वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 342, कुल 490 में से
संदर्भ में पढ़ें३४६ वीरमित्रोदयस्य राजनीतिप्रकाशे
शङ्ख इक्षुस्तथा भक्ष्या वाचश्चैव तथा शुभाः ।
वादित्राणां सुखः शब्दो गम्भीरश्च मनोहरः ॥
गान्धारषड्जऋषभा याने शस्तास्तथा स्वराः ।
अनुकूलो मृदुः स्निग्धः सुखस्पर्शः सुखावहः ॥
वायुरिति शेषः । अनुकूलः, पृष्ठलग्नः ।
मेघाः शस्ता घनाः स्निग्धा गजबृंहितसन्निभाः ॥
बृंहितं, शब्दः ।
अनुलोमा तडिच्छस्ता शक्रचापं तथैव च ।
अनुलोमा ग्रहाः शस्ता दिक्पतिस्तु विशेषतः ॥
आस्तिक्यं श्रद्धानत्वं तथा पूज्याभिपूजनम् ।
शस्तान्येतानि धर्मज्ञ यच्च स्यान्मनसः प्रियम् ॥
मनसस्तुष्टिरेवात्र परमं जयलक्षणम् ।
एकतः सर्वलिङ्गानि मनसस्तुष्टिरेकतः ॥
यानोत्सुकत्वं मनसः प्रहर्षः सुस्वप्नलाभो विजयप्रवादः ।
मङ्गल्यलब्धिः श्रवणं च राम ज्ञेयानि नित्यं विजयावहानि॥इति।
इति दृष्टशकुनानि ।
अथापशकुनानि ।
विष्णुधर्मोत्तरे,
औषधानि च युक्तानि धान्यं कृष्णमशोभनम् ।
कार्पासतृणकाष्ठं च गोमयं चेतराणि च ॥
युक्तानि, संयोजितानि । गोमयं, शुष्कगोमयम् । आर्द्रगो-
मयस्य शकुनेषु पाठात् ।
अङ्गारं गुडमज्जास्तु मुण्डाभ्यक्तं च नग्नकम् ।
अङ्गारं सधूमम् ।