सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 56, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 56

५४ वीरमित्रोदयस्य राजनीतिप्रकाशे
मन्त्राः सुरास्त्वा इत्यादयो वक्ष्यमाणाः ।
ततः पश्येन्मुखं राजा दर्पणे वापि सर्पिषि ॥
सोष्णीषः सितवस्त्रश्च मङ्गलालम्भनं ततः ।
कृत्वा सम्पूजयेद्विष्णुं ब्रह्माणं शङ्करं तथा ॥
लोकपालं ग्रहांश्चैव नक्षत्राणि च भार्गव ।
ततः स्वपूजां कुर्वीत शयनीयं ततो व्रजेत् ॥
व्याघ्रचर्मोत्तरं रम्यं सितवस्त्रोत्तरच्छदम् ।
पुरोधा मधुपर्केण तत्रस्थं तं समर्पयेत् ॥
राजाऽऽदौ चार्चयेत्तत्र सांवत्सरपुरोहितौ ।
मधुपर्केण धर्मज्ञस्ततस्तस्य स दैववित् ॥
पट्टबन्धं प्रकुर्वीत मुकुटस्य च बन्धनम् ।
पट्टलक्षणं तु—
देवीपुराणे,
सर्वस्नानमलङ्कारं रोचनारुष्यं च पट्टकम् ।
वृद्ध्याऽब्ध्यङ्गुलमङ्गुल्या षट्त्रिंशदङ्गुलावधि ॥
वृत्तं वा चतुरस्रं वा पञ्चकत्रिकगर्भितम् ।
वत्सेशपद्ममत्स्येभगोस्वस्तिकविनायकैः ॥
श्रीश्रीवृक्षवराहेभस्वामिदेवीशुभान्वितम् ।
अब्ध्यङ्गुलं सप्ताङ्गुलम्, अङ्गुल्या एकया सहितमष्टाङ्गुलम्
इत्येकं पट्टलक्षणम्, तदारभ्य सप्ताङ्गुलकृतवृद्ध्या चत्वारि
लक्षणानि, एवं पञ्चविधः । तस्य दैर्घ्यार्धेन मध्यदेशविस्तारः,
तदर्धेन प्रान्तद्वयविस्तारः । स एवं वृत्तः कोणरहितश्चतुरस्रो
वा । वत्सेशः श्रीवत्सधारी विष्णुः । इभो हस्ती, महामात्राधि-
ष्ठितः । गौः स्त्रीगवी । केवल एव हस्ती वृषभश्च निषिद्धो—
विश्वकर्मणा,