सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 92, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 92

९२. वीरमित्रोदयस्य राजनीतिप्रकाशे
दप्रक्षालनमन्त्रः-दक्षिणमिति । अवनेनिजे प्रक्षालयामि । तेने-
न्द्रियं धनम् । अन्यं दक्षिणम्, अन्यं वामम् । भो देवाः गुप्त्यै
रक्षायै, अवरुद्ध्यै सम्पादनाय । प्रक्षालनावशिष्टानाम् अपां मन्त्रणम्-
आप इति । पादावनेजनीः पादशुद्धिकारिण्यः ।
तथा,
स य इच्छेदेवंवित् क्षत्रियमयं सर्वा जितीर्जियेतायं सर्वाँ-
ल्लोकान्विन्देतायं सर्वेषां राज्ञां श्रेष्ठ्यमतिष्ठां परमतां ग-
च्छेत साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं मा-
हाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात्सार्वभौमः सार्वायुष
आन्तादापरार्द्धात्पृथिव्यै समुद्रपर्यन्ताया एकराडिति तमेतेनै-
न्द्रेण महाभिषेकेण क्षत्रियं शापयित्वाभिषिञ्चेद्यां च रात्रीम-
जायेथा यां च प्रेतासि तदुभयमन्तरेणेष्टापूर्तं ते लोकं सुकृत-
मायुः प्रजां वृञ्जीयां यदि मे द्रुह्येरिति स य इच्छेदेवंवि-
त् क्षत्रियोऽहं सर्वा जितीर्जयेयमहं सर्वांल्लोकान्विन्देयमहं स-
र्वेषां राज्ञां श्रेष्ठ्यमतिष्ठां परमतां गच्छेयं साम्राज्यं भौ-
ज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिप-
त्यमहं समन्तपर्यायी स्यां सार्व्यायुष आन्तादापरार्द्धात्पृथिव्यै स-
मुद्रपर्यन्ताया एकराडिति स न विचिकित्सेत्स ब्रूयात्सह
श्रद्धया यां च रात्रीमजायेऽहं यां च प्रेतास्मि तदुभयमन्तरेणे-
ष्टापूर्तं मे लोकं सुकृतमायुः प्रजां वृञ्जीथा यदि ते द्रुह्येयमिति ।
( पं० ८ अ० ४ खं० १५)
यः पुरोहितः एवंवित् ऐन्द्रमहाभिषेकवित्, अयं क्षत्रियः
सर्वा जितीर्युद्धभूमीर्जयेतेत्यादिफलभाजं यं क्षत्रियमिच्छेत्,
तं शापयित्वा शपथं कारयित्वा एतेन वक्ष्यमाणेनाभिषे-
केणाभिषिञ्चेत् । फलेच्छां दर्शयति—लोकान् देशान् वि-