सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 378, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 378

३८२ वीरमित्रोदयस्य राजनीतिप्रकाशे
लग्नषोडशकोष्ठेषु तद्द्वितीयाद्यावरणदेवतानां कुम्भाः स्था-
पनीयाः । सर्वे चैते “मही द्यौः” इत्यादिमन्त्रैर्भूमिस्पर्शादिपूर्वकं
प्रसिद्धकलशस्थापनप्रकारेण पदार्थानुसमयेन स्थाप्याः । ततः
सर्वेषु प्रणवेन गन्धोदकपूरणं मध्ये च पञ्चरत्नकनकशलकब्र-
ह्मकूर्चानां साधारणानां च पञ्चपल्लवसप्तमृत्तिकादीनां प्रक्षेपः ।
बहिश्च चन्दनपुष्पमालाकण्ठवेष्टनसूत्रैरलङ्करणं वस्त्रयुग्मवेष्टनं
हैमरत्नचित्रकमलप्रच्छादनं च प्रत्येकं पदार्थानुसमयेनैव स-
सहायेनाचार्येण कार्यम् । ततः सिंहासनसहितानां सर्वप्रति-
मानामग्न्युत्तारणं विधाय शिवकुम्भोपरि सिंहासनं स्थापयि-
त्वा तस्याग्नेयादिकोणगतेषु सितरक्तहिरण्याभकृष्णवर्णेषु चतर्षु
सिंहाकारेषु पादेषु धर्मज्ञानवैराग्यैश्वर्याणि प्रणवेनावाह्य तत्त-
द्वर्णाकाराणि ध्यात्वा तस्यैव पूर्वादिदिग्गतेषु सुवर्णवर्णेषु
चतुर्षु गात्रेषु अव्यक्तं नियतिं कालं कालीं च प्रणवेनैवावाह्य
तत्तद्वर्णाकारान्ध्यात्वा सर्वान्प्रणवेनैव यथाविभवं सम्पूज्य
सिंहासनमध्यगते कमले पद्मवस्त्रासने उक्तलक्षणां शिवप्रतिमां
कमलमध्ये आधारशक्तिं तदुपरि कलां तदुपरि जगत्कारणं
बिन्दुं तदुपरि नादं तदुपरि च प्रणवाख्यं जगद्गुरुं शिवं स्था-
पयामीति भाषयन् प्रणवपूर्वया, तत्पुरुषाय विद्महे महादेवाय
धीमहि । तन्नो रुद्रः प्रचोदयादितिशिवगायत्र्या स्थापयित्वा
शिवपादमूले कर्णिकायां मनोन्मनीं मनोन्मनाख्यमहादेवं च
“मनोन्मनाय देवाय मनोन्मन्यै नमो नम” इति मन्त्रेण स्थाप-
येत् । एतासां देवतानां पूजनेऽप्येत एव मन्त्राः । वक्ष्यमाण-
देवतानां तु प्रणवपूर्वैर्नमोऽन्तैश्चतुर्थ्यन्तैः स्वस्वनामभिरेव स्था-
पनं पूजनं च । ततः प्रधानकमलकेसरेषु प्रागादिक्रमेण वामा,
ज्येष्ठा, रौद्री, काली, कलाविकरणी, बला, बलप्रमथनी, सर्वभूत-