वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 54, कुल 490 में से
संदर्भ में पढ़ें५२ वीरमित्रोदयस्य राजनीतिप्रकाशे
वराहसंहितायामपि,
त्रिविधस्तस्योच्छ्रायो हस्तः, पादाधिकोऽर्द्धयुक्तश्च ।
माण्डलिकान्तरजित्समस्तराज्यार्थिनां शुभदः ॥ इति ।
तच्च भद्रासनं नूतनमेव कार्यम् । तदुक्तम्—
विष्णुधर्मोत्तरे,
भद्रासनं च छत्रं च बालव्यजनमेव च ।
खङ्गं चक्रं तथा चापं रत्नानि विविधानि च ॥
राज्ञो मृतस्य ये त्वासन् सर्व एते नराधिप ।
न ते कार्या नरेन्द्रस्य तेन दैवविदा तदा ॥
कामं सांवत्सरः कार्योऽह्यलाभेऽन्यस्य भूभुजा ।
गुणाधिकाश्चेन्नो कार्या येऽन्येऽत्राभिहिता मया ॥ इति ।
पूर्वे चेद्गुणाधिकास्तदा ये अन्ये कर्त्तव्या इत्यभिहितास्ते
नो कार्या इत्यर्थः ।
तथा तत्रैव,
शतच्छिद्रेण पात्रेण सौवर्णेन यथाविधि ।
अभिषिञ्चेत धर्मज्ञः सम्यग्वेदविशारदः ॥
या ओषधीरोपधिभिः श्रुताभिः सुसमाहृतः ।
ओषधिभिः अष्टौषधिगर्भकुम्भोदकेन ।
रथे तिष्ठेति गन्धैश्च आब्रह्मन्ब्राह्मणेति च ।
गन्धैः सर्वगन्धकुम्भोदकेन ।
बीजैः पुष्पैस्तथासीनं रामं पुष्पवतीति च ।
बीजैः बीजपूर्णकुम्भोदकेन । पुष्पैः पुष्पपूर्णकुम्भोदकेन ।
पुष्पवतीत्याथर्वणो मन्त्रः
तेनैव चैव मन्त्रेण फलैस्तमभिषेचयेत् ॥
आशुः शिशान इत्येवं सर्वरत्नैश्च भार्गव ।