सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 377, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 377

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकप्रयोगः । ३८१

नुज्ञातो मण्डपदेवतास्थापनायाचार्यकर्म करिष्य इति सङ्कल्प्य,
मण्डपान्तः सर्वतः सर्षपविकिरणेन “यदत्र संस्थितं भूतम्” इ-
त्यादिभिर्भूतान्युत्सार्य आपोहिष्ठेत्यादिभिरब्लिङ्गैः शुची वो-
हव्येत्यादिभिः शुद्धिलिङ्गैश्च मन्त्रैः सर्वतः कुशोदकेनाभ्युक्ष्य स-
र्वसाधारणेन प्रकारेण पूर्वादिक्रमेण तोरणपूजां तत्रत्यकलश-
स्थापनं पूर्वादिद्वाराग्नेयादिकोणगतकलशस्थापनं तत्रत्यदेव-
तापूजां द्वारेषु च ऋग्वेदाद्यध्येतृब्राह्मणयुगलचतुष्टयवरणं य-
थाविभवं तत्पूजां इन्द्रादिलोकपालदशकावाहनध्यानपूजनानि
पताकाध्वजोच्छ्रायणानि माषभक्तबलिदानं च तत्तदुद्देशेन
महाध्वजस्थापनं तत्र ब्रह्मपूजनं मण्डपस्तम्भवंशगतदेवतापू-
जनं मण्डपपूर्वादिग्गतदेवतावाहनपूजनबलिदानानि च सम-
न्त्रकं कुर्यात् । प्रतिष्ठाप्रकाशे उक्तत्वाद्विस्तरापत्तेश्च स प्र-
कारो नोच्यते । ततो वेद्यां पूर्वोक्तप्रकारेण लिखिते राजा-
भिषेककलशस्थापनार्थे मण्डले मध्यगते व्यूहनवके अवशिष्ट-
चत्वारिंशद्व्यूहगतकोष्ठेषु च सर्वमण्डलानां सर्वतोभद्रप्र-
कृतिकत्वात्तदुक्तप्रकारेण ब्रह्मादिमण्डलदेवतानामावाहनं यथा-
विभवं तत्पूजनं ताभ्यश्च बलिदानं विधाय सर्वाणि पद्मानि
प्रणवेनाम्भसाभ्युक्ष्य तेषु सर्वेषु प्रणवं विन्यस्य कुशानास्तीर्य
प्रधानपद्ममध्ये पूर्वोक्तलक्षणं तन्तूनां परस्परान्तरालं यवमात्रं
यथा स्यात्तथा जालान्तरवेष्टितं शिवकुम्भं संस्थाप्य तद्वाम-
भागे करकसंज्ञां वर्धनीं स्थापयेत् । ततस्तस्यैव पद्मस्य केस-
रेषु वामाद्यष्टशक्तीनां ततो दलेषु वामदेवाद्यष्टरुद्राणामुक्तल-
क्षणाः कुम्भाः स्थाप्याः । ततः पञ्चविंशतिकोष्ठकचत्वारि-
शद्व्यूहगतमध्यमध्यकोष्ठेषु सुभद्रादिचत्वारिंशद्व्यूहेश्वराणां
तत्तत्संलग्नाष्टाष्टकोष्ठेषु तत्प्रथमावरणदेवतानां तत्तत्सं-