वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 295, कुल 490 में से
संदर्भ में पढ़ेंउपायेषु स्वविषये दण्डः । २९९
भृतो नार्तो न कुर्याद्यो दर्पात्कर्म यथोचितम् ॥
स दण्ड्यः कृष्णलान्राष्टौ न देयं चास्य वेतनम् ।
अकाले यस्त्यजेद्भृत्यं दण्ड्यः स्यात्तावदेव तु ॥
यो ग्रामदेशसन्धानं कृत्वा सत्येन संविदम् ।
विसंवदेनरो लोभात्तं राष्ट्राद्विप्रवासयेत् ॥
क्रीत्वा विक्रीय वा किञ्चिद्यस्येहानुशयो भवेत् ।
सोऽन्तर्दशाहात्तत्साम्याद्दद्याच्चैवाददीत च ॥
साम्यात्, न्यूनाधिकभावाभावेन ।
परेण तु दशाहस्य न दद्यान्नैव दापयेत् ।
आददद्धि ददच्चैव राज्ञा दण्ड्यः शतानि षट् ॥
यस्तु दोषवतीं कन्यामनाख्याय प्रयच्छति ।
तस्य कुर्यान्नृपो दण्डं स्वयं षण्णवतिं पणान् ॥
अकन्येति तु यः कन्यां ब्रूयाद्द्वेषेण मानवः ।
स शतं प्राप्नुयाद्दण्डं कन्यादोषमदर्शयन्
अकन्या, क्षतयोनिः ।
यस्त्वन्यां दर्शयित्वान्यां वोढुः कन्यां प्रयच्छति ।
उत्तमं तस्य कुर्वीत राजा दण्डं तु साहसम् ॥
वरो दोषान्न विख्याप्य यः कन्यां वरयेदिह ।
दत्ताऽप्यदत्ता सा तस्य राज्ञा दण्ड्यः शतद्वयम् ॥
लुब्धोऽन्यत्र तु विक्रेता षट्शतं दण्डमर्हति ।
वहेच्छुल्कं तु विक्रेता सत्यङ्कारं तु सन्त्यजेत् ॥
द्विगुणं दण्डयेदेनमिति धर्मो व्यवस्थितः ।
मूल्यैकदेशं दत्त्वा तु यदि क्रेता धनं त्यजेत् ॥
दण्ड्यः स मध्यमं दण्डं तस्य दण्डस्य मोक्षणम् ।
दुह्याद्धेनुं तु यः पालो गृहीत्वा भक्तवेतनम् ॥