सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 297, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 297

उपायेषु स्वविषये दण्डः । ३०१
पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने ।
वैश्ये चाप्यर्द्धपञ्चाशच्छूद्रे द्वादशको दमः ॥
क्षत्रियस्याप्नुयाद्वैश्यः साहसं पूर्वमेव तु ।
शूद्रः क्षत्रियमाक्रुश्य जिह्वाच्छेदनमाप्नुयात् ॥
पञ्चाशत्क्षत्रियो दण्ड्यस्तथा वैश्याभिशंसने ।
शूद्रे चैवार्द्धपञ्चाशत्तथा धर्मो न हीयते ॥
वैश्यस्याक्रोशने दण्ड्यः शूद्रश्चोत्तमसाहसम् ।
शूद्राक्रोशे तथा वैश्यः शतार्द्धं दण्डमर्हति ॥
सवर्णाक्रोशने दण्डस्तथा द्वादशिकः स्मृतः ।
द्वादशिकः, द्वादशपणात्मकः ।
वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् ॥
एकजातिर्द्विजातिं तु वाचा दारुणा क्षिपेत् ।
जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः ॥
एकजातिः, शूद्रः, उपनयनकृतद्वितीयजातेरभावात् ।
नामजातिग्रहं त्वेषामभिद्रोहेण कुर्वताम् ।
निखेयोऽयोमयः शङ्कुर्ज्वलन्नास्ये दशाङ्गुलः ॥
अयोमयः, लोहमयः ।
धर्मोपदेशं धर्मेण द्विजानामस्य कुर्वतः ।
तप्तमासेचयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥
श्रुतं देशं च जातिं च कर्म शारीरमेव च ।
वितथं तु ब्रुवन्दाप्यो राज्ञा द्विगुणसाहसम् ॥
यस्तु पातकसंयुक्तैः क्षिपेद्वर्णांन्तगोचरैः ।
उत्तमं साहसं तस्मिन्दण्डः पात्यो यथाक्रमम् ॥
राज्ञे निवेद्य नियमं प्रशमं यान्ति ये मिथः ।
सर्वे द्विगुणदण्ड्यास्ते विप्रलम्भान्नृपस्य तु ॥