सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 293, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 293

जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः ।
ताञ्छिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः ॥
प्रनष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् ।
अर्वाक् त्र्यब्दाद्धरेत्स्वामी परेण नृपतिर्हरेत् ॥
ममेदमिति यो ब्रूयात्सोऽनुयुक्तो यथाविधि ।
संवाद्य रूपसङ्ख्यादीन्स्वामी तद्द्रव्यमर्हति ॥
संवाद्य, यथास्थितं निवेद्य ।
अवेदयानो नष्टस्य देशं कालं च तत्त्वतः ॥
वर्णं रूपं प्रमाणं च तत्समं दण्डमर्हति ।
वर्णो, रक्तपीतादिर्वस्त्रादौ । रूपं, कटककुण्डलादिर्जातिवि-
शेषः । प्रमाणं, परिमाणं, तोलकादि हस्तचितस्त्यादि वा ।
प्रनष्टाधिगतं रिक्थं तिष्ठेद्युक्तैरधिष्ठितम् ।
यांस्तत्र चौरान् गृह्णीयाद्घातयेत्कुञ्जरेण तान् ॥
ममेदमिति यो ब्रूयादसत्येन तथा निधिम् ।
तस्य दण्डं हरेद्राजा स्ववित्तस्यांशमष्टमम् ॥
असत्यता च रूपपरिमाणादेर्विसंवादेन बोद्ध्या । स्ववित्त-
स्य, निधिस्थद्रव्यस्य ।
चौरैरमुषितो यस्तु मुषितोऽस्मीति भाषते ।
तत्प्रदाय च भूपाले स दण्ड्यस्तावदेव तु ॥
यो यावन्निह्नुवीतार्थं मिथ्या यो वा वदेत्ततः ।
तौ नृपेण ह्यधर्मज्ञौ दाप्यौ तद्विगुणं दमम् ॥
कूटसाक्ष्यं तु कुर्वाणांस्त्रीन् वर्णान् धार्मिको नृपः ।
प्रमापयेन्महाभाग ब्राह्मणं तु विवासयेत् ॥
यः स्वामिनाऽननुज्ञातमाधिं भुङ्क्ते विचक्षणः ।
अवध्य मूलं कर्त्तव्यं तस्य दण्डं महीक्षिता ॥
३८