सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 245, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 245

सप्ताङ्गेषु राष्ट्रम् । २४९
विष्णुधर्मोत्तरेऽपि पुष्करवाक्यम्—
राजा धर्मभृतां श्रेष्ठः कृत्वा पुरुषविग्रहम् ।
पुरुषान् विनियुञ्जीत उत्तमाद्यमकर्मसु ॥
ग्रामस्याधिपतिं कुर्याद्दशग्रामाधिपं तथा ।
शतग्रामाधिपं वापि तथैव विषयेश्वरम् ॥ इति ।
आपस्तम्बोऽप्याह-ग्रामेषु नगरेषु चार्यान् शुचीन्
सत्यशीलान् प्रजागुप्तये निदध्यात्तेषां पुरुषास्तथागुणा एव स्युः
सर्वतो नगरं योजनं तस्करेभ्यो रक्ष्यं क्रोशो ग्रामः । इति ।
विष्णुधर्मोत्तरे विशेषः ।
तेषां भागो विभागश्च भवेत्कर्मानुसारतः ।
नित्यमेव तथा कार्यं तेषां चारैः परीक्षणम् ॥ इति ।
याज्ञवल्क्योऽपि,
ये राष्ट्राधिकृतास्तेषां चारैर्ज्ञात्वा विचेष्टितम् ।
साधून् सम्मानयेद्राजा विपरीतांश्च घातयेत् ॥
उत्कोचजीविनो हीनद्रव्यान् कृत्वा विवासयेत् ।
सदानमानसत्कारान् श्रोत्रियान् वासयेत् सदा ॥ इति ।
विचेष्टितं, विविधं व्यापारम् । विपरीतान्, असाधून् ।
कार्यार्थं कार्यिणो धनादानमुत्कोचः । मानः, पूजा। विशेषान्त-
रमप्याह—
मनुः,
तेषां ग्राम्याणि कार्याणि पृथक्कार्याणि चैव हि ।
राज्ञोऽन्यः सचिवः स्निग्धस्तानि पश्येदतन्द्रितः ॥
पृथक्कार्याणि, परस्परकलहादीनि । पृथक्कार्यानीति कचि-
त्पाठः । तदा विप्रतिपन्नानीत्यर्थः ।
नगरे नगरे चैकं कुर्यात्सर्वार्थचिन्तकम् ।
३२