वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 58, कुल 490 में से
संदर्भ में पढ़ें५६ वीरमित्रोदयस्य राजनीतिप्रकाशे
ततो ब्राह्मणमुख्यानां पूजनं तु समाचरेत् ।
गोवस्त्रतिलरूप्यान्नफलकाञ्चनगोरसैः ॥
मोदकैः श्वेतपुष्पैश्च महीदानैश्च सुव्रत ।
आथर्वणपरिशिष्टे तु विशेषः ।
मधुपर्काद्येन विधिना सर्वार्थं सम्पाद्य दक्षिणां दद्यात्, को-
टिमध्यात्तृतीयं भागं यथाभूमिप्रमाणेना वा । हस्त्यश्वरथयानं
दिव्यमाभरणमातपत्रं हिरण्यं क्षितिगोधनधान्यरत्नादिकं स्वगुरवे
दद्यात्, येन वा तुष्येत । इति ।
तदुत्तरकर्त्तव्यं च विष्णुधर्मोत्तरे अभिहितम्—
मङ्गलालम्भनं कृत्वा गृहीत्वा सशरं धनुः ।
वह्निं प्रदक्षिणं कृत्वा प्रणिपत्य तथा गुरून् ॥
पृष्ठतो वृषमालभ्य गां सवत्सां च पार्थिव ।
पूजयित्वा तुरङ्गं च मन्त्रितं चाभिषेचितम् ॥
तमारुह्य ततो नागं पूजयेच्चाभिषेचितम् ।
मन्त्रितं दक्षिणे कर्णे स्वयं दैवविदा ततः ॥
आरुह्य राजमार्गेण स्वपुरं तु परिभ्रमेत् ।
मुख्यामात्यैः ससामन्तैः सांवत्सरपुरोहितैः ॥
सहितः कुञ्जरारूढैरभिगच्छेच्च देवताः ।
तासां सम्पूजनं कृत्वा नगरे या निषेविताः ॥
प्रविश्यान्तर्गृहं राजा प्रहृष्टनरवाहनः ।
दानमानादिसत्कारैर्हृदीयात्मप्रकृतीस्ततः ॥
सम्पूजितास्ताश्च विसर्जायित्वा गृहे स्वके स्यान्मुदितो महात्मा ।
विधानमेतत्समवाप्य राजा कृत्स्नां च धात्रीं वशगां विदध्यात् ॥
वृद्धवसिष्ठोऽपि,
प्राग्भागे मन्दिरस्याथ गोमयेन तु कारयेत् ।