावसीयसे यो वसीयः करोत्येव तदाह ब्रह्मणे राजा तमवन्ति
देवा इति पुरोहितमेवैतदभिवदति । (पं० ८ अ०५ खं०२६)
द्रढयति-तदप्येतदृषिणोक्तमित्यादिना । तदस्य माहात्म्य-
मृषिणा मन्त्रदर्शिनोक्तं तिसृभिर्ऋग्भिः । तत्राद्यामृचमुदाहरति-
स इदिति । स इत्, स एव पुरोहितयुक्तो राजा । प्रतिजन्यानि
प्रतिपक्षबलानि । विश्वा, सर्वाणि । शुष्मेण, वीर्येण स्वकी-
येन । अभितस्थौ, अभिभवति । "छन्दसि परेऽपि” इत्यमेः
परप्रयोगः । अमुमेवार्थं सपत्नेत्यादिना वक्ति । सपत्ना, अस्यैव
व्याख्या द्विषन्तो भ्रातृव्या इति । तान् सपत्नान्, जन्यानि
बलानि च । बृहस्पतिं बृहस्पतिसमम् । सुष्ठु हितोपदेशादिना
राजानं बिभर्त्ति स सुभृत् तं पुरोहितं यो राजा बिभर्त्ति पो-
षयति । अस्यार्थवादो बृहस्पतित्यादिना । तं बृहस्पतिम् ।
अनु पश्चात् । पुरोहितं य इति पठितव्ये बृहस्पतिमिति प-
ठितम् । पूर्वभाजम्, हितविचारेण पूर्वभजनयुक्तं पुरोहितम् । व-
ल्गूयति, अर्चयति । वन्दते, नमस्करोति । अनेनास्मा अस्मिन्ने-
वापचितिं पूजामाह । द्वितीयामृचमुदाहरति-स इदिति । स
इत्, सपुरोहितो राजा । स्वे, स्वकीये । ओकसि, गृहे । सुधितः
सुप्रीतः। क्षेति,वसति । तस्मै,पुरोहितसहिताय राज्ञे । इळा, अन्नम् ।