सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 294, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 294

२९८ वीरमित्रोदयस्य राजनीतिप्रकाशे
मूलं, मूलद्रव्यम् । अवध्य, अहिंसयित्वा, न्यूनमकृत्वेत्य-
र्थः । वृद्धेस्तु सर्वथा लोप एव ।
वस्त्रादौ तु तथा मूलच्छेदे धर्मो न हीयते ।
सुवर्णरूप्यादावाधीकृते तद्भोगे मूलच्छेदं विना वृद्धौ च
लोप इत्युक्तं, वस्त्रादावाधीकृते तद्भोगे मूलच्छेदे कृतेऽपि
राज्ञो धर्मो न हीयत इत्यर्थः ।
यो निक्षेपं वञ्चयति यश्चानिक्षिप्य याचते ।
तावुभौ चौरवच्छास्यौ दाप्यौ वा द्विगुणं दमम् ॥
उपधाभिश्च यः कश्चित्परद्रव्यं हरेन्नरः ।
ससहायः स हन्तव्यः प्रकाशं विविधैर्वधैः ॥
उपधाभिः, छलादिभिः ।
यो याचितकमादाय न तद्द्याद्यथाक्रमम् ।
स निगृह्य बलाद्दाप्यो दण्डं वै पूर्वसाहसम् ॥
अज्ञानाद्यः पुमान् कुर्यात्परद्रव्यस्य विक्रयम् ।
निर्दोषो ज्ञानपूर्वं तु चौरवद्वधमर्हति ॥
मूल्यमादाय यो विद्यां शिल्पं वा न प्रयच्छति ।
दण्ड्यः स मूल्यं सकलं धर्मज्ञेन महीक्षिता ॥
द्विजभोज्ये तु सम्प्राप्ते प्रातिवेश्यमभोजयन् ।
हिरण्यमाषकं दण्ड्यः पापे नास्ति व्यतिक्रमः ॥
पापे, कृतपापे प्रातिवेश्ये सति, अभोजयितुरिति शेषः ।
व्यतिक्रमो दण्डो नास्ति ।
आमन्त्रितो द्विजो यस्तु वर्त्तमानः प्रतिग्रहे ।
निष्कारणं न गच्छेद्यः स दाप्योऽष्टशतं दमम् ॥
प्रतिग्रहे वर्त्तमानः, प्रतिग्रहपरिग्रहभोजनादिकं कुर्वन् ।
प्रतिश्रुत्याप्रदातारं सुवर्णं दण्डयेन्नृपः ।