सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 55, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 55

विष्णुधर्मोत्तरोक्तराजाभिषेकः । ५३
ये देवाः पुरः सदेति कुशाद्भिः परिमार्जयेत् ॥
ऋग्वेदवित्ततो राज्ञो रोचनया यथाविधि ।
मूर्द्धानं च तथा कण्ठं गन्धद्वारेति संस्पृशेत् ॥
ततो ब्राह्मणमुख्याश्च क्षत्रियाश्च विशस्तथा ।
शूद्राश्चावरमुख्याश्च नानातीर्थसमुद्भवैः ॥
अवरमुख्या मूर्द्धावसिक्तादयः ।
नादेयैः सारसैः कौपैर्नानाकलशसंस्थितैः ॥
चतुःसागरजैर्लाभादलाभे द्विजकल्पितैः ।
गङ्गायमुनयोश्चैव निर्झरैश्च तथा द्विजैः ॥
छत्रपाणिर्भवेत्कश्चित्केचिच्चामरपाणयः ।
अमात्यमुख्यास्तत्कालं केचिद्वेत्रधरास्तथा ॥
शङ्खभेरीनिनादेन वन्दिनां निस्वनेन च ।
गीतवादित्रघोषेण द्विजकोलाहलेन च ॥
राजानमभिषिञ्चेयुः समेत्य सहिता जनाः ।
सर्वलोकाभिषिक्तस्य सम्मिश्रजलसंयुक्तम् ॥
सम्मिश्रजलानि नादेयादीनि दश ।
सर्वौषधियुतं पुण्यं सर्वगन्धयुतं तथा ॥
रत्नबीजसमायुक्तं फलपुष्पयुतं तथा ।
पूजितं सितसूत्रेण वेष्टितग्रीवमेव च ॥
पूजितम्–सर्वतो गन्धादिनाऽभ्यर्चितम् ।
श्वेतवस्त्रावकान्तैश्च संवीतं शुचि भूषितम् ।
अवकाः शैवालम् ।
क्षीरवृक्षलताच्छन्नं सुहृष्टं काञ्चनं नवम् ॥
आदाय कलशं राज्ञः स्वयं सांवत्सरस्तदा ।
मन्त्रावसाने कलशं दद्याद्भृगुकुलोद्वह ॥