सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 57, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 57

विष्णुधर्मोत्तरोक्तराजाभिषेकः ५५
व्याघ्रव्यालगजांसहा अश्वोष्ट्रौ मांहषो वृषः ।
भूषणेषु त्यजेदष्टौ यदीच्छेद्दीर्घजीवितम् ॥ इति ।
श्रीवृक्षो बिल्वः । इभो गणेशः । स्वामी कार्त्तिकेयः ।
वराहसंहितायामपि दैर्ध्यादिमानं भङ्ग्यन्तरेणोक्तम्, मध्य-
विस्तारमुक्त्वा ।
सर्वे द्विगुणायामा मध्यादर्धेन तदर्धविस्ताराः ।
सर्वे विशुद्धकाञ्चनविनिर्मिताः श्रेयसो वृद्धयै ॥
पञ्चशिखो भूमिपतेस्त्रिशिखो युवराजमहिष्योः ।
एकशिखः सैन्यपतेः प्रसादपट्टो विना शिखया ॥ इति ।
विष्णुधर्मोत्तरे,
ततः स बद्धमुकुटः काले पूर्वं मयोदिते ।
पराद्धर्यास्तरणोपेते मञ्चे बद्धोत्तरच्छदे ॥
परार्द्धं बहुमूल्यम् ।
ध्रुवाद्यौरितिमन्त्रेण सोपवेश्यः पुरोधसा ।
वृषस्य वृषदंशस्य द्वीपिनश्च मृगूद्रह ॥
तेषामुपरि सिंहस्य व्याघ्रस्य च परं ततः ।
वृषदंशो मार्जारः । द्वीपी चित्रकः ।
तत्रोपविष्टस्य तदा प्रतीहारः प्रदर्शयेत् ।
अमात्यांश्च तथा पौरान्नैगमांश्चापणेश्वरान् ॥
तथा प्रकृतयश्चान्या यथावदनुपूर्वशः ।
ततोऽग्रहारवस्त्रेभतुरङ्गकनकोत्तमैः ॥
गोजाविगृहदानैश्च सांवत्सरपुरोहितौ ।
पूजयित्वा ततः पश्चात् पूजयेद्ब्राह्मणत्रयम् ॥
अनेनैव विधानेन येन राजाऽभिषेचितः ।
ततः सदस्यान्सम्पूज्य सांवत्सरपुरोधसः ॥