सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 298, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 298

प्रीत्या मयास्याभिहितं प्रमादेनाथ वा वदेत् ।
भूयो न चैवं वक्ष्यामि स तु दण्डार्धभाग्भवेत् ॥
काणं वाप्यथ वा खञ्जमन्यं वापि तथाविधम् ।
तथ्येनापि ब्रुवन्दाप्यो दण्डं कार्षापणावरम् ॥
मातरं पितरं ज्येष्ठं भ्रातरं श्वशुरं गुरुम् ।
आक्षारयन् शतं दण्ड्यः पन्थानं चाददद्गुरोः ॥
गुरुवर्जं तु मार्गे हि यो मार्गं न प्रयच्छति ।
स दाप्यः कृष्णलं राज्ञा तस्य पापस्य शान्तये ॥
एकजातिर्द्विजातिं तु येनाङ्गेनापराध्नुयात् ।
तदेव च्छेदयेत्तस्य क्षिप्रमेवाविचारयन् ॥
अवनिष्ठीवतो दर्पाद्द्वावोष्ठौ छेदयेन्नृपः ।
अवमेहयतो मेढ्रमवमर्द्दयतो गुदम् ॥
सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः ।
कट्यां कृताङ्को निर्वास्योऽङ्गमेकं चास्य कर्त्तयेत् ॥
केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् ।
पादयोर्घाटिकायां तु ग्रीवायां वृषणेषु च ॥
त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः ।
अस्थिभेत्ता च षण्निष्कान् प्रमाप्यश्च प्रमापकः ॥
अङ्गभङ्गकरस्याङ्गं तदेवापहरेन्नृपः ।
दण्डपारुष्यकृद्दद्यात्समुत्थानव्ययं तथा ॥
अर्द्धपादकराः कार्या गोगजाश्वोष्ट्रघातकाः ।
पशुक्षुद्रमृगाणां च हिंसायां द्विगुणो दमः ॥
पञ्चाशत्तु भवेद्दण्ड्यस्तथैव मृगपक्षिषु ।
कृमिकीटेषु दण्ड्यः स्याद्रजतस्य तु माषकम् ॥
तस्यानुरूपं मूल्यं च प्रदद्यात्स्वामिने तथा ।
सस्वामिकानां सकरं शेषाणां दण्डमेव तु ॥