वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 343, कुल 490 में से
संदर्भ में पढ़ेंयात्राप्रकरणे अपशकुनानि । ३४७
अयः पङ्कं चर्म केशा उन्मत्तं च नपुंसकम् ।
चण्डालश्वपचाद्याश्च नरा बन्धनपालकाः ॥
गर्भिणी स्त्री च वधकापिण्याकादीनि वै मृतम् ।
मृतं, सरुदितम् । अरुदितमृतस्य शकुनेषु पाठात् ।
तुषभस्मकपालास्थिभिन्नभाण्डानि यानि च ।
अहृद्यो वधशब्दश्च भिन्नभैरवगर्जितः ॥
एहीति पुरतः शब्दः शस्यते न तु पृष्ठतः ।
गच्छेतिशब्दः पश्चात्तु पुरस्तादपि गर्हितः ॥
क्व यासि तिष्ठ मा गच्छ किं ते तत्र गतस्य च ।
अन्ये शब्दाश्च ये दुष्टास्ते विपत्तिकरा अपि ॥
ध्वजादिषु तथा स्थानं क्रव्यादानां विगर्हितम् ।
स्खलनं वाहनानां च वस्त्रसङ्गस्तथैव च ॥
विनिर्गतस्य द्वाराद्यैः शिरसश्चाभिघातनम् ।
छत्रध्वजादिवस्त्राणां पतनं च तथा ऽशुभम् ॥
वायुः सशर्करो रूक्षः सर्वदिग्भ्यः समुत्थितः ।
प्रतिलोमस्तथा नीचो विज्ञेयो भयकृद्विज ॥
ऋक्षा रूक्षस्वराः खड्गाः क्रव्यादाश्च विगर्हिताः ।
अप्रशस्ते तथा ज्ञेये परिवेषप्रवर्षणे ॥
दृष्ट्वा निमित्तं प्रथमं मङ्गल्यं विघ्ननाशनम् ।
केशवं पूजयेद्विद्वांस्तथैव मधुसूदनम् ॥
द्वितीये तु ततो दृष्टे प्रतीपे प्रविशेद्गृहम् । इति ।
इत्यपशकुनानि ।
अथ निमित्तानि ।
अङ्गदक्षिणभागे तु शस्तं प्रस्फुरणं शुभम् ।