सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 53, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 53

विष्णुधर्मोत्तरोक्तराजाभिषेकः । ५१
पञ्चगव्येन, जलेन कुशोदकेन च ।
ततो भद्रासनगतं मुख्यामात्यचतुष्टयम् ।
बलप्रधानं भूपालमभिषिञ्चेद्यथाविधि ॥
पूर्वतो हेमकुम्भेन घृतपूर्णेन वाडवः ।
वाडवो ब्राह्मणः ।
दक्षिणे क्षीरपूर्णेन रौप्यकुम्भेन क्षत्रियः ॥
दध्ना च ताम्रकुम्भेन वैश्यः पश्चिमतस्तथा ।
कौबेर्यां मधुकेनाथ छन्दोगोऽथ कुशोदकैः ॥
मधुना कुशोदकैश्च छन्दोगः ।
सम्पातवन्तं कलशं तथाऽऽहृत्य पुरोहितः ।
विधाय वह्निरक्षां तु सदस्येषु यथाविधि ॥
विधाय वह्निरक्षाम्–वह्निं रक्षध्वमित्युक्त्वा ।
राजसूयाभिषेके तु ये मन्त्राः परिकीर्त्तिताः ॥
ते च मन्त्रा वक्ष्यन्ते ।
तैस्तु दद्यान्महाभाग ब्राह्मणानां स्वरेण तु ।
स्वरेण मन्त्रघोषेण ।
ततः पुरोहितो गच्छेद्वेदिमूलं तथैव तु ॥
वेदिमूलं कुण्डम् ।
विभूषितं तु राजानं संस्थितं भद्र आसने ।
भद्रासनलक्षणम्–
देवीपुराणे,
हैमं च राजतं ताम्रं क्षीरवृक्षमयं च वा ।
भद्रासनं च कर्त्तव्यं सार्द्धहस्तसमुच्छ्रितम् ॥
सपादहस्तमानं च राज्ञो माण्डलिकान्तरात् ।