सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 339, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 339

यात्राप्रकरणे पताकाद्यभिमन्त्रणमन्त्राः । ३४३
शोभितासि तथैवाद्य शोभस्व समयं स्मर ॥
नीलान् श्वेतानिमान् दृष्ट्वा नश्यन्त्वाशु नृपारयः ।
व्याधिभिर्विविधैर्घोरैः शस्त्रैश्च युधि निर्जिताः ॥
पूतना रेवतीनाम्ना कालरात्रीति पठ्यते ।
दहत्वाशु रिपून्सर्वान् पताके त्वामुपाश्रिता ॥
इति पताकामन्त्रः ।
असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः ।
श्रीगर्भो विजयश्चैव धर्माचारस्तथैव च ॥
इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा ।
नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः ॥
रोहिण्याश्च शरीरं ते दैवतं तु जनार्दनः ।
पिता पितामहो देवस्त्वं पालय सर्वदा ॥
इति खड्गमन्त्रः
शर्मप्रदस्त्वं समरे चर्मन् सैन्याय मे ह्यसि ।
रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तु ते ॥
इति चर्ममन्त्रः ।
दुन्दुभे त्वं सपत्नानां घोषाद्धृदयकम्पनः ।
नवभूमिपसैन्यानां तथा विजयवर्धनः ॥
यथा जीमूतघोषेण हृष्यन्ति शिखिचारणाः ।
तथा च तव शब्देन त्रस्यन्त्वस्मद्विषो रणे ॥
इति दुन्दुभिमन्त्रः ।
सर्वायुध महामात्र सर्वदेवारिसूदन ।
चापस्त्वं सर्वतो रक्ष साकं शरवरैः सदा ॥
इति चापमन्त्रः ।