सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 337, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 337

यात्राप्रकरणे छत्राश्वादीनामभिमन्त्रणमन्त्राः। ३४१
पुष्कर उवाच ।
शृणु मन्त्रान्महाभाग भगवान्यत्पराशरः ।
गालवाय पुरोवाच सर्वधर्मभृतां वरः ॥
पराशर उवाच ।
यथाम्बुदश्छादयति शिवायैमां वसुन्धराम् ।
तथाच्छादय राजानं विजयारोग्यवृद्धये ॥
इति छत्रमन्त्रः ।
गन्धर्वकुलराजस्त्वं मा भूयाः कुलदूषकः ।
ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ॥
प्रभावस्त्वं हुताशस्य भगवंस्त्वं तुरङ्गम ।
तेजसा चैव सूर्यस्य मुनीनां तपसा तथा ॥
रुद्रस्य ब्रह्मचर्येण पवनस्य बलेन च ।
स्मर त्वं राजपुत्रोऽसि कौस्तुभं च मणिं स्मर ॥
यां गतिं ब्रह्महा गच्छेत्पितृहा मातृहा तथा ।
भूम्यर्थेऽनृतवादी च क्षत्रियश्च पराङ्मुखः ॥
सूर्याचन्द्रमसौ वायुर्यावत्पश्यन्ति दुष्कृतम् ।
व्रजेस्त्वं तां गतिं क्षिप्रं तच्च पापं भवेत्तव ॥
विकृतिं यदि गच्छेर्नो युद्धेऽध्वनि तुरङ्गम ।
रिपून् विजित्य समरे सह भर्त्रा सुखी भव ॥
इत्यश्वमन्त्रः ।
शक्रकेतो महावीर सुपर्णस्त्वच्युताश्रितः ।
पतत्रिराड्वैनतेयस्तथा नारायणध्वजः ॥
काश्यपेयोऽमृताहर्ता नागारिर्विष्णुवाहनः ।
अप्रमेयो दुराधर्षो रणे चैवारिसूदनः ॥