सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 338, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 338

३४२ वीरमित्रोदयस्य राजनीतिप्रकाशे
गरुत्मान्मारुतगतिस्त्वयि सन्निहितः स्थितः ।
साश्ववर्मायुधान्योधान् रक्षास्माकं महीमसून् ॥
इति ध्वजमन्त्रः
कुमुदैरावणौ पद्मः पुष्पदन्तोऽथ वामनः ।
सुप्रतीकोऽञ्जनो नील एतेऽष्टौ देवयोनयः ॥
तेषां पुत्राश्च पौत्राश्च वनान्यष्टौ समाश्रिताः ।
भद्रो मन्दो मृगश्चैव गजः सङ्कीर्ण एव च ॥
वने वने प्रसूतास्ते स्मर योनिं महागज ।
पान्तु त्वां वसवो रुद्रा आदित्याः समरुद्गणाः ॥
भर्तारं रक्ष नागेन्द्र समयः प्रतिपाल्यताम् ।
अवाप्नुहि जयं युद्धे गमने स्वस्ति नो व्रज ॥
श्रीस्ते सोमाद्बलं विष्णोस्तेजः सूर्याज्जवोऽनिलात् ।
स्थैर्यं मेरोर्जयं रुद्राद्यशो देवात्पुरन्दरात् ॥
युद्धे रक्षन्तु नागास्त्वां दिशश्च सह दैवतैः ।
अश्विभ्यां सह गन्धर्वाः पान्तु त्वां सर्वतः सदा ॥
इति हस्तिमन्त्रः ।
हुतभुग्वसवो रुद्रा वायुः सोमो महर्षयः ।
नागकिन्नरगन्धर्वयक्षभूतगणग्रहाः ॥
प्रमथास्तु सहादित्यैर्भूतेशो मातृभिः सह ।
शक्रसेनापतिः स्कन्दो वरुणश्चाश्रितस्त्वयि ॥
प्रदहन्तु रिपूसर्वान् राजा विजयमृच्छतु ।
यानि प्रयुक्तान्यरिभिर्दूषणानि समन्ततः ॥
पतन्तूपरि शत्रूणां हतानि तव तेजसा ।
कालनेमिवधे यद्वद्यद्वात्रिपुरघातने ॥
हिरण्यकशिपोर्यद्वधे सर्वासुरेषु च ।