वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 296, कुल 490 में से
संदर्भ में पढ़ें३०० वीरमित्रोदयस्य राजनीतिप्रकाशे
स तु दण्ड्यः शतं राज्ञा सुवर्णं चाप्यरक्षिता ।
दण्डं दत्त्वा न विरमेत्स्वामिभिः कृतलक्षणः ॥
बद्धः कार्ष्णायसैः पाशैस्तस्य कर्मकरो भवेत् ।
धनुःशतपरीमाणां ग्रामस्य तु समन्ततः ॥
द्विगुणां त्रिगुणां वापि नगरस्य तु कल्पयेत् ।
वृत्तिं तत्र प्रकुर्वीत यामुष्ट्रो नावलोकयेत् ॥
छिद्रं निवारयेत्सर्वं श्वसूकरमुखानुगम् ।
तत्राप्यनावृतं धान्यं विहिंस्युः पशवो यदि ॥
न तत्र कारयेद्दण्डं नृपतिः पशुरक्षिणाम् ।
अनिर्दशाहां गां सूतां वृषान् देवपशूंस्तथा ॥
अनिर्दशाहाम्, प्रसवोत्तरमनतिक्रान्तदशरात्राम् ।
सपालान् वा विपालान् वा नदण्ड्यान् मनुरब्रवीत्
अतोऽन्यथा विनष्टस्य दशांशं दण्डमर्हति ।
वैराद्दशगुणं दण्डं विनाशात् क्षेत्रियस्य तु ॥
गृहं तडागमारामं क्षेत्रं वा ज्ञानतो हरन् ।
शतानि पञ्च दण्ड्यः स्यादाज्ञानाद्द्विशतो दमः ॥
सीमाबन्धनकाले तु सीमाबन्धनकारिणाम् ।
तेषां संज्ञां ददानस्तु जिह्वाच्छेदनमाप्नुयात् ॥
अनर्थेनापि यो भिन्द्यात्संविदं वा विगच्छति ।
उत्तमं साहसं दण्ड्यमिति स्वायम्भुवोऽब्रवीत् ॥
स्थापितां चापि मर्यादां ये भिन्द्युः पापकारिणः ।
सर्वे पृथक् पृथक् दण्ड्या राज्ञा प्रथमसाहसम् ॥
मर्यादां, सीमामर्यादाम् ।
शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति ।
वैश्यश्च द्विशतं राम शूद्रश्च वधमर्हति ॥