वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 341, कुल 490 में से
संदर्भ में पढ़ेंयात्राप्रकरणे इष्टशकुनानि । ३४५
स निष्क्रम्य महानीशो न पृष्ठमवलोकयेत् ।
मङ्गलानिततः पश्यन्निमित्तं च शनैर्व्रजेत् ॥ इति ।
मङ्गलानि, मङ्गलसूचकानि शकुनानि । निमित्तं, शरीर-
स्फुरणादि ।
अथेष्टशकुनानि ।
तत्र विष्णुधर्मोत्तरे,
अथेष्टानि प्रवक्ष्यामि मङ्गलानि तवानघ ।
श्वेताः सुमनसः श्रेष्ठाः पूर्णकुम्भास्तथैव च ॥
जलजानि च शस्यानि मांसं मत्स्याश्च भार्गव ।
सस्यम्, अकृष्णं धान्यं, कृष्णधान्यस्यापशकुनेष्वग्रे पठितत्वात् ।
गावस्तुरङ्गमा नागा बद्ध एकः पशुस्त्वजः ।
त्रिदशाः सुहृदो विप्रा ज्वलितश्च हुताशनः ॥
गणिका च महाभाग दूर्वा चार्द्रा च गोमयम् ।
रुक्मं रौप्यं तथा ताम्रं सर्वरत्नानि चाप्यथ ॥
औषधानि च सर्वज्ञ वचासिद्धार्थके तथा ।
औषधानि, असंयोजितानि ।
नृवाह्ययानं यानं च भद्रपीठं तथैव च ।
खड्गं छत्रं पताकां च मृदमायुधमेव च ॥
राजलिङ्गानि सर्वाणि शवं रुदितवर्जितम् ।
घृतं दधि पयश्चैव फलानि विविधानि च ॥
स्वस्तिकं वर्धमानं च नन्द्यावर्तं सकौस्तुभम् ।
नद्यश्च चित्रविन्यस्ता मङ्गल्यान्यपराणि च ॥
अक्षताश्च तथा मुख्यास्तथा दर्पणमेव च ।
अञ्जनं रोचनं चैव भृङ्गारो माक्षिकं तथा ॥
४४